मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 168, कुल 1023 में से
संदर्भ में पढ़ें॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । आंगिरसकुले विप्रो बभूव मुनिसत्तमः । ततः पुत्रोऽभवत्तस्य भरतो नृपसत्तमः ॥१॥ तत्रापि संगभीतोऽसौ ज्ञानयुक्तो महामुनिः । गणेशं मनसा ध्यायन् संस्थितो मुनिसन्निधौ ॥ २ ॥ तत्र वेदादिषु प्रोक्तं गणेशस्य महात्मनः । स्तवनं संश्रुतं ज्ञानं तेन पूर्वं हठं कृतम् ॥३॥ जडवत्संगसंभीतो बभूव ब्राह्मणोत्तमः । चातुर्यं सकलं तेन गोपितं सर्वसंनिधौ ॥४॥ विवाहादिभयात् सर्वं जडत्वं संप्रकाशितम् । मूर्खवच्चेष्टया तत्र बालभावेन तिष्ठता ॥५॥ तस्योपवीतदानं स चकारांगिरसो मुनिः । पश्चात् संध्यादिकं कर्म शौचाचारमशिक्षयत् ॥ ६ ॥ पित्रा कथितमत्यंतं न जग्राह महामतिः । अन्यथा स चकारापि ताडितो यदि योगिपः ॥७॥ हस्तं धृत्वा पिता तस्य कारयामास वैदिकम् । सर्वमाचमनाद्यं च तथा तेन कृतं किल ॥८॥ पुनः पित्रा च संपृष्टं न सस्मार तदा स्वयम् । जडवत्सर्व आचारस्त्यक्तस्तेन महात्मना ॥९॥ ततस्तस्य कृतं नाम सर्वैर्लोकैः प्रजापते । जड इत्येव सततं कथ्यते यत्र तत्र तैः ॥१०॥ तत्रादरापमानादि तिरस्कारादिकं महत् । संबभूव च तेनापि जडवत्त्यक्तमेव च ॥११॥ लोकाः सर्वेऽवदंस्तत्र ज्ञानमस्य न निश्चितम् । निंदास्तुत्यादिकं सर्वं महामूर्खेण सह्यते ॥१२॥ जडत्वादिकदोषेण विवाहादिकमस्य च । न कृतं जनकेनैव तेनानंदमवाप सः ॥१३॥ ततः कालेन निधनं गतस्तस्य पिता मुनिः । माता सती गुणयुता सहगा संबभूव ह ॥१४॥ मातुः सपत्नी- जाताश्च भ्रातरो नव चाऽभवन् । तेषामधीनतां यातो द्विजोऽसौ शांतियोगधृक् ॥१५॥ भ्रातृपत्न्यो मदोत्सिक्ताश्चक्रुः स्नेहं न चाल्पकम् । उच्छिष्टं कुत्सितं चान्नं ज्वलितं तद्ददुस्तुषम् ॥१६॥ वस्त्राद्यैर्भ्रातरः सर्वे भाषणैः सत्कृतं न तम् । चक्रुः स्नेहं परित्यज्य कुलपांसुं वदंति ते ॥१७॥ तथाप्यमृतवत्सर्वं कुत्सितं क्लिन्नदग्धकम् । अन्नं बभक्ष योगीशश्चीरवस्त्रैः समावृतः ॥१८॥ तदपि भ्रातृजायास्ता अन्नं तस्मै च नो ददुः । द्वित्रिवासरमध्ये स एकभुक् चाऽभवन्मुनिः ॥१९॥ क्षुधया पीडितो योगी गाणपत्यः प्रजापते । भ्रमन्नन्नार्थमत्यंतं गेहे गेहे विचक्षणः ॥२०॥ तत्र लोकैः स्वकार्यार्थे गृहीतो यत्र तत्र सः । चकार सकलं कार्यं तेषामन्नार्थमादरात् ॥२१॥ ततस्ते हर्षिताः सर्वे वस्त्रान्नादिकमादरात् । ददुः सोऽपि प्रसन्नात्मा कर्मकारोऽभवत् स्वयम् ॥२२॥ ततस्तैर्भ्रातृभिर्दृष्टं तमानीय स्वके गृहे । स्वकर्मकारिणं चक्रुर्भांतरो हर्षसंयुताः ॥२३॥ तदपि भ्रातृजायास्ता कुत्सितान्नं ददुस्तुषम् । सुधासमं बभक्षान्नं सोऽपि भावं प्रदर्शयन् ॥२४॥ कदाचित्पक्वशालीनं क्षेत्रेषु स्थापितो मुनिः । भ्रातृभी रक्षणार्थं स रात्रौ वै दिवसे प्रभो ॥२५॥ तत्राऽयं संस्थितो विद्वांस्तत्तथैव चकार च ।