मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 167, कुल 1023 में से
संदर्भ में पढ़ेंखं. २ अ. १८ पान ४१ संस्थिताय च । सर्वांत एकरूपाय मध्ये नानास्वरूपिणे ॥ १३ ॥ आदिमध्यांतहीनाय सृष्टिस्थित्यंतकारिणे । अनंतोदर- संस्थाय लंबोदर नमोऽस्तु ते ॥ १४ ॥ गजवक्त्राय वै तुभ्यं गजाकाराय ते नमः । गजकर्णाय पूर्णाय गजानन नमोऽस्तु ते ॥ १५ ॥ मूषकध्वजरूपाय मूषकारूढरूपिणे । पाशांकुशधरायैव स्तुताय च विभूतिभिः ॥ १६ ॥ चतुर्भुजधरायैव चतुर्वर्गमयाय च । ब्रह्मभूतस्वरूपाय देहधारिन्नमो नमः ॥१७॥ यं वेदवादिनः स्तोतुं वेदाः सांगाश्च योगिनः । शिवविष्णु- मुखा देवा न समर्था भवंति वै ॥ १८ ॥ तं कथं स्तौमि देवेशं योगरूपमयं प्रभुम् । अतो वै प्रणमामि त्वां प्रसन्नो भव सर्वदा ॥ १९ ॥ वरं मे देहि योगात्मन् तेन तुष्टो भवाम्यहम् । तव भक्तिं दृढां हुंदे व्यभिचारविवर्जिताम् ॥ २० ॥ एवमुक्त्वा मुनिस्तत्र ननर्त प्रेमविह्वलः । तं भक्तिरससंयुक्तमुवाच गणनायकः ॥ २१ ॥ गणेश उवाच । मदीया सुदृढा भक्तिर्व्यभिचारविवर्जिता । भविष्यति महायोगिन् तव चानंददायिका ॥ २२ ॥ यदा मे स्मरणं त्वं वै करिष्यसि महामते । तदा मां द्रक्ष्यसि ब्रह्मन् संस्थितं तव सन्निधौ ॥ २३ ॥ भवत्कृतं मदीयं यत्स्तोत्रं भक्तिप्रदं भवेत् । भुक्तिमुक्तिप्रदं प्रोक्तं शांतियोगप्रदायकम् ॥२४॥ यः पठिष्यति वै मर्त्यः शृणुयात्सर्वसौख्यभाक् । भविष्यति न संदेहो यथा त्वं स तथा भवेत् ॥२५॥ मुद्गल उवाच । एवमुक्त्वा गणाधीशस्तत्रैवांतर्दधे प्रभुः । पुलहस्तत्र संस्तथावभजत्तं गणाधिपम् ॥२६॥ मृगरूपधरस्तत्र भरतः पृथिवीपतिः । संस्थितस्तत्र शुश्राव पूर्णं ज्ञानं विधानतः ॥२७॥ ब्रह्मणा कथितं यच्च पुलहाय सुधीमते । तदेव तेन भूपेन धृतं स्वहृदि सर्वदा ॥२८॥ मनसि ध्यानसंयुक्तो बभूव मृगदेहजः । गणेशस्य सदा दृष्टस्तत्र वासं चकार सः ॥२९॥ ततस्तेन च संगीतं तच्छृणुष्व प्रजापते। अहो विघ्नो महाघोरो मया प्राप्तः सुदुर्जयः ॥३०॥ राज्यं त्यक्त्वा वने नित्यं संस्थितोऽहं हरिं स्मरन् । तत्रापि मृगसंगेन संजातो मृगरूपधृक् ॥३१॥ विष्णुमुख्यामरेशाना विघ्नयुक्ता न संशयः । तत्र कोऽहं मनुष्यो वै जयन् वै विघ्नमुल्बणम् ॥३२॥ विघ्नराजप्रसादेन विघ्नं निघ्नंति दुर्जयम् । शिवविष्ण्वादयः सर्वे जंतवश्च तथा परे ॥३३॥ धन्या भक्तिर्मत्कृता या वैष्णवी परमाद्भुता । यया संस्कारसंयुक्तं संप्राप्तं ज्ञानमुत्तमम् ॥३४॥ गाणपतयो महायोगी दृष्टो वै पुलहो मया । अहो भाग्यमहो भाग्यं मदीयं परमं मतम् ॥३५॥ येनाहं गाणपत्यानां संगे तिष्ठामि नित्यशः । विघ्नहीनः स्वभावेन भजामि गणनायकम् ॥३६॥ एवं गणेशभक्त्या वै संयुतो मृगसत्तमः । कालेन गणपं ध्यात्वा देहत्यागं चकार ह ॥३७॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते भरतमृगदेहत्यागो नामाष्टादशोऽध्यायः ॥