भारतकोश
संग्रह पर लौटें

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

खं. २ अ. १८ पान ४१ संस्थिताय च । सर्वांत एकरूपाय मध्ये नानास्वरूपिणे ॥ १३ ॥ आदिमध्यांतहीनाय सृष्टिस्थित्यंतकारिणे । अनंतोदर- संस्थाय लंबोदर नमोऽस्तु ते ॥ १४ ॥ गजवक्त्राय वै तुभ्यं गजाकाराय ते नमः । गजकर्णाय पूर्णाय गजानन नमोऽस्तु ते ॥ १५ ॥ मूषकध्वजरूपाय मूषकारूढरूपिणे । पाशांकुशधरायैव स्तुताय च विभूतिभिः ॥ १६ ॥ चतुर्भुजधरायैव चतुर्वर्गमयाय च । ब्रह्मभूतस्वरूपाय देहधारिन्नमो नमः ॥१७॥ यं वेदवादिनः स्तोतुं वेदाः सांगाश्च योगिनः । शिवविष्णु- मुखा देवा न समर्था भवंति वै ॥ १८ ॥ तं कथं स्तौमि देवेशं योगरूपमयं प्रभुम् । अतो वै प्रणमामि त्वां प्रसन्नो भव सर्वदा ॥ १९ ॥ वरं मे देहि योगात्मन् तेन तुष्टो भवाम्यहम् । तव भक्तिं दृढां हुंदे व्यभिचारविवर्जिताम् ॥ २० ॥ एवमुक्त्वा मुनिस्तत्र ननर्त प्रेमविह्वलः । तं भक्तिरससंयुक्तमुवाच गणनायकः ॥ २१ ॥ गणेश उवाच । मदीया सुदृढा भक्तिर्व्यभिचारविवर्जिता । भविष्यति महायोगिन् तव चानंददायिका ॥ २२ ॥ यदा मे स्मरणं त्वं वै करिष्यसि महामते । तदा मां द्रक्ष्यसि ब्रह्मन् संस्थितं तव सन्निधौ ॥ २३ ॥ भवत्कृतं मदीयं यत्स्तोत्रं भक्तिप्रदं भवेत् । भुक्तिमुक्तिप्रदं प्रोक्तं शांतियोगप्रदायकम् ॥२४॥ यः पठिष्यति वै मर्त्यः शृणुयात्सर्वसौख्यभाक् । भविष्यति न संदेहो यथा त्वं स तथा भवेत् ॥२५॥ मुद्गल उवाच । एवमुक्त्वा गणाधीशस्तत्रैवांतर्दधे प्रभुः । पुलहस्तत्र संस्तथावभजत्तं गणाधिपम् ॥२६॥ मृगरूपधरस्तत्र भरतः पृथिवीपतिः । संस्थितस्तत्र शुश्राव पूर्णं ज्ञानं विधानतः ॥२७॥ ब्रह्मणा कथितं यच्च पुलहाय सुधीमते । तदेव तेन भूपेन धृतं स्वहृदि सर्वदा ॥२८॥ मनसि ध्यानसंयुक्तो बभूव मृगदेहजः । गणेशस्य सदा दृष्टस्तत्र वासं चकार सः ॥२९॥ ततस्तेन च संगीतं तच्छृणुष्व प्रजापते। अहो विघ्नो महाघोरो मया प्राप्तः सुदुर्जयः ॥३०॥ राज्यं त्यक्त्वा वने नित्यं संस्थितोऽहं हरिं स्मरन् । तत्रापि मृगसंगेन संजातो मृगरूपधृक् ॥३१॥ विष्णुमुख्यामरेशाना विघ्नयुक्ता न संशयः । तत्र कोऽहं मनुष्यो वै जयन् वै विघ्नमुल्बणम् ॥३२॥ विघ्नराजप्रसादेन विघ्नं निघ्नंति दुर्जयम् । शिवविष्ण्वादयः सर्वे जंतवश्च तथा परे ॥३३॥ धन्या भक्तिर्मत्कृता या वैष्णवी परमाद्भुता । यया संस्कारसंयुक्तं संप्राप्तं ज्ञानमुत्तमम् ॥३४॥ गाणपतयो महायोगी दृष्टो वै पुलहो मया । अहो भाग्यमहो भाग्यं मदीयं परमं मतम् ॥३५॥ येनाहं गाणपत्यानां संगे तिष्ठामि नित्यशः । विघ्नहीनः स्वभावेन भजामि गणनायकम् ॥३६॥ एवं गणेशभक्त्या वै संयुतो मृगसत्तमः । कालेन गणपं ध्यात्वा देहत्यागं चकार ह ॥३७॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते भरतमृगदेहत्यागो नामाष्टादशोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । आंगिरसकुले विप्रो बभूव मुनिसत्तमः । ततः पुत्रोऽभवत्तस्य भरतो नृपसत्तमः ॥१॥ तत्रापि संगभीतोऽसौ ज्ञानयुक्तो महामुनिः । गणेशं मनसा ध्यायन् संस्थितो मुनिसन्निधौ ॥ २ ॥ तत्र वेदादिषु प्रोक्तं गणेशस्य महात्मनः । स्तवनं संश्रुतं ज्ञानं तेन पूर्वं हठं कृतम् ॥३॥ जडवत्संगसंभीतो बभूव ब्राह्मणोत्तमः । चातुर्यं सकलं तेन गोपितं सर्वसंनिधौ ॥४॥ विवाहादिभयात् सर्वं जडत्वं संप्रकाशितम् । मूर्खवच्चेष्टया तत्र बालभावेन तिष्ठता ॥५॥ तस्योपवीतदानं स चकारांगिरसो मुनिः । पश्चात् संध्यादिकं कर्म शौचाचारमशिक्षयत् ॥ ६ ॥ पित्रा कथितमत्यंतं न जग्राह महामतिः । अन्यथा स चकारापि ताडितो यदि योगिपः ॥७॥ हस्तं धृत्वा पिता तस्य कारयामास वैदिकम् । सर्वमाचमनाद्यं च तथा तेन कृतं किल ॥८॥ पुनः पित्रा च संपृष्टं न सस्मार तदा स्वयम् । जडवत्सर्व आचारस्त्यक्तस्तेन महात्मना ॥९॥ ततस्तस्य कृतं नाम सर्वैर्लोकैः प्रजापते । जड इत्येव सततं कथ्यते यत्र तत्र तैः ॥१०॥ तत्रादरापमानादि तिरस्कारादिकं महत् । संबभूव च तेनापि जडवत्त्यक्तमेव च ॥११॥ लोकाः सर्वेऽवदंस्तत्र ज्ञानमस्य न निश्चितम् । निंदास्तुत्यादिकं सर्वं महामूर्खेण सह्यते ॥१२॥ जडत्वादिकदोषेण विवाहादिकमस्य च । न कृतं जनकेनैव तेनानंदमवाप सः ॥१३॥ ततः कालेन निधनं गतस्तस्य पिता मुनिः । माता सती गुणयुता सहगा संबभूव ह ॥१४॥ मातुः सपत्नी- जाताश्च भ्रातरो नव चाऽभवन् । तेषामधीनतां यातो द्विजोऽसौ शांतियोगधृक् ॥१५॥ भ्रातृपत्न्यो मदोत्सिक्ताश्चक्रुः स्नेहं न चाल्पकम् । उच्छिष्टं कुत्सितं चान्नं ज्वलितं तद्ददुस्तुषम् ॥१६॥ वस्त्राद्यैर्भ्रातरः सर्वे भाषणैः सत्कृतं न तम् । चक्रुः स्नेहं परित्यज्य कुलपांसुं वदंति ते ॥१७॥ तथाप्यमृतवत्सर्वं कुत्सितं क्लिन्नदग्धकम् । अन्नं बभक्ष योगीशश्चीरवस्त्रैः समावृतः ॥१८॥ तदपि भ्रातृजायास्ता अन्नं तस्मै च नो ददुः । द्वित्रिवासरमध्ये स एकभुक् चाऽभवन्मुनिः ॥१९॥ क्षुधया पीडितो योगी गाणपत्यः प्रजापते । भ्रमन्नन्नार्थमत्यंतं गेहे गेहे विचक्षणः ॥२०॥ तत्र लोकैः स्वकार्यार्थे गृहीतो यत्र तत्र सः । चकार सकलं कार्यं तेषामन्नार्थमादरात् ॥२१॥ ततस्ते हर्षिताः सर्वे वस्त्रान्नादिकमादरात् । ददुः सोऽपि प्रसन्नात्मा कर्मकारोऽभवत् स्वयम् ॥२२॥ ततस्तैर्भ्रातृभिर्दृष्टं तमानीय स्वके गृहे । स्वकर्मकारिणं चक्रुर्भांतरो हर्षसंयुताः ॥२३॥ तदपि भ्रातृजायास्ता कुत्सितान्नं ददुस्तुषम् । सुधासमं बभक्षान्नं सोऽपि भावं प्रदर्शयन् ॥२४॥ कदाचित्पक्वशालीनं क्षेत्रेषु स्थापितो मुनिः । भ्रातृभी रक्षणार्थं स रात्रौ वै दिवसे प्रभो ॥२५॥ तत्राऽयं संस्थितो विद्वांस्तत्तथैव चकार च ।

