मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । तृणबिंदोः सुता श्रेष्ठा नाम्नेलविलका स्मृता । पुलस्त्याय स राजर्षिर्ददौ विनयसंयुतः ॥१॥ तस्यां जज्ञे पुलस्त्याद्वै विश्रवा मुनिसत्तमः । तस्य पत्न्यश्चतस्रस्तु सुरूपा वामलोचनाः ॥२॥ पुष्पोत्कटा तथा राका कैकसी देववर्णिनी । ज्येष्ठं वैश्रवणं तस्मात् सुषुवे देववर्णिनी ॥३॥ कैकस्यजनयत्पुत्रं रावणं लोकरावणम् । कुंभकर्णं शूर्पणखां पुत्रीं तं च बिभीषणम् ॥४॥ रावणः कुंभकर्णश्च प्रतापी च बिभीषणः । तपस्तेपुः सुविपुलं सहस्र- दशकाब्दकम् ॥५॥ प्रसन्नश्च ततो ब्रह्मा वरदस्तान् समाययौ । रावणो वरयामास राज्यं निहतकंटकम् ॥६॥ भूर्भुवः- स्वस्त्रयाणां स लोकानां बलगर्वितः । सर्वेभ्यश्चामृतिं तद्वद्विस्मृतौ कपिमानुषौ ॥७॥ कुंभकर्णोऽभवद्वाण्या मोहितो वरसुत्तमम् । षण्मासनिद्रया युक्तं वव्रे तं वरदं प्रभुम् ॥८॥ बिभीषणस्तु धर्मात्मा स्वधर्मरुचिदं वरम् । वरयामास धातारं विष्णुभक्तिं सुभावतः ॥९॥ ब्रह्मा दत्वा वरांस्तेभ्यो ययौ स्थानं निजं ततः । ते रक्षःप्रवरा जातास्त्रिषु लोकेषु विश्रुताः ॥१०॥ जित्वा त्रिभुवनं दक्ष रावणः षष्टिलक्षकम् । वर्षाणां मानुषाणां स राज्यं चक्रे सहानुजः ॥११॥ रामेण स हतो दुष्टः कुंभकर्णश्च रावणः । बिभीषणं ततो राज्ये स्थापयामास राघवः ॥१२॥ तपस्तप्त्वा वैश्रवणो गणेशस्य महात्मनः । एकाक्षरविधानेन तोषयामास विघ्नपम् ॥१३॥ दशवर्षसहस्रैस्तु प्रसन्नोऽभूद्गजाननः । भक्तिं स्वचरणे तस्मै ददौ शंकरमित्रताम् ॥१४॥ उत्तराशापतिं चक्रे धनपालाभिधं तथा । ततो देवेषु विख्यातः कुबेरः प्रबभूव ह ॥१५॥ पुष्पोत्कटा विश्रवसोऽजनयच्च महोदरम् । महापार्श्वं प्रहस्तं च खरं कुंभीनसीं सुताम् ॥१६॥ राका संजनयामास त्रिशिरस्कं च दूषणम् । विद्युज्जिह्वं महाकालं विश्रवस्तः प्रजापते ॥१७॥ इत्येते क्रूरकर्माणः पौलस्त्या राक्षसा दश । विख्याताः पुरुषश्रेष्ठा राक्षसानां महाबलाः ॥१८॥ पुलहस्य मृगाः सर्वे पुत्रा व्यालाश्च दंष्ट्रिणः । पिशाचा बहवो भूताः शूकरा हस्तिनस्तथा ॥१९॥ अनपत्यः क्रतुश्चात्र स्मृतो वैवस्वतांतरे । मरीचेः कश्यपः पुत्रः स जातो वै प्रजापतिः ॥२०॥ भृगोः पुत्रस्तु मेधावी दैत्याचार्यो महायशाः । स्वाध्यायनिरतः काव्यो बभूवे च प्रजापते ॥२१॥ शैवमार्गरतो भूत्वा सदा शंकरपूजकः । कैलासं प्राप शांत्यर्थं बोधितोऽभूत् हरेण च ॥२२॥ शांतियोगस्य सिद्ध्यर्थं गणेशमभजत् कविः । क्रमेण शांतिमापन्नो गाणपत्यो बभूव सः ॥२३॥ अत्रेः पुत्रोऽभवत् सोमोऽमृतरूपमयो महान् । अरुंधत्यां वसिष्ठाद्वै शक्तिः पुत्रो बभूव ह ॥२४॥ तस्मात् पराशरः साक्षात्तपोनिधिरजायत । शंकरस्य सदा भक्तिं
