मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 164, कुल 1023 में से
संदर्भ में पढ़ेंख. २ अ. २७ पान ३८ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ऋषभेन कृता चर्या नानायोगप्रकाशिनी । आदौ तां भूमिपो दृष्ट्वा जगृहेऽहंदृहे स्थितः ॥ १ ॥ दुर्बुद्धिः स तु तं भ्रष्टः कर्ममार्गं विमुच्य वै । पशुवद्धर्महीनांश्च कारयामास मानवान् ॥ २ ॥ जैनमार्गः समुत्पन्नस्तदादिश्च प्रजापते । भरतेन स संच्छन्नो कर्ममार्गानुसारिणा ॥ ३ ॥ स एव कलिकालै वै भविष्यति गृहे गृहे । नरास्तं संग्रहीष्यंति कलिदोषेण संयुताः ॥ ४ ॥ ऋषभेन गृहं त्यक्त्वा धृतः संन्यासिना महान् । गृहस्थैः संधृतो मार्गो नरकप्रद उच्यते ॥ ५ ॥ ऋषभस्याग्रजः पुत्रो भरतो धर्मतत्परः । राज्यं चकार धर्मेण रंजयन् सकलाः प्रजाः ॥ ६ ॥ पुत्रे राज्यं समर्प्याऽसौ वनं यातो महायशाः । तत्र देहं क्रमेणैव तपसा शोषयन् स्थितः ॥ ७ ॥ शालिग्रामाश्रमे तिष्ठन्विष्णुध्यानपरायणः । तताप तप उग्रं स राजा परमधर्मवित् ॥ ८ ॥ एकदा स नदीतीरे संस्थितस्तर्पयन् पितॄन् । अकस्मात्सिंहसंनादो बभूव भयदायकः ॥ ९ ॥ तं श्रुत्वा हरिणी तत्रांतर्वत्नी सहसा स्वनम् । उत्पपात नदीं तां वै भयेन च पलायत ॥ १० ॥ उत्पतंत्या नदीतोये गर्भस्तस्याः पपात ह । साऽपि दूरे ययौ दक्ष मृता दुःखेन तत्क्षणात् ॥ ११ ॥ भरतेन मृगो बालो जलस्थः संधृतोऽभवत् । करुणायुतचित्तेन पालितश्च स यत्नतः ॥ १२ ॥ ततो मृगशिशौ तस्य प्रीतिर्जाता महात्मनः । लालयामास भावेन खेलयामास भूमिपः ॥ १३ ॥ क्रमेण प्रगतं सर्वं कर्म तस्य तपोमयम् । मृगे चासक्तचित्तस्य संगदोषमपश्यतः ॥१४॥ एकस्मिन् दिवसे सोऽपि मृगो मृगसमन्वितः । ययौ वनांतरे कुत्र न ज्ञातः साधुनाऽमुना ॥ १५ ॥ भरतस्तं मृगं तत्र न ददर्श यदा प्रभो । तदा दुःखसमायुक्तो बभ्राम स वने वने ॥ १६ ॥ न ददर्श मृगं कुत्र विललाप महीपतिः । नित्यं शोकसमायुक्तः कालेन स ममार च ॥ १७ ॥ मरणे स मृगस्तेन संदृष्टः स्वसमीपगः । बभूव मृगयोनौ स संगदोषप्रभावतः ॥ १८ ॥ तत्र पूर्वतपोभिश्च पूर्वजातिस्मरोऽभवत् । ज्ञानयुक्तः स्वयं संगात्स भीतो विचचार ह ॥ १९ ॥ मृगसंगं परित्यज्य ययौ पूर्वाश्रमे ततः । तत्राऽहिंसासमायुक्तो द्वंद्वभाव- पराङ्मुखः ॥२०॥ शुष्कं तृणादिकं भक्षन् सोऽस्मरद्विष्णुमव्ययम् । तीर्थस्नानं तदा कुर्वन् साधुदर्शनलालसः ॥२१॥ एकदा वनमध्ये स मृगो बभ्राम लीलया । अपश्यत्पूर्वपुण्येन पुलहाश्रममुत्तमम् ॥ २२ ॥ मुनीश्वरास्तत्र केचिद्वसंस्तत्परायणाः । महाभागास्तपोयुक्ता गणेशभजने रताः ॥ २३ ॥ तत्राऽसौ मृगजातिस्थो भरतो मुनिसंनिधौ । वासं चकार संहृष्टः साधुसंगपरायणः ॥ २४ ॥ एकदा ब्रह्मदेवोऽथ जगाम पुलहाश्रमम् । तं दृष्ट्वा पुलहाद्यास्ते प्रणेमुस्तं पितामहम् ॥ २५ ॥