खं. २ अ. २० पान ४३ अन्नार्थं देहभावज्ञः सुखदुःखादिके समः ॥२६॥ तत्र चित्रमभूद्यत्तु तत् शृणुष्व प्रजापते । चौराणां स्वामिना देवी भद्रकालीति संस्तुता ॥२७॥ लभेद्यदि मम द्रव्यं विपुलं च जगन्मयि । तदा पुरुषरूपं ते दास्यामि पशुमुत्तमम् ॥२८॥ द्रव्यं तस्य तथा प्राप्तं तेन संप्रेषिताः स्वकाः । चौरा रात्रौ भ्रमैर्युक्तास्तत्राजग्मुर्यदृच्छया ॥ २९॥ तं गृहीत्वा बलात्सर्वे जग्मुः स्थानं स्वकं खलाः । योगिना देहप्रारब्धं तदा ज्ञातं च तादृशम् ॥३०॥ तत्र चौराधिपेनैव सत्कृतः पूजनादिभिः । भोजनं स चकारापि स्वादु विप्रेन्द्रसत्तमः ॥३१॥ तं पुरस्कृत्य वादित्रैर्निन्दद्भिययौ खलः । देवीसंनिधिमानंदात् पूजितं परमादरात् ॥३२॥ पूजयित्वा महाकाली ततस्तं मुनिपुंगवम् । पुरस्कृत्यासिना हंतुं नग्नं खड्गं चकार सः ॥३३॥ मरणं देहभावस्य दृष्ट्वाऽसौ योगिसत्तमः। न किंचित् क्षुब्धवांस्तत्र सस्मार गणपं हृदि ॥३४॥ अद्यैव पतितो देहोऽथवाऽस्तु चिरजीविकः । तत्र किं कारणं मे वै गजानन नमोऽस्तु ते ॥३५॥ एतस्मिन्नंतरे तत्र देवी कोपसमन्विता । गाणपत्या महाकाली निःसृता मूर्तिमध्यतः ॥३६॥ खड्गं चौराधिपस्याऽपि हस्ताज्जग्राह लीलया । तेन तस्य शिरश्छित्वा पपौ रुधिरमुत्तमम् ॥ ३७ ॥ अन्ये समागताश्चौरास्तेऽपि खड्गेन नाशिताः । चिक्रीड स्वगणैर्देवी गणेशस्तवतत्परा ॥ ३८ ॥ तां प्रणम्य ययौ दक्ष बभ्राम परितस्तु सः । स्वेच्छाचारी महायोगी भिक्षाशी गणपं स्मरन् ॥ ३९ ॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते चौरवधो नामैकोनविंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । सिंधुदेशाधिपो राजा रहूगण इति स्मृतः । पूर्वसंस्कारयोगेन ह्यंतर्निष्ठो बभूव ह ॥१॥ राजा शांत्यर्थमत्यंतं यत्नवान् प्राप्त तां न सः । ययौ गंगासमीपस्थं कपिलाश्रममादरात् ॥२॥ गौतम्या दक्षिणे कूले श्रुतवान् द्विजपुंगवात् । निर्जगाम पुराद्राजा शिबिकायां समास्थितः ॥३॥ गच्छन्मार्गे त्वरायुक्तः श्रांतवाहो महीपतिः । धृत्वा- ऽन्यान्योजयामासुर्वाहार्थं स्वजनास्तदा ॥४॥ तत्र दैवप्रसंगेन समालब्धं महामुनिम् । आंगिरसवरं तं ते चक्रुर्वाहकंमजंसा ॥५॥ ज्ञात्वा देहं महायोगी प्रारब्धाधीनमादरात् । वाहको नृपतेर्दक्ष बभूव विगतज्वरः ॥६॥ अहिंसापरमो योगी मार्गे जंतुमवेक्ष्य सः । स्वपादक्षेपणं तत्र चकार प्राणिवर्जिते ॥७॥ तेन सर्वे बभूवुश्च वाहका मंदगामिनः । दोलायिता च

खं. २ अ. २० पान ४४

शिबिका तया राजा सुदुःखितः ॥८॥ ततः क्रोधसमाविष्टो रहूगण उवाच तान् । सम्यक् च शिबिकां वाहा वहध्वं सुप्रयत्नतः ॥९॥ ततो भीताश्च ते सर्वे तमूचुरधुना नृप । आनीतः सुदुरात्मार्यं यथा चलति मद्यपः ॥१०॥ ततो राजा महात्मानमुवाच शठ किं त्वया । उन्मत्तवद्गतिर्दुष्टा क्रियते मम सन्निधौ ॥११॥ ततो भाविबलेनासावांगिरस उवाच ह । ज्ञात्वा तं योगमिच्छंतं पात्रभूतमनादरात् ॥१२॥ जडभरत उवाच । मायामयमिदं सर्वं भ्रांतिरूपमसत्यकम् । तत्र राजजनानां वै जनः कुत्र प्रदृश्यते ॥१३॥ वयं द्वंद्वं प्रेषयित्वा समभावेन संस्थिताः । शिक्षाकर्ता न भविताऽस्माकं राजा महाबलः ॥१४॥ तेन किं योगमार्गं वै त्यक्त्वा तिष्ठेम सांप्रतम् । तदधीना भवामः किमज्ञानेन वदत्ययम् ॥१५॥ इत्युक्त्वा मौनमास्थाय शिबिकां पूर्ववद्वहन् । आंगिरसो महायोगी चचाल गणपं भजन् ॥१६॥ राजा श्रुतं महावाक्यं योगग्रंथित- मुत्तमम् । भयभीतश्च तेनासावुपपात महीतले ॥१७॥ दृष्ट्वा तं मलिनं विप्रं यज्ञोपवीतसंयुक्तम् । बिभ्राणं चीरवसनं ब्रह्मतेजः सनातनम् ॥१८॥ प्रणाम स साष्टांगं कृतांजलिपुटः स्थितः । जगाद भयभीतो वै रहूगणः स धर्मवित् ॥१९॥ रहूगण उवाच । क्षमापराधमतुलं मम ब्रह्मन् दयानिधे । अज्ञानेन कृतं कर्म किं विप्रोऽसि वदस्व माम् ॥२०॥ अवधूता महात्मानश्चरंति यत्र कुत्र वै । तथा त्वमपि मे भासि यज्ञोपवीतधारक ॥२१॥ कपिलः किं नारदश्चांगिरा पुलहकः क्रतुः । दत्तो वा याज्ञवल्क्यश्च वद मां करुणानिधे ॥२२॥ अहं बिभेमि विप्रेंद्र ब्राह्मणानामधर्षणात् । न ब्राह्मणसमं किंचिद्दैवतं सचराचरे ॥२३॥ साक्षात् परमेश्वरस्याऽपि तनवो ब्राह्मणा मताः । कर्माधाराश्च ज्ञानानामाधारा ब्रह्मधारकाः ॥२४॥ ब्राह्मणस्य मुखेनैव यच्छ्रुतं तत्समागतम् । देवस्थानेषु देवानामुदरे नात्र संशयः ॥२५॥ ब्राह्मणेभ्यश्च यद्दत्तं तदक्षयपद- प्रदम् । उद्धाराय जनानां वै ब्राह्मणाः संमताः किल ॥२६॥ मंत्राधीना देवगणा मंत्रा विप्राधीना मताः । देवानां जीवनं सर्वं द्विजाधीनं च तेन वै ॥२७॥ मंत्रहीनं च यत्कर्म निष्फलं जायते किल । कर्माधीनं जगत् सर्वमतो ब्राह्मणमूलकम् ॥२८॥ कर्मनिष्ठास्तपोनिष्ठा ज्ञाननिष्ठा द्विजोत्तमाः । योगिनश्च भवतीह तारका जगति स्थिताः ॥२९॥ सर्वेषां गुरवो विप्रा ज्ञानदास्तेन संमताः । साक्षाद् ब्रह्मस्वरूपा वै ब्राह्मणा नात्र संशयः ॥३०॥ तेषां हेलनमात्रेण पतंति शिवमुख्याः । सेवनेन च तेषां वै सर्वं स लभते जनः ॥३१॥ ब्राह्मणानां च शापेन विष्णुमुख्या सुरेश्वराः । पतिता ह्यवतारेषु पुनः संस्थापिता द्विजैः ॥३२॥ अतो बिभेमि विप्रेश वद कस्त्वं महामते । विष्णुशिवादिदेवेभ्यस्तथाऽहं न बिभेमि वै ॥३३॥ एवमुक्त्वा पुनः पादौ गृह्य तं

खं. २ अ. २१ पान ४५ प्रणाम सः। पादपद्मे शिरः स्थाप्य रुरोद भयविह्वलः ॥३४॥ ततोऽसौ करुणाविष्टो जडभरतस्तमब्रवीत् । उत्थाप्य नृपशार्दूलं प्रश्रयाऽवनतं वचः ॥३५॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते जडभरतरहूगणमिलनो नाम विंशतितमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ जडभरत उवाच । आह मांगिरसो नाम जडभरतः प्रकथ्यते । स्वायंभुवश्च भरतोऽधुना जडश्च तेन वै ॥१॥ मा चिंतां कुरु राजर्षे ह्यज्ञानेन त्वया कृतम् । हेलनं मम देहस्य पापदं न भविष्यति ॥२॥ गच्छ राजन्यथेच्छं त्वं मत्तो वै न भयं तव । गमिष्यामि स्वतंत्रोऽहं प्रारब्धेन नियंत्रितः ॥३॥ मुद्गल उवाच । तस्य योगींद्रमुख्यस्य श्रुत्वा वचनमुत्तमम् । रहूगण उवाचाथ तं प्रणम्य महायशाः ॥४॥ रहूगण उवाच । धन्यं कुलं मदीयं वै पितरौ ज्ञानमाश्रमः । तपो विद्या यशो दानं तवांध्रियुगदर्शनात् ॥५॥ अहं सिंधुमहीपालो रहूगण इति स्मृतः । राज्यादिविषयं त्यक्त्वा निःसृतो मुनिसत्तम ॥६॥ शांत्यर्थं कपिलं यामि गौतमीतीरवासिनम् । त्वं साक्षाद् ब्रह्मरूपश्च दैवेन दर्शनं गतः ॥७॥ मां शिष्यं तारय मुने योगबोधेन सत्तम । साक्षात् शांतिं वद विभो यया शांतो भवाम्यहम् ॥८॥ तस्य तद्वचनं श्रुत्वा कृपया परया युतः । जगाद तं नृपेंद्रं स आंगिरसो महाद्युतिः ॥९॥ शृणु राजन् त्वया पृष्टं वेदगुह्यं च दुर्गमम् । कथयामि तथापि त्वां योगशांतिकरं परम् ॥१०॥ देहश्चतुर्विधः प्रोक्तस्तत्र देही चतुर्विधः। भ्रांत्या भिन्नत्वमाश्रित्यैकोऽपि भाति तदात्मकः ॥११॥ देहानां ब्रह्म यत्प्रोक्तं बिंदुमात्रं च दृश्यते। देहीनां ब्रह्मरूपं वै सोऽहं मात्रात्मकं किल ॥१२॥ तयोः संयोग एवाऽसौ बोधात्मक उदाहृतः । स्वतोत्थानमिदं ब्रह्म विकल्पाद्द्विविधं मतम् ॥१३॥ बोधनाशे महीपाल उत्थानं जायते न च । सांख्यरूपं हि तद्ब्रह्म केवलं स्वसुखे रतम् ॥१४॥ यत्र परसुखं नास्ति तत्र वै स्वसुखं कथम् । ततः परत उत्थानयुक्तं ब्रह्म प्रकीर्तितम् ॥१५॥ तत्रोत्थानस्य बीजं यत्स्थितं भिन्नात्मकं परम् । स्वसौख्यनिष्ठरूपं हि बोधहीनप्रभावतः ॥ १६ ॥ स्वतः परत उत्थानहीनं स्वानंदवाचकम् । संयोगाभेदरूपं वै जानीहि नृपसत्तम ॥१७॥ स्वानंदं पंचभेदं च स्वयं सर्वत्र संस्थितम् । सत्यासत्यसमं चेति नेतिरूपं चतुर्थकम् ॥१८॥ स्वतः परत उत्थानमेतन्नाम प्रकीर्तितम् । तयोरनुभवो यः स्यात्तस्य रूपं