[शीर्षक] खं. २ अ. २९ | पान ६१
चकार परमादरात् ॥२५॥ वसिष्ठं योगशास्त्रज्ञं पितामहमनिंदितम् । स्वकर्मकुशलं शांतमपृच्छच्छांतिहेतवे ॥२६॥ पराशर उवाच । शिवोऽयं मोहहीनश्च नेति कर्त्ताव्ययः स्मृतः । कथं ब्रह्मणि निर्मोहे भवेन् मोहो भ्रमपदः ॥२७॥ मुद्गल उवाच । पराशरवचः श्रुत्वा वसिष्ठस्तमुवाच ह । हर्षयुक्तः स्वपौत्राय शांतियोगं सनातनम् ॥२८॥ वसिष्ठ उवाच । शृणु पुत्र प्रवक्ष्यामि ब्रह्मणा कथितं च मे । योगं शांतिकरं तुभ्यं कथयामि विशेषतः ॥२९॥ अहं शांत्यर्थमत्यंतं भ्रमितो ना लभे च ताम् । गतो लोके प्रविख्याते ब्रह्मणः परमेष्ठिनः ॥३०॥ तत्र संपूजयंतं वै ब्रह्माणं दृष्टवानहम् । गणेशमूर्तिं वै पुत्र संस्थितोऽहं प्रणम्य ताम् ॥३१॥ पूजाविधिं समाप्याऽसौ सभायां समुपागतः । तत्राऽहं विनतो भूत्वा ह्यवदं तं महाद्युतिम् ॥३२॥ त्वत्तः सर्वाणि भूतानि जायंते नात्र संशयः । त्वयि नाथ प्रलीयते परं त्वत्तो न विद्यते ॥३३॥ त्वयाऽसौ पूजितः कस्मात् कः श्रेष्ठो वद सांप्रतम् । बहुवर्षमहं भ्रांतो नाऽलभे शांतिमुत्तमाम् ॥३४॥ मदीयवचनं श्रुत्वा ब्रह्मा हर्षसमन्वितः । जगाद मां यथायोग्यं पात्रं दृष्ट्वा पितामहः ॥३५॥ ब्रह्मोवाच । शृणु पुत्र महाभाग गणेशो योगशांतिदः । अस्माकं कुलदेवश्च सर्वेषां सोऽपि निश्चितम् ॥३६॥ तस्माद्वयं समुत्पन्नास्तेन संस्थापिताः पदे । सर्व- सिद्धिप्रदातारं तं भजामि निरंतरम् ॥३७॥ अंते तत्रैव लीनाश्च वयं पुत्र न संशयः । तस्मादादौ गणेशानः पूज्यो माता पिता स्मृतः ॥३८॥ ज्येष्ठराजपदं पश्य वेदेषु कथितं सुत । तस्माज्ज्येष्ठो न वेदेष्वादिः सर्वेभ्यो गणेश्वरः ॥३९॥ य आदिः स भवेदंते कथितं शास्त्रसंमतम् । अतस्तत्र वयं लीना भविष्यामो न संशयः ॥४०॥ मध्ये नानाविधः सोऽपि कलांशेन गजाननः । प्रक्रीडति कलांशाश्च वयं तस्य स्मृताः सुत ॥४१॥ शांतिमिच्छसि चेत्पुत्र तां वदामि समासतः । पंचधा चित्तवृत्तिं त्वं त्यक्त्वा शांतो भविष्यसि ॥४२॥ क्षिप्तं मूढं च विक्षिप्तमेकाग्रं च निरोधकम् । चिंतामणिः समाख्यातस्तेन चित्तं प्रकाशितम् ॥