मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 165, कुल 1023 में से
संदर्भ में पढ़ेंखं. २ अ. १७ पान ३९ तं संपूज्य महाभक्त्या पुलहः सर्वसंयुतः । तोषयित्वा स्वयं देवं पादसंवाहने स्थितः ॥ २६ ॥ परिपप्रच्छ तं स्तुत्वा पुलहो भावसंयुतः । आदिदेवं महाभागं गाणपत्यं स्वभावतः ॥ २७ ॥ पुलह उवाच । तात दुःखयुताः सर्वे जंतवः केन भोगिनः । मोक्षिणो ब्रह्मभूताश्च जायंते तद्वदस्व मे ॥२८॥ मुद्गल उवाच । पुलहस्य वचः श्रुत्वा प्रभुर्धाता तमब्रवीत् । पुत्रं विनयसंयुक्तं कृतप्रांजलिमास्थितम् ॥२९॥ ब्रह्मोवाच । शृणु पुत्र प्रवक्ष्यामि यत्पृष्टं मे त्वया परम् । तत्सर्वं सर्वपापघ्नं शांतिमार्गप्रका- शकम् ॥३०॥ विघ्नराजमनादृत्य नरा दुःखसमन्विताः । जायंते सर्वलोकेषु विघ्नयुक्ता भयातुरः ॥३१॥ यद् यद् दुःखकरं तत्त- द्विघ्नरूपं न संशयः । नरकादि महाघोरं विकर्मफलदं मतम् ॥३२॥ कर्मयुक्तं च सर्वं तत्स्वर्गभोगप्रदं मतम् । तदेव दुःखरूपं त्वं पुत्र जानीहि निश्चितम् ॥३३॥ स्वर्गेषु द्वंद्वभावश्च विद्यते नात्र संशयः । स्त्रीपुंयुक्तं तथा विघ्नं मोहदं पश्य तत् स्थितम् ॥३४॥ दैत्यादिभ्यो भयैर्युक्ता देवास्तत्र वसन्ति ते । भयहीनाश्च तान् हत्वा लये मृत्युभयप्रदम् ॥ ३५ ॥ उत्पत्तिनाशसंयुक्तं ब्रह्मांडं सकलं मतम् । त्रिगुणादि व्यथायुक्तं विघ्नेन ग्रसितं स्मृतम् ॥३६॥ अकर्मणा नरो मोक्षं लभते नात्र संशयः । स एव विघ्नसंयुक्तो मोक्षश्च शृणु तं सुत ॥३७॥ देही देहैश्चतुर्भिश्च मोहितो बंधनं गतः । स एव साधनं कृत्वा बंधहीनः प्रजायते ॥३८॥ मोहेन युक्तो हीनोऽयं देही सर्वत्र संमतः । तदेव विघ्नरूपं च तन्न प्राप्तं महामते ॥३९॥ देहदेहिमये योगे ब्रह्म तत्कल्पनात्मकम् । विकल्पेन द्विधाभूतं स्वत उत्थानसंज्ञकम् ॥४०॥ निर्विकल्पेन योगेन स्वमहिम्नि स्थितं भवेत् । तदेव विघ्नसंयुक्तं विकल्पयुतहीनतः ॥४१॥ सांख्यं ब्रह्मात्मनिष्ठं यत्तत्र बाधो न विद्यते । अस्वातन्निष्ठमन्यच्चेत्तदा स्वात्ममयं भवेत् ॥४२॥ स्वात्मनिष्ठं धृतं येन तस्मादस्वात्मनिष्ठकम् । समुत्पन्नं महाभाग न कृतं त्वपि पुत्रक ॥४३॥ तदेव विघ्नरूपं चाप्यपरोत्थानभावतः । सांख्यं ब्रह्म न संदेहो बीजमुत्थानधारकम् ॥४४॥ सबीजं तद्विनिर्बीजं तदेव भवति स्वयम् । अतो योगिभिरत्यंतं मानितं न कदाचन ॥४५॥ स्वानंदं ब्रह्म यत्प्रोक्तं समाधे रूपधारकम् । तत्र स्वकीयसंयोगस्तदाकारेण जायते ॥४६॥ सर्वाभेदस्वरूपेण संयोगात्मक उच्यते । स्वसंवेद्यात्परं नास्ति संयोगाभेददायकम् ॥४७॥ तदेव योगिभिस्तस्मात्कथितं विघ्नसंयुक्तम् । तस्माज्जातंमिदं तत्र योगेनाभेदतां गतम् ॥४८॥ अन्वयात्मकदोषेण विघ्नरूपं प्रकाशितम् । अतो न मान्यतां प्राप्तं शांतिमार्गेषु सर्वदा ॥४९॥ ततो योगस्वरूपं यत्सदा भिन्नं प्रकीर्तितम् । न तस्य कस्यचियोगस्तत्र कुत्रापि नो भवेत् ॥५०॥ ब्रह्मभिन्नमयोगाख्यमतो विघ्नसमाकुलम् । व्यतिरेकात्मको दोषो