खं. २ अ. २२ पान ४६ तदेव च ॥१९॥ ताभ्यां नानाविधं ब्रह्मान्नादि वेदे प्रकीर्तितम् । जगन्नानाविधं तद्वज्जानीहि नृपसत्तम ॥२०॥ नामरूपमयं सर्वमसत्यं परिकीर्तितम् । शाक्तं ब्रह्म समाख्यातं वेदे वै वेदवादिभिः ॥२१॥ नामरूपात्मकं यत्तत्सदा खंडमयं स्मृतम् । अमृतं सौरमात्मा तद्ब्रह्म सर्वप्रकाशकम् ॥ २२ ॥ तयोर्भेदकर्ताऽसौ विष्णुरानंदसंज्ञितः । द्वयोः समं च तद्ब्रह्म भावाभावमयं परम् ॥ २३ ॥ त्रिभिर्हीनं तुरीयं यन्नेति कर्ता शिवः स्मृतः । अव्यक्तं मोहहीनं यत् स्वाधीनं ब्रह्म तन्मतम् ॥२४॥ चतुर्णां चैव संयोगो यत्राभेदमयः स्मृतः । स एव स्वस्वरूपाख्यो मायायुक्तो विनायकः ॥ २५ ॥ संयोगनाशकारी चायोगः सर्वत्र समंतः । निर्मायिको गणेशः स कथितो योगिभिर्नृप ॥२६॥ अयोगे योगिनां राजन्निवृत्तिरुपजायते । स्वकीयभेदहीनत्वात्तद्ब्रह्मायोगसंज्ञकम् ॥२७॥ अत एव स्वनाशाख्यनिवृत्या तच्च लभ्यते । मायया सर्वसंयोगे तद्धीनं ब्रह्म तत् स्मृतम् ॥२८॥ अयोगश्चैव संयोगो योगे तौ न प्रपश्यति । तदेव गणनाथो हि योगशांतिमयः स्मृतः ॥२९॥ मायायुक्तश्च मायावी मायाहीनश्च केवलः । तदेव भ्रांतिमात्रं यत्त्यक्तव्यं योगिभिः सदा ॥३०॥ चित्तं पंचविधं प्रोक्तं तदैश्वर्यं महामते । मोहदं द्विविधं त्यक्त्वा शांतिरूपो भविष्यसि ॥३१॥ एवमुक्त्वा महायोगी विरराम प्रजापते । सोऽपि तं प्रणनामाथ राज्यं त्यक्त्वा वनं ययौ ॥३२॥ एवं रहूगणो राजा साधयित्वा विधानतः । शांतिं प्राप्तो महातेजा गाणपतयो बभूव ह ॥३३॥ ॥ ओमिति श्रीमदन्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते रहूगणसिद्धिप्राप्तिवर्णनं नामैकविंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । तत आंगिरसो योगी विचचार महीतले । मयूरेशस्य स क्षेत्रं आययौ दैवयोगतः ॥१॥ तत्र पूर्वावतारं च गणेशस्य महात्मनः । दृष्ट्वा ज्ञात्वा स्थितस्तं स ध्यायन्नेकत्र मूढवत् ॥२॥ वर्षमात्रे गते तस्य दर्शनार्थं ययौ स्वयम् । गणेशो मूषकारूढः सिद्धिबुद्धिसमन्वितः ॥३॥ तं दृष्ट्वा प्रणनामादौ तुष्टाव प्रांजलिः प्रभुम् । रोमांची साश्रुनेत्रः स भक्तिभावनि मज्जितः ॥४॥ जडभरत उवाच । नमः शांतिस्वरूपाय शांतिदाय कृपालवे । विघ्नेशाय नमस्तुभ्यं हेरंबाय नमो नमः ॥५॥ सिद्धेः पते च तद्दात्रे भक्तानां भयभंजन । भक्तिप्रियाय वै तुभ्यं भक्तभक्ताय ते नमः ॥६॥

खं. २ अ. २२ पान ४७ बुद्धेः पते धियो दात्रे सर्वविद्याकलात्मने । ज्ञानरूपप्रकाशाय गणेशाय नमो नमः ॥७॥ मूषकारूढ वै तुभ्यं चतुर्बाहुधराय च। स्वानंदवासिने देव वक्रतुंडाय ते नमः ॥८॥ नानाविहारयुक्तायानंतरूपाय ते नमः । अमेयाय सदायोगशांतिस्थाय नमो नमः ॥९॥ धन्योऽहं कृतकृत्योऽहं येन दृष्टो गजाननः । वेदादौ गोचरोऽयं न कृपया सहसाऽऽगतः ॥१०॥ मया किं ते कृतं देव दर्शनार्थ किमागतः । भक्त्या समं न किंचित्ते प्रियं ज्ञातं मयाधुना ॥११॥ भक्त्या त्वां हृदि संध्यायन् संस्थितो जडवत्प्रभो । त्वमेव मोहितो भक्त्या मम संन्निधिगः कृतः ॥१२॥ अहो भक्तिसमं किंचिन्नैव दृष्टं न च श्रुतम् । यया त्वं शांतियोगस्थो मोहितः सहसाऽऽगतः ॥१३॥ त्वदीयांशसमुत्पन्नं सकलं ब्रह्मनायक । किं ददामि गणेशान येन तुष्टो भविष्यसि ॥१४॥ अतस्त्वां नमनं कुर्वे देहोऽयं ते निवेदितः । वरं देहि महाबाहो येन तृप्तो भवाम्यहम् ॥१५॥ भक्तिं दृढां त्वच्चरणे व्यभिचारविवर्जिताम् । देहि नाथ दयासिंधो नान्यद् याचे कदाचन ॥१६॥ एवमुक्त्वा गणाध्यक्षं ननाम स पुनः पुनः । प्रेम्णा ननर्त योगींद्रस्तमुवाच गणाधिपः ॥१७॥ गणेश उवाच । भविता सुदृढा भक्तिर्मम ते मुनिसत्तम । व्यभिचारविहीना ते न चांगिरस संशयः ॥१८॥ त्वया कृतमिदं स्तोत्रं मदीयं योगशांतिदम् । भविष्यति महाभाग मम प्रीतिकरं परम् ॥१९॥ यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठकः । शृणुयात्तस्य तद्वच्च भविष्यति न संशयः ॥२०॥ एवमुक्त्वां- तर्दधेऽसौ गणनाथः प्रजापते । स मुनिर्भक्तिसंयुक्तोऽभवत्तत्रैव संस्थितः ॥२१॥ अंते गणेशरूपोऽसौ जातो योगींद्रसत्तमः । गुहा तत्र प्रसिद्धा वै वर्ततेऽद्य महामुनेः ॥२२॥ गणेशोत्तरभागे च संमुखे क्रोशदूरकम् । स्थानमांगिरसस्याऽपि भरतस्य जडात्मनः ॥२३॥ कुर्वंति दर्शनं तस्य तत्र ये मानवादयः । तेषां मुक्तिर्भवेद्दक्ष शाश्वती नात्र संशयः ॥२४॥ चरितं भरतस्येदं कथितं परमाद्भुतम् । शृणुयाद्यो नरो भक्त्या पठेद्वा भुक्तिमुक्तिदम् ॥२५॥ एवमाद्याश्च राजानः प्रियव्रतकुलेऽभवन् । उत्पन्नाः सर्वधर्मज्ञा नानादेवपरायणाः ॥२६॥ ॥ ओमिति श्रीमद्दांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते जडभरतचरितं नाम द्वाविंशोऽध्यायः ॥

पान ४८

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । स्वायंभुवमनोः पुत्र उत्तानपादसंज्ञितः । स राज्यं मध्यदेशस्य चक्रे वै धर्मसंयुतः ॥१॥ तस्य भार्ये प्रविख्याते सुनीतिः सुरुचिस्तथा । सुनीत्यां च ध्रुवो जज्ञे सुरुच्यामुत्तमस्ततः । ॥२॥ सुरुच्या स्ववशं नीतो तया राजा विमोहितः । सुनीतिं मन्यते न स्म मनसाऽपि प्रजापते ॥३॥ एकदा ध्रुवपुत्रश्चाययौ राज्ञः समीपकम् । आरोढुमिच्छन्नुत्संगे संस्थितस्तस्य सन्निधौ ॥४॥ तत्रावमानितस्तेन सुरुच्या दुष्टभावतः । ततो ध्रुवो वनं दक्ष जगाम क्रोधसंयुतः ॥५॥ मार्गे वै गच्छतस्तस्य नारदो दृष्टिमागतः । तं ननाम महाबुद्धिर्बालोऽयं धर्मधारकः ॥६॥ वृत्तांतमखिलं ज्ञात्वा नारदेन महात्मना । उपदिष्टो महामंत्रो विष्णोश्च द्वादशाक्षरः ॥७॥ नारदं स प्रणम्याऽऽदौ मथुरायां ययौ ततः । तपश्चकार तत्राऽसौ ध्यायन्विष्णुं सनातनम् ॥ ८ ॥ सहस्रवर्षमत्यंतं तताप परमं तपः । प्रसन्नो भगवांस्तत्र तं ययौ भक्तिभावतः ॥९॥ ददौ राज्यमखंडं वै पृथिव्याः परमाद्भुतम् । अंते स्वर्गस्य राज्यं च पदं विष्णोर्ध्रुवात्मकम् ॥१०॥ ततः स्वगृहमागत्य ननाम पितरौ ध्रुवः । तं राजा मानयामास बहुलं तेजसा युतम् ॥११॥ कालेन तं ध्रुवं राजा चकार स नराधिपः । वनं ययौ महातेजास्तताप परमं तपः ॥१२॥ तत्रागत्य च गाणेशो नारदस्तमुवाच सः । भेदाभेदादिहीनं त्वं गणेशं भज पार्थिव ॥१३॥ शिवविष्णुवादयो देवा योगिनः सनकादयः । वसिष्ठाद्या ऋषिगणा भजंते तं न संशयः ॥१४॥ न गणेशं विना शांतिर्लभ्यते नात्र संशयः । स्वायंभुवादिभूपालैः सेवितो गणनायकः ॥ १५ ॥ एवमुक्त्वा गणेशस्य ददौ मंत्रं षडक्षरम् । राजा मंत्रप्रभावेण गाणपत्यो बभूव ह ॥१६॥ मरणे गणनांथं वै सस्मार स नृपोत्तमः । सायुज्यं गणनांथस्य प्राप्तं तस्य महात्मनः ॥१७॥ ध्रुवो राज्यं चकाराथ धर्मयुक्तो महीपतिः । जगाम सहसा तत्र नारदः करुणानिधिः ॥१८॥ तं दृष्ट्वा प्रणनामाऽसौ पूजयामास भक्तितः । स्वगुरुं पूर्णभावेन कृतांजलिपुटः स्थितः ॥१९॥ तमुवाच महायोगी नारदो दिव्यदर्शनः । स्वशिष्यं भक्तिसंयुक्तं दयया च दयानिधिः ॥२०॥ नारद उवाच । शृणु ध्रुव वचो रम्यं वैकुंठा- दागतोऽधुना । विष्णुना प्रेषितोऽहं वै तव हेतोर्महामते ॥२१॥ मयूरेशस्य यत्क्षेत्रं भुवि ब्रह्ममयं परम् । तत्र गत्वा महायात्रां कुरु त्वं विधिवत्सुत ॥२२॥ तेनाक्षयपदं ते वै भविष्यति मदीयकम् । अन्यथा विघ्नसंयुक्तः पतिष्यसि न संशयः ॥२३॥ अन्यच्च कथितं तेन विष्णुना करुणावता । एकाक्षरं गणेशस्य महामंत्रं जपेति वै ॥२४॥ तेन मंत्रप्रभावेण लये ब्रह्मदिनात्यये । लयं ध्रुवपदं गच्छेत्तदा त्वं शांतिमेष्यसि ॥२५॥ ब्रह्मणि ब्रह्मभूतश्च भविष्यसि न संशयः । अन्यथा