४३॥ अहं गणेशरूपश्चेत् संयोगायोगता च मे । नास्ति ह्यतो भिन्नभावस्तेन भ्रांतिर्गता भवेत् ॥४४॥ जगत् सुब्रह्म सुप्रोक्तमैश्वर्यमतुलं बुधैः । जानीहि सिद्धिरूपं त्वं भ्रांतिदायकमंजसा ॥४५॥ जगद्ब्रह्ममयाकारा बुद्धिः शास्त्रेषु कथ्यते । पंचधा सा समाख्याता चित्तरूपा न संशयः ॥४६॥ तयोः प्रकाशकं बिंबं गणेशस्य महात्मनः । मोहितं पश्य मायाभ्यां तदाकारं हृदि स्थितम् ॥४७॥ बिंबभावं त्यज त्वं वै तदा शांतिं गमिष्यसि । चित्तमैश्वर्यमोहश्च बिंबं नैव प्रदृश्यते ॥४८॥ एवमुक्त्वा स्वयं मां स विरराम पितामहः । अहं प्रणम्य तं देवं
प्रादक्षिण्येन निर्गतः ॥४९॥ गत्वा वनान्तरं पुत्र अतपं तप उत्तमम् । एकाक्षरेण मंत्रेण ध्यात्वा जपपरायणः ॥५०॥ क्रमेण योगभूमीनां भ्रांतिं त्यक्त्वा महामुने । चिंतामणिः स्वयं साक्षादभवं शांतियोगधृक् ॥५१॥ तथाऽपि गणराजस्य मंत्रध्यानं महात्मनः । दर्शनार्थं तपश्चोग्रमकार्षं च हितावहम् ॥५२॥ पूर्णे वर्षशते वै मां ययौ देवो गजाननः । प्रत्यक्षं मूषकारूढो योगशांतिस्वरूपधृक् ॥५३॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते वसिष्ठतपोवर्णनं नाम एकोनत्रिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । आगतं गणराजं स दृष्ट्वा हर्षसमन्वितः । ननाम दंडवद्भूमौ तं तुष्टाव यथामति ॥१॥ वसिष्ठ उवाच । अद्येयं धरणी धन्या पितरौ तप आश्रमः । विद्याव्रतादि मे धन्यं दर्शनात्ते पदस्य च ॥२॥ त्वं कर्ता कारणं चैव कारणानां न संशयः । गम्यागम्यमयः प्रोक्तो वेदे वै वेदवादिभिः ॥३॥ सर्वरूपश्च सर्वैस्त्वं हीनः सर्वप्रकाशकः । योगाभेदमयस्त्वं त्वां कथं स्तौमि गणाधिप ॥४॥ तथाऽपि भक्तिपाशेन यंत्रितस्त्वं गजानन । अनुग्रहार्थमायातो नामरूपधरः प्रभो ॥५॥ त्वद्दर्शनजबोधेन स्तौमि त्वां ब्रह्मनायकम् । वेदादिभिः सहायैश्च संस्तुतं योगिभिः परम् ॥६॥ नमस्ते गणनाथाय नमस्ते सर्वसाक्षिणे । सर्वाकाराय वै तुभ्यं स्वसंवेद्याय ते नमः ॥७॥ सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिप्रदाय च । अमेयशक्तये देव देव तुभ्यं नमो नमः ॥८॥ असंप्रज्ञाततुंडाय संप्रज्ञातशरीरिणे । तयोर्योगे च योगात्मदेहाय तु नमो नमः ॥९॥ शांतियोगप्रकाशाय शांतियोगमयाय ते । योगिभ्यो योगदात्रे च योगेशाय नमो नमः ॥१०॥ वक्रतुंडाय वै तुभ्यमेकदंतधराय च । ब्रह्माकारात्मकानां ते चिह्नानां धारिणे नमः ॥