मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 169, कुल 1023 में से
संदर्भ में पढ़ेंखं. २ अ. २० पान ४३ अन्नार्थं देहभावज्ञः सुखदुःखादिके समः ॥२६॥ तत्र चित्रमभूद्यत्तु तत् शृणुष्व प्रजापते । चौराणां स्वामिना देवी भद्रकालीति संस्तुता ॥२७॥ लभेद्यदि मम द्रव्यं विपुलं च जगन्मयि । तदा पुरुषरूपं ते दास्यामि पशुमुत्तमम् ॥२८॥ द्रव्यं तस्य तथा प्राप्तं तेन संप्रेषिताः स्वकाः । चौरा रात्रौ भ्रमैर्युक्तास्तत्राजग्मुर्यदृच्छया ॥ २९॥ तं गृहीत्वा बलात्सर्वे जग्मुः स्थानं स्वकं खलाः । योगिना देहप्रारब्धं तदा ज्ञातं च तादृशम् ॥३०॥ तत्र चौराधिपेनैव सत्कृतः पूजनादिभिः । भोजनं स चकारापि स्वादु विप्रेन्द्रसत्तमः ॥३१॥ तं पुरस्कृत्य वादित्रैर्निन्दद्भिययौ खलः । देवीसंनिधिमानंदात् पूजितं परमादरात् ॥३२॥ पूजयित्वा महाकाली ततस्तं मुनिपुंगवम् । पुरस्कृत्यासिना हंतुं नग्नं खड्गं चकार सः ॥३३॥ मरणं देहभावस्य दृष्ट्वाऽसौ योगिसत्तमः। न किंचित् क्षुब्धवांस्तत्र सस्मार गणपं हृदि ॥३४॥ अद्यैव पतितो देहोऽथवाऽस्तु चिरजीविकः । तत्र किं कारणं मे वै गजानन नमोऽस्तु ते ॥३५॥ एतस्मिन्नंतरे तत्र देवी कोपसमन्विता । गाणपत्या महाकाली निःसृता मूर्तिमध्यतः ॥३६॥ खड्गं चौराधिपस्याऽपि हस्ताज्जग्राह लीलया । तेन तस्य शिरश्छित्वा पपौ रुधिरमुत्तमम् ॥ ३७ ॥ अन्ये समागताश्चौरास्तेऽपि खड्गेन नाशिताः । चिक्रीड स्वगणैर्देवी गणेशस्तवतत्परा ॥ ३८ ॥ तां प्रणम्य ययौ दक्ष बभ्राम परितस्तु सः । स्वेच्छाचारी महायोगी भिक्षाशी गणपं स्मरन् ॥ ३९ ॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते चौरवधो नामैकोनविंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । सिंधुदेशाधिपो राजा रहूगण इति स्मृतः । पूर्वसंस्कारयोगेन ह्यंतर्निष्ठो बभूव ह ॥१॥ राजा शांत्यर्थमत्यंतं यत्नवान् प्राप्त तां न सः । ययौ गंगासमीपस्थं कपिलाश्रममादरात् ॥२॥ गौतम्या दक्षिणे कूले श्रुतवान् द्विजपुंगवात् । निर्जगाम पुराद्राजा शिबिकायां समास्थितः ॥३॥ गच्छन्मार्गे त्वरायुक्तः श्रांतवाहो महीपतिः । धृत्वा- ऽन्यान्योजयामासुर्वाहार्थं स्वजनास्तदा ॥४॥ तत्र दैवप्रसंगेन समालब्धं महामुनिम् । आंगिरसवरं तं ते चक्रुर्वाहकंमजंसा ॥५॥ ज्ञात्वा देहं महायोगी प्रारब्धाधीनमादरात् । वाहको नृपतेर्दक्ष बभूव विगतज्वरः ॥६॥ अहिंसापरमो योगी मार्गे जंतुमवेक्ष्य सः । स्वपादक्षेपणं तत्र चकार प्राणिवर्जिते ॥७॥ तेन सर्वे बभूवुश्च वाहका मंदगामिनः । दोलायिता च