खं. २ अ. २४ | पान ४९


योगशांतिं त्वं न प्राप्स्यसि कदाचन ॥२६॥ ततस्तं नारदो योगी ददौ मंत्रं विधानतः । एकाक्षरं गणेशस्य राजा सिद्धो बभूव सः ॥२७॥ मयूरेशस्य वै क्षेत्रे ध्रुवः सद्यः समागतः । चकार विधिवद्यात्रां द्वाराणां चिह्नसंयुताम् ॥२८॥ गणेशं स्थापयामास ब्राह्मणैर्मंत्रकोविदैः । अर्धक्रोशे गणेशात् नापूर्वद्वारसमीपगम् ॥ २९ ॥ देवालयं चकाराऽसौ महामौल्यं सुविस्तृतम् । सुवर्णशिखरं रम्यं पूजितं वै सुभक्तितः ॥ ३०॥ नाम तस्याऽकरोद्राजा तदा ध्रुवविनायकः । वर्षमासं निवासं च ध्रुवस्तत्र चकार ह ॥३१॥ पश्चात् स्वनगरे गत्वा राज्यं चक्रे महाबलः । जगाम स्वर्गमंते स ध्रुवाख्यं ज्योतिषां धरम् ॥३२॥ तस्मिन् गणपतिं ध्यायन् संस्थितोऽसौ महायशाः । ध्रुवस्थानस्य नाशेऽंते गतः स्वानंदमंजसा ॥३३॥ ध्रुवं विनायकं दृष्ट्वा भुक्तिं मुक्तिं सुनिश्चलाम् । लभते मानवस्तत्र श्रुत्वा ध्रौव्यमिदं तथा ॥३४॥

॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते ध्रुवचरित्रं नाम त्रयोविंशोऽध्यायः ॥


॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ध्रुवस्यान्वयसंभूतोऽङ्गस्तेजस्वी महीपतिः । धर्मात्मा सर्वमान्यश्च पितृवत् पालको- ऽभवत् ॥१॥ मृत्युकन्याऽभवद्भार्या राज्ञस्तस्य महात्मनः । तस्यां तस्मात् समुत्पन्नः पुत्रो वेनः सुदारुणः ॥२॥ तं पिता शिक्षयन् श्रांतो न साधुरभवत् सुतः । राज्यं त्यक्त्वा वनं राजा दुःखयुक्तो जगाम ह ॥३॥ ततो राजविहीने च देशे चोराः प्रबभ्रमुः । तैर्लुंठितं जनानां स्म सर्वस्वं यत्र तत्र हि ॥ ४ ॥ प्रजाः सर्वा भयोद्विग्ना ब्राह्मणान् शरणं ययुः । ब्राह्मणै राज्य आसिक्तः स वेनः पैतृके ततः ॥५॥ स राज्यं प्राप्य दुर्धर्षश्चोरान् हत्वा समंततः । राज्यं चकार देशेषु कंपयन् वसुधात लम् ॥६॥ नयमार्गं परित्यज्य यथेच्छाचारकोऽभवत् । तेन वर्णाश्रमाचारसंयुता दुःखिताः कृताः ॥ ७ ॥ पुनस्ते तापसांस्तान्वै शरणं जग्मु- रादरात् । तापसैर्वारितो वेनस्तानुवाच द्विजोत्तमान् ॥ ८ ॥ वेन उवाच । अहं पूज्यश्च सर्वेषां पालको नात्र संशयः । मां भजध्वं मुनींद्रा वै योगक्षेमकरं सदा ॥ ९ ॥ तस्य तद्वचनं श्रुत्वा कुपिता ब्राह्मणास्ततः । शापेन मारयामासुस्तं नृपं नयवर्जितम् ॥ १० ॥ तस्यांगं वाममेवादौ ममंथुर्नृपहेतवे । तस्मात् क्रूरः समुत्पन्नस्तस्य पापमयो नरः ॥ ११ ॥ ह्रस्वकायः श्यामवर्णः श्मश्रुलः पिंगलोचनः । तं दृष्ट्वा ब्राह्मणाः प्रोचुर्निषीदेति प्रजापते ॥ १२॥ ततो निषादनामाऽसौ जातस्तस्मै

वनांतरे । स्थानं ददुर्द्विजश्रेष्ठा निषादास्तत् समुद्भवाः ॥१३॥ पुनश्च दक्षिणांगं ते ममंथुर्द्विजसत्तमाः । वेनस्य दंपती तस्मात् समुद्भूतौ महौजसौ ॥१४॥ विष्णोः कलायुतौ साक्षाद्ब्राह्मणान्नेमतुः पुरा । ब्राह्मणैर्नृपवर्यः स संसिक्तो राज्यकर्मणि ॥१५॥ पृथुनामा महीपालो विख्यातोऽभूच्च मंडले । स्वधर्मनिरतः साक्षात् क्षात्रधर्मप्रवर्तकः ॥ १६॥ तेन संवर्धिता लोका वर्णा- श्रमयुता विधे । पुरे मुमुदिरे देशे यत्र तत्र सुसत्कृताः ॥१७॥ गते कियति काले वै लोका अन्नविवर्जिताः । क्षुधया पीडिताः सर्वे तं नृपं शरणं ययुः ॥१८॥ वेनस्याधर्मभावेन भूम्या सर्वं समाहृतम् । पुनर्दातुमशक्ता वै धर्मरूपे नराधिपे ॥ १९॥ लोकानां दुःखमाकर्ण्य कुपितोऽसौ नराधिपः । विचार्य धनुरादाय शरं श्रेष्ठं युयोज च ॥ २०॥ भूमिं हंतुं मनश्चक्रे व्याकर्णाकर्षितं धनुः । यावद्बाणं स चिक्षेप तावद्भीता वसुंधरा ॥ २१॥ गोरूपेण भयोद्विग्ना यत्र तत्र पलायत । आत्तबाणो नृपः पश्चाद्ययौ यम इवापरः ॥ २२॥ शरणं नाऽपतद्भूमिस्तमेव शरणं ययौ । उवाच प्रांजलिर्भूत्वा नृपं कंपसमन्विता ॥ २३ ॥ स्त्रियं मां गां कथं हंसि भूमिपाल वसुंधराम् । शरणागतरूपां ते रक्ष क्षत्रकुलोद्भव ॥ २४ ॥ भूमेर्वचनमाकर्ण्य तां जगाद नृपोत्तमः । शृणु त्वां मारयिष्यामि मच्छातनपराङ्मुखीम् ॥ २५॥ जीवितुं चेच्छसि प्राज्ञे तदान्नं विविधं धरे । कुरु प्रकटरूपं त्वं सर्वकालं न संशयः ॥ २६ ॥ ततस्तं विनयं कृत्वा सा जगाद वसुंधरा । मया ग्रस्ता समग्रा या ओषध्यश्च नृपात्मज ॥ २७॥ भक्षितास्ताः पुनर्दातुं कथं शक्ता भवामि भोः । अतस्त्वं मां समामादौ कुरु पार्थिवसत्तम ॥ २८॥ गोरूपाहं स्थिता भूप वत्सं कृत्वा स्वभावजम् । सकला दुग्धरूपेणौषधीस्ते प्रददाम्यहम् ॥ २९॥ दोहकः कल्प्यतां शीघ्रं तदा सर्वं शुभं भवेत् । अन्यथा मां महीपाल हनिष्यसि वृथा कथम् ॥ ३०॥ तस्या वचनमाकर्ण्य धनुष्कोट्या नृपोत्तमः । पर्वतांश्चूर्णयामास समां भूमिं चकार ह ॥ ३१ ॥ पुरग्रामादिकानां तु रचना रचिता ततः । तेनैव पृथुना दक्ष यथायोग्यं धरातले ॥ ३२॥ तदादिर्नगराद्यानां रचना संप्रवर्तिता । पुत्रीत्वे स धरां चक्रे पृथ्वी नाम्नी ततोऽभवत् ॥ ३३॥ मनुं वत्सं ततः कृत्वा दोहकश्चाऽभवत्स्वयम् । षड्रसान्नमयं दुग्धं दुदोह नृपसत्तमः ॥ ३४॥ ततः सर्वे त्रिलोकस्था दुदुहुस्तां वसुंधराम् । स्वस्वान्नमयदुग्धं ते जगृहुः परमाइताः ॥३५॥ ब्रह्माणं वेदरूपं सुवत्सं कृत्वा बृहस्पतिः । दोहको दुग्धमादाय संस्थितो विगतज्वरः ॥ ३६ ॥ रुद्रं वत्सं ततः कृत्वा दोहकः पिशितात्मकम् । कालाग्निरुद्रसंज्ञश्च दुदोह हरजीवनम् ॥ ३७॥ विष्णुं वत्सं समादाय यजमानश्च दोहकः । यज्ञाधारमयं दुग्धं दुदोह खलु कर्मजम् ॥ ३८॥