११॥ स्तुवतस्तस्य हर्षेण कंठरोधः समाभवत् । ननर्ते हृष्टरोमा वै देहभानविवर्जितः ॥१२॥ निमग्नं तं भक्तिरसे वीक्ष्य देवो गजाननः । तमुवाच महाभक्तं भावज्ञो भाव- पूरकः ॥१३॥ गणेश उवाच । त्वया कृतमिदं वै यत् स्तोत्रं भक्तिरसप्रदम् । धर्मार्थकाममोक्षाणां दायकं प्रभविष्यति ॥१४॥ मदीया भक्तिरचला तवानघ भविष्यति । स्मृतमात्रश्च ते गेहं यास्यामि मुनिसत्तम ॥१५॥ एवमुक्त्वा गणाधीशोऽंतर्दधे मम पश्यतः । सोहं तं हृदये पश्यन् स्थितः शांतिसमन्वितः ॥१६॥ गाणपत्यस्वभावेन मूर्तिपूजापरायणः । वसिष्ठोऽहं
खं. २ अ. ३० पान ६३ महाभागो योगिवंद्यो बभूव ह ॥१७॥ वसिष्ठ उवाच । एतत्ते कथितं वत्स शांतियोगप्रदं शुभम् । ज्ञानं तेनैव मार्गेण गणेशं भज भक्तितः ॥१८॥ एवमुक्तः प्रणम्यादौ मुनिं पौत्रः पराशरः । वने गत्वा चकाराऽसौ तपः परमदारुणम् ॥१९॥ पितामहेन यज्ज्ञानं कथितं योगदं महत् । तादृशं साधितं तेन योगभूमिक्रमेण च ॥२०॥ त्यक्त्वा भूमिं स्वयं योगी गाणपत्यो बभूव ह। तस्य पुत्रत्वमापन्नो व्यासो विष्णुः स्वयं प्रभुः ॥२१॥ तथापि मुनिना तेन पत्न्या वत्सलया सह । तपस्तप्तं महाघोरं गणेशस्य महात्मनः ॥२२॥ संकल्पं पुत्रकामार्थं चकार स महामुनिः । गणराजः स्वयं मे वै भविता पुत्र उत्तमः ॥२३॥ दशवर्षसहस्रैस्तं प्रसन्नो गणनायकः । वरं दातुं समायातो भक्तिभावेन तोषितः ॥२४॥ तं दृष्ट्वा सहसोत्थाय प्रणम्य प्रकृतांजलिः । तुष्टाव सुस्थिरो भूत्वा पत्न्या साकमुदारधीः ॥२५॥ पराशर उवाच । नमस्ते गजवक्त्राय नराकाराय ते नमः । नरकुंजररूपाय गणेशाय नमो नमः ॥२६॥ निर्गुणाय गुणाधाररूपिणे परमात्मने । परात्पराय देवायानादिसिद्धाय ते नमः ॥२७॥ अनंताननधारायानंतपाण्यंघ्रिरूपिणे । अनंतविभवायैव गकाराय च ते नमः ॥२८॥ सर्वहीनाय देवाय मायाभ्यां वर्जिताय ते । सदा ब्रह्ममयायैव णकाराय नमो नमः ॥२९॥ तयोश्च स्वामिने तुभ्यं गणेशाय नमो नमः । स्वानंदवासिने पूर्णभुक्तिमुक्तिप्रदाय ते ॥३०॥ किं स्तौमि देवदेवेश वेदवेदांतकादिभिः । संपादितं परं ब्रह्म त्वामतः प्रणमाम्यहम् ॥३१॥ यदि तुष्टोऽसि देवेश तदा पुत्रो भव प्रभो । आवयोर्गणनाथ त्वं तदा मे स्यात् स्थिरं मनः ॥३२॥ अस्माकं कुलदेवश्च त्वमेव गणनायक । ब्रह्मभावेन नित्यं त्वां भजामस्तत्र विघ्नप ॥३३॥ पुत्रभावेन देवेश भजेयं संसृतौ गतः । संसारः सफलस्तेन ब्रह्मरूपो भवेच्च मे ॥