भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 166, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 166

खं. २ अ. १८ पान ४० ☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸ ह्यशांतिकर उच्यते ॥५१॥ संयोगित्वमयोगत्वं त्यक्त्वा शांतिमवाप्स्यसि । तत्र विघ्नविहीनत्वं प्राप्तं पुत्र न संशयः ॥५२॥ चित्तभूमिस्वरूपं यत् पंचधा त्यज विप्रप । योगाभेदस्वरूपस्त्वं भविष्यसि न संशयः ॥५३॥ पंचधा चित्तरूपा वै बुद्धिर्माया प्रकीर्तिता । पंचधैश्वर्यमोहेषु मोहदा सिद्धिरुच्यते ॥५४॥ तत्र बिंबं गणेशस्य पतितं योगरूपतः । द्वैधं मायायुतं प्रोक्तं बिंबभावं त्यज प्रभो ॥५५॥ आदौ पुरा मया पुत्र कथितं कुलदैवतम् । गणेशरूपमस्माकं त्वयाराधितमादरात् ॥५६॥ तेन त्वं पात्रभूतश्च योगशांतेर्महामुने । अधुना कथितं पुत्र पूर्णशांतिस्वरूपकम् ॥ ५७॥ शांतियोगेन नित्यं त्वं तं भजस्व विधानतः । भविताऽसि गणेशानस्तदा वै नात्र संशयः ॥५८॥ एवमुक्त्वा स्वयं ब्रह्माऽन्तर्दधे स प्रजापते । पुलहस्तत्र योगं त्वसाधयत्तपसि स्थितः ॥५९॥ ॥ ओमिति श्रीमदंत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते पुलहोपदेशवर्णनं नाम सप्तदशोऽध्यायः ॥ ❧❧❧ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । क्रमेण योगशांतिं च प्राप्तोऽसौ पुलहः स्वयम् । नित्यं गणेशमूर्तिं प्रापूजयत् भक्तिसंयुक्तः ॥ १ ॥ ध्याननिष्ठः सदा योगी तमेवाचिंतयत् प्रभुम् । ततः कियति काले तं गणेशानो ययौ मुनिम् ॥ २ ॥ न बुबोध स तं विप्रो ध्याननिष्ठतया यदा । तदा हृदि स्थितो ढुंढिर्गणेशेन प्रलोपितः ॥ ३ ॥ अंतर्हितं हृदिस्थं तं गणेशं न ददर्श ह । तदा भ्रांत इवापश्यद्ददर्श गणपं बहिः ॥४॥ उत्थाय सहसा विप्रस्तं ननाम कृतांजलिः । विधिवत् पूजयामास विनायकमनामयम् ॥ ५ ॥ पूजयित्वा नमस्कृत्य तं तुष्टाव कृतांजलिः । सरोमांचशरीरः सन् हर्षगद्गदया गिरा ॥ ६ ॥ पुलह उवाच । नमस्ते विघ्नराजाय भक्तानां विघ्नहारिणे । विघ्नदात्रे ह्यभक्तानां गणेशाय नमो नमः ॥ ७ ॥ ब्रह्मणे ब्रह्मरूपाय निराकाराय ते नमः । साक्षिणे सर्वसंस्थायानादिसिद्धाय ते नमः ॥ ८ ॥ अनामयाय देवायाऽप्रतर्क्याय महौजसे । वक्रतुंडाय वै तुभ्यं हेरंबाय नमो नमः ॥ ९ ॥ स्वानंदवासिने तुभ्यं भक्तसंरक्षकाय च । योगानां पतये चैव योगदायिन्नमो नमः ॥ १० ॥ शांताय शांतरूपाय शांतीनां पतये नमः । भक्तेभ्यः शांतिदात्रे च योगशांताय ते नमः ॥ ११ ॥ नानावताररूपाय जगदाधारमूर्तये । सुरासुराणामीशाय सर्वगाय नमो नमः ॥ १२ ॥ सर्ववंद्याय वै तुभ्यं सर्वादौ ☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