खं. २ अ. २५ पान ५१ सूर्यं वत्सं चकारापि दोहको ध्रुव आदरात् । ज्योतिषां जीवनं दुग्धं दुदोह सकलं ततः ॥ ३९ ॥ शेषं वत्सं च संगृह्य दुदोहाऽपि च वासुकिः । सर्पाणामन्नरूपं वै दुग्धं दुग्धप्रियस्ततः ॥ ४० ॥ शिवं वत्सं प्रकल्प्यैव दोहको नंदिकेश्वरः । विद्यात्मकं महद् दुग्धं दुदोह गतमत्सरः ॥ ४१ ॥ एवं सर्वे च दुदुहुर्भूमिं गां पृथुभाविताम् । चराचरमया जीवा ईश्वराश्च प्रजापते ॥ ४२ ॥ पृथुस्तां पूजयामास धरणीं धरणीप्रियः । पुत्रीत्वे पालिता हर्षात्सा स्थिता मुदिता तथा ॥ ४३ ॥ एवं दुग्ध्वा धरित्रीं स पृथुः पृथुपराक्रमः । राज्यं चकार नीतिज्ञः पृथिव्यामेकराट् स्वयम् ॥४४॥ ततो यज्ञांश्चकाराऽसौ शतसंख्यान् महाबलः । अश्वमेधाभिधान् राजा भूरिदक्षिणसंयुतान् ॥ ४५ ॥ तस्य यज्ञे स्वयं ब्रह्मा विष्णुः शंकर एव च । इंद्राद्या आययुः सर्वे गंधर्वाद्या महामते ॥ ४६ ॥ ऋषयः कश्यपाद्याश्च शेषाद्या नागमुख्यकाः । जना नानाविधा जग्मुः सस्त्रीकाश्च विशेषतः ॥४७॥ अंत्ये यज्ञे समारब्धे शक्रश्चिंतातुरो भृशम् । जटाचीरधरो भूत्वा तस्याश्वं सहसाऽऽहरत् ॥४८॥ तस्य पुत्रेण संदृष्टस्तपस्वीति च मोचितः । हयं त्यक्त्वा भयोद्विग्नोंतर्धानं तु चकार सः ॥ ४९ ॥ पुनरस्थिधरो भूत्वा भस्मना लेपकारकः । जहाराश्वं तथा राजपुत्रेण न स ताडितः ॥ ५० ॥ एवं षड्वारमश्वं स संजहार पुरंदरः । ततस्तं हंतुमुद्युक्तः पृथुः पृथुपराक्रमः ॥ ५१ ॥ तं ब्रह्मा सांत्वयामास महेंद्रं न जघान ह । एकोनशतयज्ञान् स चक्रे वै तेजसा युतः ॥ ५२ ॥ ब्रह्मणा नोदितः साक्षादिंद्रस्तं प्रणनाम ह । पृथुर्वैरं समुत्सृज्य देवेंद्रं तं प्रसस्वजे ॥ ५३ ॥ सकलाः पूजितास्तेन देवाद्याः स्वस्थलं ययुः । सोऽपि राज्यं स्वधर्मस्थश्चक्रे वै पालयन् प्रजाः ॥ ५४ ॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मद्गले महापुराणे द्वितीये खंडे एकदंतचरिते पृथुयशोवर्णनं नाम चतुर्विंशोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । जनानां धर्ममार्गं सो शिक्षयन्नृपसत्तमः । विष्णुरूपः स्वयं साक्षाद्विष्णुंतुल्यपराक्रमः ॥ १ ॥ संस्थितः स्वपुरे राजा लोकान् संरंजयन् प्रभो । तत्राऽऽजग्मुश्च योगींद्राः सनकाद्या विधेः सुताः ॥२॥ चत्वारः सूर्यसंकाशाः सदा बालवयोन्विताः । पूर्वैषां पूर्वजा मान्या गतभ्रांतय एव ते ॥ ३ ॥ तान् दृष्ट्वा सहसोत्थाय संभ्रमेण नरोत्तमः । ननाम दंडवद्भूभौ शिरः संस्थाप्य पादयोः ॥४॥ उत्थाय तान् महाभक्त्या पाद्यार्घ्यैर्विष्टरादिभिः । अपूजयत्स विधिवत् हर्षितोऽत्यंत-

पान ५२

भावतः ॥५॥ पादसंवाहनं तेषां चकार स्वयमादरात् । उवाच मधुरं वाक्यं पृथुर्वाक्यविशारदः ॥ ६ ॥ पृथुरुवाच । धन्येयं धरणी त्वद्य धन्यं नगरमुत्तमम् । मंदिरं सत्कृतं सर्वं भवतामागमेन मे ॥७॥ धन्यो वंशो कुलं धन्यं पितरौ ज्ञानमाश्रमः । तपो विद्यादिकं मे च भवतां पाददर्शनात् ॥८॥ सनाथोऽहं कृतोऽनाथो भवद्भिर्नात्र संशयः । अनुग्रहः कृतोऽत्यंतं विशेषेण दयालुभिः ॥९॥ पूर्वजन्मार्जितं मे किं फलितं पुण्यमुत्तमम् । अन्यथा दर्शनं न स्याद्भवतां ब्रह्मरूपिणाम् ॥ १० ॥ निःस्पृहा योगनिष्ठा ये सर्वज्ञाः स्वपरायणम् । दृष्ट्वा कुर्वंति कार्यार्थमाज्ञां तस्य हिताय च ॥ ११ ॥ अत आज्ञां महाभागा मम कुर्वंतु सांप्रतम् । तयाऽहं कृतकृत्यश्च भवामि न च संशयः ॥१२॥ मुद्गल उवाच । पृथोर्वचनमाकर्ण्य सनकाद्यास्तमब्रुवन् । तृप्ता भावेन तस्याथ योगींद्रा योगभाविताः ॥१३॥ सनकाद्या ऊचुः । धन्योऽसि नृपवर्य त्वं पृथो पृथुपराक्रम । विनयं तेऽद्य दृष्ट्वा वै संतुष्टा वयमादरात् ॥१४॥ न कार्यलिप्सया युक्ता वयं नम्रा महामते । दर्शनार्थं च ते याताः साधो स्वर्गे श्रुतं यशः॥ १५ ॥ आज्ञां देहि गमिष्यामि ब्रह्मलोकं सनातनम् । कीर्तिः श्रुता तथा दृष्ट्वा तृप्ता हर्षसमन्विताः ॥१६॥ तेषां तद्वचनं श्रुत्वा पृथुस्तान् विनयान्वितः । जगाद भक्तिसंयुक्तो योगींद्रान्नृपसत्तमः ॥ १७ ॥ पृथुरुवाच । भुक्तं राज्यं महाभागा नानाभोगसमन्वितम् । अधुना शांतिसिद्ध्यर्थं योगं ब्रूत तपोधनाः ॥१८॥ पृथोर्वचनमत्यंतं श्रुतं योगिभिरादरात् । पात्रं दृष्ट्वा महाभागा ऊचुस्तं ब्रह्म शाश्वतम् ॥१९॥ सनकाद्या ऊचुः । धन्योऽसि नृपशार्दूल बुद्धिस्ते परमाद्भुता । निर्वेदं राज्यभोगेभ्यः संप्राप्ता पृथुलश्रवः ॥ २० ॥ योगशांतिमयं पूर्णं गाणेशं विद्धि भूमिप । तं भजस्व महाभक्त्या तया शांतिं गमिष्यसि ॥२१॥ एकदा स्म वयं सर्वे संगताः शंकरालयम् । वटमूले समासीनमद्राक्ष्म ध्यानसंस्थितम् ॥२२॥ तं प्रणम्य स्थिताः सर्वे वयं विनयसंयुताः । स्तोत्रैस्तं बोधयंतश्च ततः शर्वो बुबोध वै ॥ २३ ॥ त्यक्त्वा ध्यानं गणेशाय नम इत्यवदत्ततः । श्रुत्वा भ्रांता वयं तं स्म पृच्छामः संशयान्विताः ॥२४॥ कोऽसौ गणाधिपः स्वामिन् कथं नमसि तं प्रभो । शिवः सहजरूपस्त्वं स्वाधीनः सततं मतः ॥ २५ ॥ अस्माकं वचनं श्रुत्वा शिवो हर्षसमन्वितः । जगाद ज्ञानमाद्यं यद्गाणपत्यं सुशांतिदम् ॥ २६ ॥ शिव उवाच । ब्रह्म यत्कथ्यते वेदैः कथं तत्र प्रवर्तते । स्वाधीनं सहजं विप्राः पराधीनं त्रिधा भवेत् ॥ २७ ॥ कर्मयोगादिभेदेन वेदे वै वेदवादिभिः । नानाविधं वर्णितं यद्ब्रह्म तन्मायान्वितम् ॥ २८ ॥ कर्मणां सकलानां संयोगो ब्रह्मणि जायते । तेन कर्मात्मकं ब्रह्म तद्वद् ज्ञानात्मकं मतम् ॥ २९ ॥ समूहवाची शब्दश्च गण इत्यभिधीयते । बाह्यांतरादिभेदानां

खं. २ अ. २५ पान ५३


संयोगे तु समूहकः ॥३०॥ अन्नप्राणादिका शब्दा ब्रह्मणो वाचका मताः । ते सर्वे गणरूपाश्च तेषां स्वामी गणेश्वरः ॥ ३१ ॥ संयोगायोगकाया ये नाना योगा मता बुधैः । योगानां योगरूपोऽयं गणेशो नात्र संशयः ॥ ३२ ॥ गणो योगात्मकः प्रोक्तस्तस्मात्तस्य गणा वयम् । योगरूपा विशेषेण नमामो भक्तिसंयुताः ॥३३॥ माया विघ्नात्मिका प्रोक्ता भ्रांतिदा बिंबभावतः । तां जयंति जना ईशा विघ्नराजस्य सेवया ॥३४॥ ब्रह्मभूतास्ते भवंति योगींद्रा गाणपाः स्मृताः । अहं गणेशरूपो वै भिन्नं मायामयं मतम् ॥३५॥ चित्तं पंचविधं प्रोक्तं सा बुद्धिर्विविधात्मिका । तत्रैश्वर्यं च यत्प्रोक्तं सिद्धिः सा परमाद्भुता ॥३६॥ तत्र यद्विंबभावेन गणेशः प्रतितिष्ठति । मायाभ्यां मोहितोऽत्यंतं सर्वत्राऽसौ विराजते ॥३७॥ बिंबिभावं परित्यज्य गणेशस्यैव सेवया । पंचधा चित्तमुत्सृज्य स्वयं चिंतामणिर्भवेत् ॥३८॥ गणेशोऽहं यदा विप्रास्तदा कुत्र प्रवर्तते । संयोगश्च तथा योगः शांतियोगं लभे ततः ॥३९॥ न भिन्नोऽहं कदा तस्माद्गणेशान्नात्र संशयः । योगींद्रः शांतियोगेन ब्रह्मभूतो भविष्यति ॥४०॥ एतदेव मदीयं यत् गुह्यं ध्यानं प्रकीर्तितम् । अतो गणेशदासोऽहं तं नमामि सदा द्विजाः ॥४१॥ एवमुक्त्वा महायोगी विरराम स शंकरः । उच्छिन्नसंशया जाताः सनकाद्या वयं नृप ॥४२॥ विचरामो महीमेतां स्वर्गेषु विवरेषु च । योगमार्गेण योगीशा गाणपत्याः स्वभावतः ॥४३॥ गणेशदर्शने जातलालसा वयमादरात् । तस्मिन् काले गणाधीशः कश्यपस्यात्मजोऽभवत् ॥४४॥ काशीराजो महाभक्तो गाणपत्यपरायणः । तस्य गेहे गतो देवः स्वस्य वै कार्यसाधनात् ॥४५॥ दर्शनार्थं वयं तत्र गताः काश्यां महामते । प्रपश्यामो गणेशं स्म ब्रह्मचारिस्वरूपिणम् ॥४६॥ तं प्रणम्य वयं राजन् स्थिता भक्त्या समन्विताः । बालरूपधरं देवं स्म स्तुमो बालयूथगम् ॥४७॥ सनकादय ऊचुः । नमो विनायकायैव कश्यपप्रियसूनवे । अदितेर्जठरोत्पन्नब्रह्मचारिन्नमोऽस्तु ते ॥४८॥ गणेशाय सदा मायाधार चैतद्विवर्जित । भक्त्यधीनाय वै तुभ्यं हेरंबाय नमो नमः ॥४९॥ त्वं ब्रह्म शाश्वतं देव ब्रह्मणं पतिरोजसा । योगायोगादिभेदेन क्रीडसे नात्र संशयः ॥५०॥ आदिमध्यांतरूपस्त्वं प्रकृतिः पुरुषस्तथा । नादानादौ च सूक्ष्मस्त्वं स्थूलरूपो भवान् प्रभो ॥५१॥ सुरासुरमयः साक्षान्नरनागस्वरूपधृक् । जलस्थलादिभेदेन शोभसे त्वं गजानन ॥५२॥ सर्वेभ्यो वर्जितस्त्वं वै मायाहीन- स्वरूपधृक् । मायामायिकरूपं त्वां को जानाति गतिं पराम् ॥५३॥ कथं स्तुमो गणाधीशं योगाकारमयं सदा । वेदा न शंभुमुख्याश्च शक्ताः स्तोतुं कदाचन ॥५४॥ वयं धन्या वयं धन्या येन प्रत्यक्षतां गतः । अस्माकं योगिनां ढुंढे


