मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 184, कुल 1023 में से
संदर्भ में पढ़ेंपान ५८ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । दक्षः प्राचेतसो राजा तताप तप उत्तमम् । शतवर्षैर्गणाध्यक्षः प्रसन्नो वरदोऽभवत् ॥ १ ॥ गणेशवरदानेन स सिद्धः ससृजे प्रजाः । देवा यक्षा मनुष्याश्च पिशाचाद्याः सहस्रशः ॥ २ ॥ नानाविधाः प्रजाः सृष्ट्वाऽवर्धंत नयदा तदा। धरण्यां मैथुनीं सृष्टिं ससृजे स प्रजापतिः ॥३॥ दशाभवन् सहस्राणां पुत्रास्तस्मान् महौजसः । तानुवाच स्वयं दक्षः सृजध्वं तपसा युताः ॥४॥ तथेति तं प्रणम्यादौ गतास्तपस आदरात् । तेषां मार्गे ब्रह्मपुत्रो नारदः सहसाऽऽगतः ॥५॥ उवाच विधिवत्तान् स योगमार्गं सनातनम् । तेन युक्ताश्च ते सर्वे न चक्रुः सृष्टिमुत्तमाम् ॥ ६॥ कर्ममार्गं परित्यज्य गाणपत्याश्च तेऽभवन् । गताः स्वेच्छाचराः सर्वे भ्रमहीना जितेंद्रियाः ॥७॥ ज्ञात्वा नष्टान् स्वपुत्रान् स पुनर्दक्षः ससर्ज ह । असिक्न्यां चैव पुत्राणां सहस्रं तेजसा युतम् ॥८॥ स तानुवाच प्रीतात्मा तपसा सृष्टिमुत्तमाम् । कुरुध्वं ते प्रणम्याऽऽदौ तं वनं ययुरादरात् ॥९॥ पुनस्तान्नारदस्तद्वद्ददौ ज्ञानं सुनिर्मलम् । तेऽपि योगयुताः सर्वे ययुः स्वेच्छाविहारिणः ॥१०॥ ज्ञात्वा वृत्तांतमुग्रं वै दक्षः क्रोधसमन्वितः । शशाप नारदं ब्रह्मपुत्रं परमभाविकम् ॥११॥ त्वया पुत्रा मदीयाश्च नाशिताः कर्ममार्गतः । वर्णाश्रमक्रमेणैव युक्ता भ्रष्टाः कृताः खलु ॥१२॥ नारद त्वमतो दुष्ट प्रजाहीनो भविष्यसि । द्विमुहूर्तात् परं कालं न स्थातुं शक्यते त्वया ॥१३॥ यत्र कुत्र महीदेशे स्वर्गे पातालके पदे । भ्रमिष्यसि महादुष्ट मच्छान्नात्र संशयः ॥१४॥ एवं शप्त्वा स्वयं दक्षो ययौ ब्रह्माणमादरात् । तं प्रणम्य जगन्नाथमुवाच विनयान्वितः ॥१५॥ सृष्टिं करोमि देवेश केन मार्गेण तद्वद । नारदो दुष्टभावेन मोघां सृष्टिं स मेऽकरोत् ॥१६॥ तमुवाच ततो ब्रह्मा सृज कन्याः सुलोचनाः । तथेति स ययौ स्थानं स्वकीयं स्रष्टुमारभत् ॥१७॥ षष्टिं दक्षोऽसृजत्कन्या वीरिण्यां तेजसान्वितः । चारुरूपा महाभागा मातरः सर्वदेहिनाम् ॥१८॥ ददौ स दश धर्माय कश्यपाय त्रयोदश । सप्तविंशतिमब्जाय चतस्रोऽरिष्टनेमये ॥ १९ ॥ द्वे ददौ बहुपुत्राय द्वे कृशाश्वाय भास्वतः । द्वे चाप्यंगिरसे तद्वद्वक्ष्ये तासां च विस्तरम् ॥२०॥ मरुत्वती वसुर्यामी लंबा भानुरुरुंधती । संकल्पा च मुहूर्ता वै साध्या विश्वा च भामिनी ॥२१॥ धर्मपत्न्यो दशैताश्च तासां पुत्रान्निबोध च। विश्वेदेवाश्च विश्वायाः साध्यासाध्यानजीजनत् ॥२२॥ मरुत्वत्यां मरुत्वंतो वसोस्तु वसवः स्मृताः । भानोश्च भानवः सर्वे मुहूर्ताया मुहूर्त्तकाः ॥२३॥ लंबाया नादघोषौ च यामीजो नागवीथिकः । पृथिव्यां विषमं सर्वमरुंधत्यामजायत ॥ २४ ॥ संकल्पायास्तु संकल्पा धर्मपुत्रा इमे स्मृताः ।