मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 186, कुल 1023 में से
संदर्भ में पढ़ें॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । तृणबिंदोः सुता श्रेष्ठा नाम्नेलविलका स्मृता । पुलस्त्याय स राजर्षिर्ददौ विनयसंयुतः ॥१॥ तस्यां जज्ञे पुलस्त्याद्वै विश्रवा मुनिसत्तमः । तस्य पत्न्यश्चतस्रस्तु सुरूपा वामलोचनाः ॥२॥ पुष्पोत्कटा तथा राका कैकसी देववर्णिनी । ज्येष्ठं वैश्रवणं तस्मात् सुषुवे देववर्णिनी ॥३॥ कैकस्यजनयत्पुत्रं रावणं लोकरावणम् । कुंभकर्णं शूर्पणखां पुत्रीं तं च बिभीषणम् ॥४॥ रावणः कुंभकर्णश्च प्रतापी च बिभीषणः । तपस्तेपुः सुविपुलं सहस्र- दशकाब्दकम् ॥५॥ प्रसन्नश्च ततो ब्रह्मा वरदस्तान् समाययौ । रावणो वरयामास राज्यं निहतकंटकम् ॥६॥ भूर्भुवः- स्वस्त्रयाणां स लोकानां बलगर्वितः । सर्वेभ्यश्चामृतिं तद्वद्विस्मृतौ कपिमानुषौ ॥७॥ कुंभकर्णोऽभवद्वाण्या मोहितो वरसुत्तमम् । षण्मासनिद्रया युक्तं वव्रे तं वरदं प्रभुम् ॥८॥ बिभीषणस्तु धर्मात्मा स्वधर्मरुचिदं वरम् । वरयामास धातारं विष्णुभक्तिं सुभावतः ॥९॥ ब्रह्मा दत्वा वरांस्तेभ्यो ययौ स्थानं निजं ततः । ते रक्षःप्रवरा जातास्त्रिषु लोकेषु विश्रुताः ॥१०॥ जित्वा त्रिभुवनं दक्ष रावणः षष्टिलक्षकम् । वर्षाणां मानुषाणां स राज्यं चक्रे सहानुजः ॥११॥ रामेण स हतो दुष्टः कुंभकर्णश्च रावणः । बिभीषणं ततो राज्ये स्थापयामास राघवः ॥१२॥ तपस्तप्त्वा वैश्रवणो गणेशस्य महात्मनः । एकाक्षरविधानेन तोषयामास विघ्नपम् ॥१३॥ दशवर्षसहस्रैस्तु प्रसन्नोऽभूद्गजाननः । भक्तिं स्वचरणे तस्मै ददौ शंकरमित्रताम् ॥१४॥ उत्तराशापतिं चक्रे धनपालाभिधं तथा । ततो देवेषु विख्यातः कुबेरः प्रबभूव ह ॥१५॥ पुष्पोत्कटा विश्रवसोऽजनयच्च महोदरम् । महापार्श्वं प्रहस्तं च खरं कुंभीनसीं सुताम् ॥१६॥ राका संजनयामास त्रिशिरस्कं च दूषणम् । विद्युज्जिह्वं महाकालं विश्रवस्तः प्रजापते ॥१७॥ इत्येते क्रूरकर्माणः पौलस्त्या राक्षसा दश । विख्याताः पुरुषश्रेष्ठा राक्षसानां महाबलाः ॥१८॥ पुलहस्य मृगाः सर्वे पुत्रा व्यालाश्च दंष्ट्रिणः । पिशाचा बहवो भूताः शूकरा हस्तिनस्तथा ॥१९॥ अनपत्यः क्रतुश्चात्र स्मृतो वैवस्वतांतरे । मरीचेः कश्यपः पुत्रः स जातो वै प्रजापतिः ॥२०॥ भृगोः पुत्रस्तु मेधावी दैत्याचार्यो महायशाः । स्वाध्यायनिरतः काव्यो बभूवे च प्रजापते ॥२१॥ शैवमार्गरतो भूत्वा सदा शंकरपूजकः । कैलासं प्राप शांत्यर्थं बोधितोऽभूत् हरेण च ॥२२॥ शांतियोगस्य सिद्ध्यर्थं गणेशमभजत् कविः । क्रमेण शांतिमापन्नो गाणपत्यो बभूव सः ॥२३॥ अत्रेः पुत्रोऽभवत् सोमोऽमृतरूपमयो महान् । अरुंधत्यां वसिष्ठाद्वै शक्तिः पुत्रो बभूव ह ॥२४॥ तस्मात् पराशरः साक्षात्तपोनिधिरजायत । शंकरस्य सदा भक्तिं