यहाँ पृष्ठ की सम्पूर्ण सामग्री का पंक्ति-दर-पंक्ति लिप्यन्तरण (Transcription) प्रस्तुत है:

पान ५४


कुलदेवस्त्वमंजसा ॥५५॥ इत्युक्त्वा मौनमास्थाय नमामो दंडवत् स्म तम् । उवाच नो गणाधीशो भक्तिभावनियंत्रितः ॥५६॥ विनायक उवाच । भवद्भिर्यत्कृतं स्तोत्रं मदीयं योगशांतिदम् । भविष्यति महाभागाः पठते शृण्वते सदा ॥ ५७ ॥ यं यमिच्छति तं तं वै दास्यामि स्तोत्रभावितः । भवंतो गाणपत्याश्च भविष्यथ यथा शिवः ॥ ५८ ॥ एवमुक्त्वा स्वयं बालश्रिक्रीड प्राकृतो यथा । बालकैः सह योगात्मा काश्यपः पूर्ववन्नृप ॥ ५९ ॥ वयं काशीपते राजन् दर्शनार्थं गतास्ततः । तेनाऽपि मानिताः सम्यक् भुक्त्वा याताः पदे पुनः ॥६०॥ एतत्ते कथितं सर्वं योगशांतिमयं महत् । ज्ञानपूर्णं गणेशारव्यं तं भजस्व नराधिप ॥ ६१ ॥ मुद्गल उवाच । एवमुक्त्वा विधेर्लोके ययुस्ते सनकादयः । पृथुः पुत्रेषु राज्यं स्वं विभज्य च वनं ययौ ॥ ६२ ॥ तत्र योगक्रमेणैव गाणपत्यो बभूव ह । पत्न्या सह विनीतात्मा गणेशेंऽते लयं ययौ ॥ ६३ ॥ एतत् पृथुलकीर्तेश्च चरितं कथितं पृथोः । शृणुयाद्यः पठेद्वापि सर्वदं तस्य तद् भवेत् ॥६४॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते पृथुचरित्रं नाम पंचविंशतितमोऽध्यायः ॥


॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । तदन्वये च संभूतो बर्हिषो नाम पार्थिवः । धर्मात्मा शस्त्रधारी स प्रजानां पालने रतः ॥१॥ स यज्ञान्विविधान् चक्रे कर्ममार्गपरायणः । प्राचीनाग्रकुशैः सर्वान् छादयामास मेदिनीम् ॥२॥ मृगयार्थं वनं यातः समुद्रतनयां तदा । उपयेमे स भूपालस्तस्यां पुत्रा दशाऽभवन् ॥३॥ सर्वे समानवर्णास्ते समाचाराः प्रजापते । समानमानसास्तेन नाम्नाऽऽख्याताः प्रचेतसः ॥४॥ प्रजार्थं ते समुद्रस्य समीपे तपसि स्थिताः । सरो नारायणारव्यं च तत्र विष्णुमपूजयन् ॥५॥ प्राचीनबर्हिराजर्षि स्वगृहे कर्मकारकम् । स्थितं ज्ञात्वा समायातो नारदः करुणानिधिः ॥ ६ ॥ तं राजाऽपूजयत् भक्त्या कृतांजलिपुटः स्थितः । तमुवाच मुनिश्रेष्ठो राजानं ज्ञानदायकः ॥ ७ ॥ नारद उवाच । किं राजन् कर्मणा ते वै भविष्यति वद प्रभो । बंधदं कर्म वेदेषु प्रोक्तं तन्नात्र संशयः ॥ ८ ॥ यज्ञैर्नानाविधैः सर्वं कृतं कर्म त्वया महत् । घोरं हिंसात्मकं नित्यं नानापशुवधाश्रयम् ॥९॥ प्रहताः पशवः सर्वे त्वां प्रतीक्षंत ओजसा । वधार्थं तव चात्यंतं क्रोधयुक्ता न संशयः ॥१०॥ अधुना वृद्धरूपस्त्वं त्यक्त्वा कर्म महीपते । कर्मांकुराग्निरूपं वै ज्ञानमार्गं समाश्रय ॥११॥

खं. २ अ. २६ पान ५५ मुद्गल उवाच । नारदस्य वचः श्रुत्वा विस्मितः स नृपोऽब्रवीत् । तं पुनस्तस्य भावज्ञो विनयेन समन्वितः ॥१२॥ प्राचीनबर्हिरुवाच । अहं कर्मपरं भावं जानामि मुनिसत्तम । कर्मणा लभते जंतुर्जानामि न च संशयः ॥१३॥ वद ज्ञानं विभो किं तत् कर्म मूलनिकृंतनम् । दयया च दयासंधो मां तारय भवार्णवात् ॥ १४ ॥ तस्य तद्वचनं श्रुत्वा ज्ञात्वा कर्मपरायणम् । कर्मणा शुद्धरूपं तमुवाच मुनिसत्तमः ॥१५॥ नारद उवाच । ज्ञानं योगमयं विद्धि योगोऽभेदात्मकः स्मृतः । ब्रह्मणि ब्रह्मभूतश्च योगी योगेन जायते ॥१६॥ देहेऽस्मिन् पश्य राजेंद्र बिंबं गणपतेः स्मृतम् । मोहयुक्तं तदाकारं जीवरूपं हृदि स्थितम् ॥१७॥ पंचधा चित्तवृत्तिश्च वर्तते नृपसत्तम । क्षिप्ता मूढा च विक्षिप्तैकाग्राऽपि च निरोधिका ॥१८॥ यत्र क्षिप्तं नरेणैव चित्तं तज्जायते हृदा । तदेव क्षिप्तरूपं त्वं चित्तं जानीहि पार्थिव ॥१९॥ क्षिप्तं चित्तं नरेणैतन् मूढवत्तन्न बुध्यति । अन्यथा च भवेज्ज्ञानं मूढरूपं च तत्स्मृतम् ॥२०॥ मुमुक्षूणां भवेच्चित्तं विक्षिप्तं ब्रह्मलालसम् । न संसारसुखे मग्नं तन्न ब्रह्मणि संगतम् ॥२१॥ एकाग्रं सर्वभावेषु ह्यात्माकारेण संस्थितम् । अंतर्ज्ञानेन तद्रूपं पश्येद्वै योगसेवया ॥२२॥ निरोधं देहदेहिभ्यो हीनं निर्वृतिदायकम् । संयोगायोगरूपांतं लभते योगसेवया ॥२३॥ पंचधा कथितं भूप चित्तं सा बुद्धिरुत्तमा । जानीहि हृदये स्थित्वा गणपेन च खेलति ॥२४॥ पंचधा चित्तवृत्तिर्या तत्र मोहः प्रकीर्तितः । स्वस्वस्थानकरूपस्थैश्वर्यरूपो महीपते ॥२५॥ ऐश्वर्यभ्रांतिरूपा सा सिद्धिः सर्वत्र वर्तते । धर्मार्थकाममोक्षाणां ब्रह्मणः पंचधा स्मृता ॥२६॥ भ्रामयंतीह भूतानि गणपेन च खेलति । मया सा कथिता माया नृप नास्त्यत्र संशयः ॥२७॥ ज्ञानरूपा स्वयं बुद्धि्रैश्वर्यात् सिद्धिरुच्यते । तयोर्बिंबं गणेशस्य भ्रमाढ्यं जीवसंज्ञितम् ॥२८॥ मायामयं सदा जातं माया सौख्ये प्रलालसम् । बंधयुक्तं महीपाल हृदि पश्य प्रकाशकम् ॥२९॥ पंचधा चित्तवृत्तिश्च तेन सर्वा प्रकाशिता । चिंतामणिरिति ख्यातिं गणेशस्य वदंत्यतः ॥३०॥ देहश्चतुर्विधः प्रोक्तः स्थूलः सूक्ष्मः समात्मकः । नादरूपश्चतुर्थो वै बिंदुस्तेषां परा गतिः ॥३१॥ देहेषु देहभोगस्थो देही भ्रांत्या चतुर्विधः । एकोऽपि ब्रह्म तेषां वै सोऽहं विद्धि नराधिप ॥३२॥ तयोगे स्वत उत्थानं ब्रह्म वेदे प्रतिष्ठितम् । सत्यं परत उत्थानरूपं सौख्यमयं परम् ॥३३॥ तयोर्योगे स्वसंवेद्यं ब्रह्म पंचविधं स्मृतम् । सत्यासत्यसमाकारनेतिभेदात्मकं परम् ॥३४॥ संयोगो ब्रह्मणां यत्र योगाभेदेन शाश्वतः । समाधिसुखदः प्रोक्तः स्वानंद इति कथ्यते ॥३५॥ अयोगमेतद्रहितं ब्रह्मनिर्वृतिदायकम् । संयोगायोगयोर्नाशे योगः

यहाँ दिए गए पृष्ठ का पंक्ति-दर-पंक्ति लिप्यंतरण (transcription) प्रस्तुत है:

