मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 183, कुल 1023 में से
संदर्भ में पढ़ेंखं. २ अ. २७ पान ५७ मार्गरोधनकारकाः ॥१२॥ तान् दृष्ट्वा क्रोधयुक्तास्ते ससृजुर्वह्निमुल्बणम् । तेन दग्धा वने वृक्षाः सकला यत्र तत्र च ॥१३॥ तेषु स्वल्पास्थितेष्वेव चंद्रस्तत्र समागतः । प्रगृह्य वृक्षजां कन्यां ददौ तेभ्यो यथाविधि ॥ १४ ॥ ऋषिवीर्यात्समुत्पन्ना- ऽप्सरः सुद्रुमपालिता । प्रगृह्य तां शांतिमाप्ता अग्निं चक्रुः सुशांतिदम् ॥ १५ ॥ स्वराज्यं प्राप्य ते सर्वे पालयामासुरादरात् । प्रजाः पुत्रानिवाध्यक्षा यंत्रितास्ते प्रचेतसः ॥१६॥ मारिषायां प्रचेतोभ्यो दक्ष त्वं त्वभवस्तदा । रुद्रशापेन सर्वज्ञस्तथा वै तेजसा युतः ॥१७॥ गणेशवरदानेन ब्रह्मपुत्र त्वमंजसा । न गमिष्यति ते दक्ष प्रजापालो भविष्यसि ॥१८॥ त्वां च राज्ये समास्थाप्य वनं चायुः प्रचेतसः । तेपुस्तत्र तपो घोरं योगशांत्यर्थमादरात् ॥१९॥ तत्राऽपि नारदो योगी गणेशे गानतत्परः । आययौ परमप्रीतः प्रचेतसां हितं चरन् ॥२०॥ तं दृष्ट्वा हर्षिताः सर्वे महौजस्काः प्रचेतसः । नेमुः संपूज्य तं भक्त्या स्थिताः प्रांजलयोऽभवन् ॥२१॥ तानुवाच मुनिश्रेष्ठः किमिच्छा वः प्रचेतसः । ब्रूत तां पूरयिष्यामि भवतां भाव- तोषितः ॥२२॥ नारदस्य वचः श्रुत्वा प्रोचुस्तं ते प्रचेतसः । वद त्वं शांतिदं योगं कृपया करुणानिधे ॥२३॥ श्रुत्वा स वचनं तेषां हर्षेण महताऽऽवृतः । उवाच सकलं योगं योगशांतिपदप्रदम् ॥२४॥ नारद उवाच । शांतियोगात्मकं भूपा गणेशं कथयंति वै । योगज्ञा ब्रह्मभूताश्च तं भजध्वं प्रचेतसः ॥२५॥ अहं गणेशाभिन्नश्च योगोऽयं शांतिदायकः । कथितो विष्णुना पूर्वं मह्यं शांतिप्रदः परः ॥२६॥ तेन शांतिं समास्थाय चरामि गणपं स्मरन् । गतभ्रांतिश्च सर्वत्र हर्षयुक्तेन चेतसा ॥२७॥ चित्तस्य पंचभूमीनां भ्रांतिं त्यक्त्वा नरः सदा । योगरूपो न संदेहो भवेद्वै शांतिरूपगः ॥२८॥ सर्वं मायामयं प्रोक्तं भ्रांतिदं बुद्धिलालितम् । त्यक्त्वा तद् योगिनः शांता भवेत्तैव प्रचेतसः ॥२९॥ एवमुक्त्वा महायोगी नारदः स्वेच्छया ययौ । हेरंबेति स्मरन् स्वर्गे कैलासे हर्षसंयुक्तः ॥३०॥ तेऽपि प्रचेतसः सर्वे कथितं योगमादरात् । क्रमेण साधयित्वा तं गाणपा अभवन् पराः ॥३१॥ अंते गणेशदेहे ते तदाकाराः प्रजापते । जाता ब्रह्ममयाः शांता महौजस्काः प्रचेतसः ॥३२॥ प्रचेतसां चरित्रं यः पठेद्वै यः शृणोति वा । तस्य भुक्तिश्च मुक्तिर्वै भविष्यति सुखप्रदा ॥३३॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते प्रचेतसां चरितं नाम सप्तविंशतितमोऽध्यायः ॥