पान ५६ शांतिप्रदायकः ॥३६॥ गणेशोऽयं महाराज समूहानां पतिः स्मृतः । समूहा ब्रह्मरूपाश्च ज्ञातव्या ज्ञानचक्षुषा ॥३७॥ तं भजस्व महीपाल हृदिस्थं गणनायकम् । बुद्धिप्रकाशकं पूर्णं बुद्धीशं शांतिदायकम् ॥३८॥ एवमुक्त्वा महायोगी नारदो विरराम ह । सोऽपि श्रुत्वा प्रणम्यादानुवाच मुनिपुंगवम् ॥३९॥ प्राचीनबर्हिरुवाच । भो भो योगिन् दयासिंधो तारितोऽहं त्वयाधुना । मत् समीपस्थिता विप्रा न जानंति त्विदं परम् ॥४०॥ नारदोंऽतर्दधे सद्यः प्रययौ गणपं स्मरन् । वीणागानरतो योगी स्वेच्छाचारी सदासुखी ॥४१॥ प्राचीनबर्हिराजर्षिस्त्यक्त्वाऽमात्येषु सत्वरम् । राज्यं वनं ययौ सोऽपि गणेशध्यानतत्परः ॥४२॥ नारदेन यथा तस्य कथितं ज्ञानमुत्तमम् । यथायोगं क्रमेणापि योगी गाणेशकोऽभवत् ॥४३॥ अंते लयं ययौ राजा गणेशे ब्रह्मरूपिणि । ब्रह्मभूतो नृपश्रेष्ठः कथितोऽसौ प्रजापते ॥४४॥ प्राचीनबर्हिराजर्षेश्चरितं यः शृणोति च । पठेद्वा तस्य पापं हि नाशयेत् सर्वदं भवेत् ॥४५॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते प्राचीनबर्हिषश्चरितं नाम षड्विंशतितमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । प्राचीनबर्हिषः पुत्रास्तेपुस्ते तप उत्तमम् । सहस्त्रवर्षपर्यंतं ततस्तुष्टो जनार्दनः ॥१॥ आययौ तान् वरं दातुं गरुडस्थश्चतुर्भुजः । तं दृष्ट्वा ते प्रणेमुश्चापूजयंस्तुष्टुवुर्मुदा ॥ २ ॥ प्रचेतस ऊचुः । नमस्ते केशवायैव नमस्ते भूत- भावन । निराकाराय कृष्णाय विष्णवे प्र भविष्णवे ॥३॥ आदिमध्यांतहीनाय वासुदेवाय ते नमः । सर्वाज्ञानविनाशाय ज्ञानदात्रे कृपालवे ॥४॥ लक्ष्मीपते नमस्तुभ्यं भक्तसंरक्षकाय च । भक्तिप्रियाय देवाय शेषशायिन्नमोऽस्तु ते ॥५॥ भक्तिमुक्तिप्रदायैव वैकुंठपतये नमः । नारायणाय शांताय सत्त्वयुक्ताय ते नमः ॥६॥ वयं सपितरो धन्या यैः प्रहृष्टो जनार्दनः । वरं देहि विशेषेण सृष्टिसामर्थ्यदायकम् ॥७॥ एवं स्तुतः प्रसन्नात्मा तानुवाच स्वयं हरिः । सामर्थ्यमतुलं सृष्टौ भविष्यति च वः सुखम् ॥८॥ तपसा सिद्धरूपाश्च भवंतो नात्र संशयः । यद्यदिच्छथ तत्तद्भोः सफलं प्र भविष्यति ॥ ९ ॥ भवत्कृतमिदं स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् । पठतां शृण्वतां चैव मत्प्रसादकरं परम् ॥१०॥ एवमुक्त्वांतर्दधेऽसौ विष्णुः परपुरंजयः । तेऽपि त्यक्त्वाऽऽश्रमं सद्यो जग्मुः स्वगृहमुत्तमम् ॥११॥ गच्छतां पथि तेषां वै मार्गे वृक्षा अनेकशः । अराजके समुत्पन्ना

खं. २ अ. २७ पान ५७ मार्गरोधनकारकाः ॥१२॥ तान् दृष्ट्वा क्रोधयुक्तास्ते ससृजुर्वह्निमुल्बणम् । तेन दग्धा वने वृक्षाः सकला यत्र तत्र च ॥१३॥ तेषु स्वल्पास्थितेष्वेव चंद्रस्तत्र समागतः । प्रगृह्य वृक्षजां कन्यां ददौ तेभ्यो यथाविधि ॥ १४ ॥ ऋषिवीर्यात्समुत्पन्ना- ऽप्सरः सुद्रुमपालिता । प्रगृह्य तां शांतिमाप्ता अग्निं चक्रुः सुशांतिदम् ॥ १५ ॥ स्वराज्यं प्राप्य ते सर्वे पालयामासुरादरात् । प्रजाः पुत्रानिवाध्यक्षा यंत्रितास्ते प्रचेतसः ॥१६॥ मारिषायां प्रचेतोभ्यो दक्ष त्वं त्वभवस्तदा । रुद्रशापेन सर्वज्ञस्तथा वै तेजसा युतः ॥१७॥ गणेशवरदानेन ब्रह्मपुत्र त्वमंजसा । न गमिष्यति ते दक्ष प्रजापालो भविष्यसि ॥१८॥ त्वां च राज्ये समास्थाप्य वनं चायुः प्रचेतसः । तेपुस्तत्र तपो घोरं योगशांत्यर्थमादरात् ॥१९॥ तत्राऽपि नारदो योगी गणेशे गानतत्परः । आययौ परमप्रीतः प्रचेतसां हितं चरन् ॥२०॥ तं दृष्ट्वा हर्षिताः सर्वे महौजस्काः प्रचेतसः । नेमुः संपूज्य तं भक्त्या स्थिताः प्रांजलयोऽभवन् ॥२१॥ तानुवाच मुनिश्रेष्ठः किमिच्छा वः प्रचेतसः । ब्रूत तां पूरयिष्यामि भवतां भाव- तोषितः ॥२२॥ नारदस्य वचः श्रुत्वा प्रोचुस्तं ते प्रचेतसः । वद त्वं शांतिदं योगं कृपया करुणानिधे ॥२३॥ श्रुत्वा स वचनं तेषां हर्षेण महताऽऽवृतः । उवाच सकलं योगं योगशांतिपदप्रदम् ॥२४॥ नारद उवाच । शांतियोगात्मकं भूपा गणेशं कथयंति वै । योगज्ञा ब्रह्मभूताश्च तं भजध्वं प्रचेतसः ॥२५॥ अहं गणेशाभिन्नश्च योगोऽयं शांतिदायकः । कथितो विष्णुना पूर्वं मह्यं शांतिप्रदः परः ॥२६॥ तेन शांतिं समास्थाय चरामि गणपं स्मरन् । गतभ्रांतिश्च सर्वत्र हर्षयुक्तेन चेतसा ॥२७॥ चित्तस्य पंचभूमीनां भ्रांतिं त्यक्त्वा नरः सदा । योगरूपो न संदेहो भवेद्वै शांतिरूपगः ॥२८॥ सर्वं मायामयं प्रोक्तं भ्रांतिदं बुद्धिलालितम् । त्यक्त्वा तद् योगिनः शांता भवेत्तैव प्रचेतसः ॥२९॥ एवमुक्त्वा महायोगी नारदः स्वेच्छया ययौ । हेरंबेति स्मरन् स्वर्गे कैलासे हर्षसंयुक्तः ॥३०॥ तेऽपि प्रचेतसः सर्वे कथितं योगमादरात् । क्रमेण साधयित्वा तं गाणपा अभवन् पराः ॥३१॥ अंते गणेशदेहे ते तदाकाराः प्रजापते । जाता ब्रह्ममयाः शांता महौजस्काः प्रचेतसः ॥३२॥ प्रचेतसां चरित्रं यः पठेद्वै यः शृणोति वा । तस्य भुक्तिश्च मुक्तिर्वै भविष्यति सुखप्रदा ॥३३॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते प्रचेतसां चरितं नाम सप्तविंशतितमोऽध्यायः ॥

पान ५८ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । दक्षः प्राचेतसो राजा तताप तप उत्तमम् । शतवर्षैर्गणाध्यक्षः प्रसन्नो वरदोऽभवत् ॥ १ ॥ गणेशवरदानेन स सिद्धः ससृजे प्रजाः । देवा यक्षा मनुष्याश्च पिशाचाद्याः सहस्रशः ॥ २ ॥ नानाविधाः प्रजाः सृष्ट्वाऽवर्धंत नयदा तदा। धरण्यां मैथुनीं सृष्टिं ससृजे स प्रजापतिः ॥३॥ दशाभवन् सहस्राणां पुत्रास्तस्मान् महौजसः । तानुवाच स्वयं दक्षः सृजध्वं तपसा युताः ॥४॥ तथेति तं प्रणम्यादौ गतास्तपस आदरात् । तेषां मार्गे ब्रह्मपुत्रो नारदः सहसाऽऽगतः ॥५॥ उवाच विधिवत्तान् स योगमार्गं सनातनम् । तेन युक्ताश्च ते सर्वे न चक्रुः सृष्टिमुत्तमाम् ॥ ६॥ कर्ममार्गं परित्यज्य गाणपत्याश्च तेऽभवन् । गताः स्वेच्छाचराः सर्वे भ्रमहीना जितेंद्रियाः ॥७॥ ज्ञात्वा नष्टान् स्वपुत्रान् स पुनर्दक्षः ससर्ज ह । असिक्न्यां चैव पुत्राणां सहस्रं तेजसा युतम् ॥८॥ स तानुवाच प्रीतात्मा तपसा सृष्टिमुत्तमाम् । कुरुध्वं ते प्रणम्याऽऽदौ तं वनं ययुरादरात् ॥९॥ पुनस्तान्नारदस्तद्वद्ददौ ज्ञानं सुनिर्मलम् । तेऽपि योगयुताः सर्वे ययुः स्वेच्छाविहारिणः ॥१०॥ ज्ञात्वा वृत्तांतमुग्रं वै दक्षः क्रोधसमन्वितः । शशाप नारदं ब्रह्मपुत्रं परमभाविकम् ॥११॥ त्वया पुत्रा मदीयाश्च नाशिताः कर्ममार्गतः । वर्णाश्रमक्रमेणैव युक्ता भ्रष्टाः कृताः खलु ॥१२॥ नारद त्वमतो दुष्ट प्रजाहीनो भविष्यसि । द्विमुहूर्तात् परं कालं न स्थातुं शक्यते त्वया ॥१३॥ यत्र कुत्र महीदेशे स्वर्गे पातालके पदे । भ्रमिष्यसि महादुष्ट मच्छान्नात्र संशयः ॥१४॥ एवं शप्त्वा स्वयं दक्षो ययौ ब्रह्माणमादरात् । तं प्रणम्य जगन्नाथमुवाच विनयान्वितः ॥१५॥ सृष्टिं करोमि देवेश केन मार्गेण तद्वद । नारदो दुष्टभावेन मोघां सृष्टिं स मेऽकरोत् ॥१६॥ तमुवाच ततो ब्रह्मा सृज कन्याः सुलोचनाः । तथेति स ययौ स्थानं स्वकीयं स्रष्टुमारभत् ॥१७॥ षष्टिं दक्षोऽसृजत्कन्या वीरिण्यां तेजसान्वितः । चारुरूपा महाभागा मातरः सर्वदेहिनाम् ॥१८॥ ददौ स दश धर्माय कश्यपाय त्रयोदश । सप्तविंशतिमब्जाय चतस्रोऽरिष्टनेमये ॥ १९ ॥ द्वे ददौ बहुपुत्राय द्वे कृशाश्वाय भास्वतः । द्वे चाप्यंगिरसे तद्वद्वक्ष्ये तासां च विस्तरम् ॥२०॥ मरुत्वती वसुर्यामी लंबा भानुरुरुंधती । संकल्पा च मुहूर्ता वै साध्या विश्वा च भामिनी ॥२१॥ धर्मपत्न्यो दशैताश्च तासां पुत्रान्निबोध च। विश्वेदेवाश्च विश्वायाः साध्यासाध्यानजीजनत् ॥२२॥ मरुत्वत्यां मरुत्वंतो वसोस्तु वसवः स्मृताः । भानोश्च भानवः सर्वे मुहूर्ताया मुहूर्त्तकाः ॥२३॥ लंबाया नादघोषौ च यामीजो नागवीथिकः । पृथिव्यां विषमं सर्वमरुंधत्यामजायत ॥ २४ ॥ संकल्पायास्तु संकल्पा धर्मपुत्रा इमे स्मृताः ।

तेषां पुत्रैश्च पुत्रीभिरखिलं वर्धितं जगत् ॥२५॥ आपो ध्रुवोऽथ सोमश्च धन्यश्चैवानलोऽनिलः । प्रत्यूषोऽथ प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः ॥२६॥ अदितिश्च दितिः कद्रुररिष्टा सुरसा दनुः । सुरभिर्विनता चैव ताम्रा क्रोधवशा त्विरा ॥२७॥ मुनिः खशा च धर्मज्ञा तासां पुत्रान्निबोध वै । विवस्वानथ धाता च भगस्त्वष्टा तथांशकः ॥२८॥ वरुणाद्याश्च ये देवा ते सर्वे चादितेः सुताः । दितेश्च सकला दैत्याः पुत्राः शास्त्रेषु संमताः ॥२९॥ तथैव च दनोः पुत्रास्ताराद्या दानवाः स्मृताः । तारोऽथ विप्रचित्तिश्च शंबरः कपिलस्तथा ॥३०॥ स्वर्भानुः संकरश्चैव वृषपर्वा च वीर्यवान् । प्राधान्येनासुराः श्रेष्ठा दानवाः कथिता मया ॥३१॥ सुरसायाः सहस्रं च सर्पाणामभवत्तथा । अरिष्टा जनयामास गंधर्वाणां सहस्रकम् ॥३२॥ शेषाद्याश्च महानागाः कद्रोः पुत्राः प्रजापते । ताम्रा च जनयामास कन्याषट्कं सुलोचनम् ॥३३॥ शुकी श्येनी च भासी च सुग्रीवा ग्रंथिका शुचिः । तासां पुत्रादिभिः सर्वं पक्षिवृंदं बभूव ह ॥३४॥ सुरभिर्जनयामास महिषीर्गाः प्रजापते । इरा वृक्षलता वल्ली तृणजातींश्च सर्वशः ॥३५॥ मुनेः पुत्रास्तथा प्रोक्ता यक्षाः पुण्यजनास्तथा । रक्षोगणं क्रोधवशा जनयामास दारुणम् ॥३६॥ विनतायाश्च पुत्रौ द्वावरुणो गरुडोऽपरः । खशायाः खेचराः पुत्राः प्रेताद्याश्च प्रजापते ॥३७॥ एते कश्यपदायादा जंगमस्थावरात्मकाः । वैवस्वतेऽंतरे ह्यस्मिन् प्रख्याताः कथिता मया ॥३८॥ अरिष्टनेमिपुत्राश्च वेधसो रूपधारकाः । बहुपुत्रस्य पत्न्योस्तु चतस्रो विद्युतस्स्मृताः ॥३९॥ तथा चांगिरसः पत्न्योर्ऋषयो वृषसत्कृताः । कृशाश्वस्य च देवर्षिदेवः प्रहरणः सुतः ॥४०॥ एते युगसहस्रांते जायंते पुनरेव च । मन्वंतरेषु सर्वेषु तुल्यकार्यैः स्वनामभिः ॥४१॥ पुत्रान् ब्रह्मर्षिरुत्पाद्य कश्यपस्तोषवर्जितः । तताप तप उग्रं वै पुत्रार्थे परमार्थवित् ॥४२॥ तस्यैवं तपतः पुत्रौ प्रादुर्भूतौ महौजसौ । वत्सरश्चासितो नाम्ना तावुभौ ब्रह्मवादिनौ ॥४३॥ वत्सरात्रैध्रुवो जज्ञे रैभ्यश्च सुमहाधशाः । रैभ्याच्च जज्ञिरे रुद्राः पुत्रा द्युतिमंतां वराः ॥४४॥ च्यवनस्य सुता भार्या नैध्रुवस्य महात्मनः । सुमेधा जनयामास पुत्रान् वै कुंडपायिनः ॥४५॥ असिताच्चैकपर्णायां ब्रह्मिष्ठः समजायत । नाम्ना वै देवलः पुत्रो योगाचार्यश्च स स्मृतः ॥४६॥ शांडिल्यः परमो योगी सर्वतत्त्वार्थविच्छुचिः । इत्याद्या बहवः पुत्राः कश्यपस्य मयोदिताः ॥४७॥ एते च स्मरणाज्जंतोः कामपूरा भवंति च । पठनान्नात्र संदेहो मूलरूपाः प्रकीर्तिताः ॥४८॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते कश्यपसृष्टिवर्णनं नाम अष्टाविंशतितमोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । तृणबिंदोः सुता श्रेष्ठा नाम्नेलविलका स्मृता । पुलस्त्याय स राजर्षिर्ददौ विनयसंयुतः ॥१॥ तस्यां जज्ञे पुलस्त्याद्वै विश्रवा मुनिसत्तमः । तस्य पत्न्यश्चतस्रस्तु सुरूपा वामलोचनाः ॥२॥ पुष्पोत्कटा तथा राका कैकसी देववर्णिनी । ज्येष्ठं वैश्रवणं तस्मात् सुषुवे देववर्णिनी ॥३॥ कैकस्यजनयत्पुत्रं रावणं लोकरावणम् । कुंभकर्णं शूर्पणखां पुत्रीं तं च बिभीषणम् ॥४॥ रावणः कुंभकर्णश्च प्रतापी च बिभीषणः । तपस्तेपुः सुविपुलं सहस्र- दशकाब्दकम् ॥५॥ प्रसन्नश्च ततो ब्रह्मा वरदस्तान् समाययौ । रावणो वरयामास राज्यं निहतकंटकम् ॥६॥ भूर्भुवः- स्वस्त्रयाणां स लोकानां बलगर्वितः । सर्वेभ्यश्चामृतिं तद्वद्विस्मृतौ कपिमानुषौ ॥७॥ कुंभकर्णोऽभवद्वाण्या मोहितो वरसुत्तमम् । षण्मासनिद्रया युक्तं वव्रे तं वरदं प्रभुम् ॥८॥ बिभीषणस्तु धर्मात्मा स्वधर्मरुचिदं वरम् । वरयामास धातारं विष्णुभक्तिं सुभावतः ॥९॥ ब्रह्मा दत्वा वरांस्तेभ्यो ययौ स्थानं निजं ततः । ते रक्षःप्रवरा जातास्त्रिषु लोकेषु विश्रुताः ॥१०॥ जित्वा त्रिभुवनं दक्ष रावणः षष्टिलक्षकम् । वर्षाणां मानुषाणां स राज्यं चक्रे सहानुजः ॥११॥ रामेण स हतो दुष्टः कुंभकर्णश्च रावणः । बिभीषणं ततो राज्ये स्थापयामास राघवः ॥१२॥ तपस्तप्त्वा वैश्रवणो गणेशस्य महात्मनः । एकाक्षरविधानेन तोषयामास विघ्नपम् ॥१३॥ दशवर्षसहस्रैस्तु प्रसन्नोऽभूद्गजाननः । भक्तिं स्वचरणे तस्मै ददौ शंकरमित्रताम् ॥१४॥ उत्तराशापतिं चक्रे धनपालाभिधं तथा । ततो देवेषु विख्यातः कुबेरः प्रबभूव ह ॥१५॥ पुष्पोत्कटा विश्रवसोऽजनयच्च महोदरम् । महापार्श्वं प्रहस्तं च खरं कुंभीनसीं सुताम् ॥१६॥ राका संजनयामास त्रिशिरस्कं च दूषणम् । विद्युज्जिह्वं महाकालं विश्रवस्तः प्रजापते ॥१७॥ इत्येते क्रूरकर्माणः पौलस्त्या राक्षसा दश । विख्याताः पुरुषश्रेष्ठा राक्षसानां महाबलाः ॥१८॥ पुलहस्य मृगाः सर्वे पुत्रा व्यालाश्च दंष्ट्रिणः । पिशाचा बहवो भूताः शूकरा हस्तिनस्तथा ॥१९॥ अनपत्यः क्रतुश्चात्र स्मृतो वैवस्वतांतरे । मरीचेः कश्यपः पुत्रः स जातो वै प्रजापतिः ॥२०॥ भृगोः पुत्रस्तु मेधावी दैत्याचार्यो महायशाः । स्वाध्यायनिरतः काव्यो बभूवे च प्रजापते ॥२१॥ शैवमार्गरतो भूत्वा सदा शंकरपूजकः । कैलासं प्राप शांत्यर्थं बोधितोऽभूत् हरेण च ॥२२॥ शांतियोगस्य सिद्ध्यर्थं गणेशमभजत् कविः । क्रमेण शांतिमापन्नो गाणपत्यो बभूव सः ॥२३॥ अत्रेः पुत्रोऽभवत् सोमोऽमृतरूपमयो महान् । अरुंधत्यां वसिष्ठाद्वै शक्तिः पुत्रो बभूव ह ॥२४॥ तस्मात् पराशरः साक्षात्तपोनिधिरजायत । शंकरस्य सदा भक्तिं