३४॥ श्रुत्वैवं वचनं तस्य पराशरमुनेरिदम् । तमुवाच गणाधीशो भक्तं योगधरं परम् ॥३५॥ गणेश उवाच । त्वया यत्प्रार्थितं विप्र तत्सर्वं सफलं भवेत् । तव पुत्रो भविष्यामि गजासुरवधाय च ॥३६॥ त्वया स्तोत्रं कृतं यच्च तत्सर्व्वेच्छितदं भवेत् । भुक्तिमुक्तिकरं तेषां पठतां शृण्वतां नृणाम् ॥३७॥ एवमुक्त्वांतर्दधेऽसौ गणेशो ब्रह्मनायकः । पराशरः प्रसन्नात्मा सपत्नीको बभूव ह ॥३८॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते पराशरवरप्रदानं नाम त्रिंशोऽध्यायः ॥
खं. २ अ. ३१ पान ६४ ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । कोऽसौ गजासुरो नाम्ना दैत्यः परमदारुणः । वद तस्य चरित्रं मे वधपर्यन्तमुत्तमम् ॥ १ ॥ यदर्थे गणराजोऽयं मुनिपुत्रोऽभवत्प्रभो । तन्न मुद्गल सामान्यं धन्यं जन्मासुरस्य च ॥२॥ सूत उवाच । दक्षस्य वचनं रम्यं श्रुत्वा योगींद्रसत्तमः । जगाद सकलं तस्य चेष्टितं दैत्यपस्य वै ॥ ३ ॥ मुद्गल उवाच । शृणु दक्ष पुरावृत्तमितिहासं वदामि तम् । पापप्रशमनं पूर्णं भुक्तिमुक्तिफलप्रदम् ॥४॥ महिषासुरनाशं च चकार जगदंबिका । तस्य पुत्रो महातेजा गजासुर इति स्मृतः ॥५॥ पितुर्वधेन संतप्तो देवानां वधकांक्षया । शुक्रोपदिष्टमंत्रेण शंकराराधने रतः ॥६॥ तताप स तपो घोरं निराहारसमन्वितः । पंचाक्षरविधानेन तोषयामास शंकरम् ॥७॥ दशवर्षसहस्रैस्तु प्रसन्नोऽभूच्छिवः स्वयम् । आययौ तं वरं दातुं गजासुरतपोवने ॥८॥ काष्ठवत्संस्थितं दैत्यं दृष्ट्वा विस्मयमागतः । जगाद तं स्वभक्तं वै शंकरः करुणानिधिः ॥९॥ शिव उवाच । वरं वरय मत्तस्त्वं गजासुर महामते । तपसा परितुष्टोऽहं तव दास्यामि दुर्लभम् ॥१०॥ शंकरस्य वचः श्रुत्वा हर्षयुक्तो महासुरः । उपचारैः षोडशभिः प्रणम्यापूजयच्छिवम् ॥११॥ अथर्वाशरसा शंभुं तुष्टावासुरनायकः । वरं वव्रे महाक्रूरं तच्छृणुष्व प्रजापते ॥१२॥ गजासुर उवाच । यदि तुष्टोऽसि देवेश वरं देहि महेश्वर । ब्रह्मांडवासिनः सर्वे तेभ्यो मृत्युर्न मे भवेत् ॥१३॥ राज्यं ब्रह्मांडगोलस्य देहि सामर्थ्यमुत्तमम् । सर्वातिगं महेशान नान्यं याचे परं वरम् ॥१४॥ तथेति तमुवाचाथ शिवोऽतर्धानगोऽभवत् । हर्षयुक्तो महादैत्यस्ततो गेहं समाययौ ॥१५॥ मात्रा संमानितः सोऽपि सुहृद्भिश्च गजासुरः । दैत्याः समाययुः सर्वे गृहे तस्य महात्मनः ॥१६॥ स्वयं गत्वा गुरुं शुक्रमानयामास दैत्यपः । ततो मुनिगणैः सार्धमभिषेकं चकार सः ॥१७॥ दैत्यानां दानवां च राजाभूत् स गजासुरः । तैर्युक्तः पृथिवीं जित्वा ययौ स्वर्गं महाबलः ॥१८॥ देवाः पलायिताः सर्वे ज्ञात्वा क्रूरं गजासुरम् । शंकरं ते समाश्रित्य स्थिताः सर्वे भयातुराः ॥१९॥ दैत्यैः समावृतः सोऽपि कैलासमगमत्ततः । शंकरः क्रोधसंयुक्तस्तं ययौ देवसंवृतः ॥ २० ॥ युद्धाय शंकरं तेनागतं ज्ञात्वा महासुरः । स्वयं सैन्यं पुरस्कृत्याययौ रणविधित्सया ॥२१॥ देवानां दानवानां च युद्धं परमदारुणम् । संजातं च ततो दैत्याः पलायनपरा ययुः ॥२२॥ तं दृष्ट्वा क्रोधसंयुक्तो गजदैत्यः प्रतापवान् । बाणवृष्टिं महोग्रां स ससर्ज सुरनाशिनीम् ॥२३॥ बाणैर्निपतिता- स्तस्य देवाः सर्वे धरातले । छिन्नांगा मरणप्रायाः प्रलयं मेनिरे तदा ॥२४॥ इंद्रादयश्च दिक्पालाः पतिता बाणपीडिताः । गदया विष्णुमहनत् सोऽपि भूतलमाश्रितः ॥२५॥ ततः क्रोधसमायुक्तः शंकरः शूलमाददे । तेनाहनन् महादैत्यं प्रलयाग्नि-
खं. २ अ. ३१ पान ६५ समेन सः ॥२६॥ त्रिशूलेन हतः सोऽपि न चचाल सुराधिपः । वरदानप्रभावेण शस्त्राणि व्यर्थतां ययुः ॥२७॥ सहसागत्य दैत्येशो धृत्वा पादं प्रहस्य वै । आमयित्वा महेशानं चिक्षेप रणमूर्धनि ॥२८ ॥ ततो देवगणाः सर्वे पलायनपरायणाः । ययुर्दश दिशो रक्षो दैत्यसंत्रासतापिताः ॥२९॥ दैत्योऽपि शिवलोकं तं दैत्यैः सह समाययौ । स्थापयामास देवानां पदेषु श्रेष्ठदानवान् ॥३०॥ विकुंठादिपदेष्वेते स्थितास्तेन सुमानिताः । स्वर्गभोगकराः सर्वे कृता दैत्याः सुरारिणा ॥ ३१ ॥ कैलासे संहरं दैत्यं स्थापयामास वीर्यवान् । स्वयं समागतो दक्ष पृथिव्यां दैत्यपैर्वृतः ॥३२॥ महिषाख्यपुरे दुष्टः संस्थितो दैत्यपैः सह । चकार सोऽतुलं राज्यं त्रैलोक्यस्य महाबलः ॥३३॥ गते बहुतेरे काले देवाः सर्वे भयातुराः । पर्वतांतरसंगुप्ताः संस्थिता अभवन् द्विजैः ॥ ३४ ॥ विचारमखिलाश्चक्रुर्गजासुरवधाय ते । तत्र विष्णुर्जगादेदं वचनं सर्वतोषपदम् ॥३५॥ विष्णुरुवाच । ब्रह्मांडवासिनो ये वै तेभ्यो मृत्युर्न विद्यते । दैत्यस्य वरदानेन तेन सर्वे पराजिताः ॥३६॥ स्वानंदलोकगः साक्षाद्गणेशो देवनायकः । ब्रह्मांड- वर्जितो ब्रह्म तस्मात्तस्य मृतिर्भवेत् ॥ ३७ ॥ अतस्तं देवदेवेशं तपसा पुष्कलेन वै । सर्व आराधयामैव देवाः सर्षिगणाः परम् ॥३८॥ स हत्वा तं महादैत्यं प्रदास्यति पदानि वः । हितं यदि सुराः कार्यं वचनं मे सुखप्रदम् ॥३९॥ विष्णोर्वचनमाकर्ण्य देवा मुनिगणास्तथा । साधुसाध्विति तत्रोचुर्बभुस्तपसि संस्थिताः ॥४०॥ केचिन् मंत्रजपं चक्रुः केचिन्नामजपं तथा । केचिन् मानसपूजायां निरताश्च बभूविरे ॥४१॥ केचिद् ध्यानं गणेशस्य चक्रुः केचित् स्तुतिं विभोः । निराहारं तथा केचिद्वायुपत्रादि- भक्षकाः॥४२॥केचिद्धोमं च पंचाग्निं धूम्रपानं तथाऽपरे । इत्यादि तपसा देवं तोषयामासुरादरात्॥४३॥ शतवर्षे तु तेषां वै प्रादुर्भूतो गजाननः । पुरस्तात्तानुवाचेदं वचनं भक्तवत्सलः ॥४४॥ गणेश उवाच । देवाश्च मुनयः सर्वे वरं ब्रूत हृदीप्सितम् । दुर्लभं त्वपि तद्दास्ये तपसा तोषितो भृशम् ॥४५॥ गणेशवचनं श्रुत्वा दृष्ट्वा देवं पुरःस्थितम् । प्रणेमुर्मुनयो देवा दंडवत् पृथिवीतले ॥४६॥ परयाऽपूजयन् भक्त्या ब्रह्मेशं ब्रह्मभाविताः । तुष्टुवुः संप्रहृष्टाश्च सरोमांचाः प्रजापते ॥४७॥ देवर्षय ऊचुः । नमो नमो गणेशाय गणपालकमूर्तये । गणरूपेण सर्वत्र संस्थिताय नमो नमः ॥४८॥ मूषकारूढकार्यायानादिरूपाय ते नमः । आकारादि- विहीनायाकारिरूपाय ते नमः ॥४९॥ हेरंबाय नमस्तुभ्यं भक्तसंरक्षकाय च । भक्तवत्सलभावाय विघ्नेशाय नमो नमः ॥५०॥ नमस्तुभ्यं सिद्धिपते सिद्धिदात्रे च ढुंढये । बुद्धिदात्रे धियः पात्रे सर्वांतश्चारिणे नमः ॥ ५१ ॥ स्वानंदपतये तुभ्यं स्वसंवेद्याय ते नमः । योगरूपाय शांताय योगानां पतये नमः ॥५२॥ आदिमध्यांतहीनाय कर्त्रे हर्त्रे नमो नमः ।
पालकाय त्रिभिर्हीनगुणेशाय नमो नमः ॥५३॥ वक्रतुंडाय देवाय लंबोदरधराय च। सर्वेषां हृदि संस्थाय विनायक नमोऽस्तु ते ॥५४॥ यं स्तोतुं न समर्थाश्च वेदाः सांगाः कदाचन । वयं तत्र च के देव वेदज्ञैर्ज्ञानधरा यतः ॥५५॥ एवं स्तुत्वा गणेशानं पेतुस्ते तस्य पादयोः । धृत्वा मनसि तद्रूपं भक्तिभावेन यंत्रिताः ॥५६॥ पुनरुत्थाय ते सर्वे तमूचुर्भयविह्वलाः । कृतांजलिपुटा देवं गणेशं सर्वनायकम् ॥५७॥ यदि तुष्टोऽसि देवेश जहि दैत्यं गजासुरम् । पदभ्रष्टा वयं तेन कृताः कर्म- विवर्जिताः ॥५८॥ भक्तिं ते देहि विघ्नेश सर्वदुःखविनाशिनीम् । एष एव वरोस्माभिर्वाञ्छितो द्विरदानन ॥५९॥ देवर्षीणां वचः श्रुत्वा भक्तवत्सलभावतः । उवाच तान् गणाध्यक्षो हर्षयन् वचनं शुभम् ॥६०॥ गजासुरवधं देवा मुनयश्च सुदुष्करम् । तथापि भवतां वाक्यात् करिष्येऽहं न संशयः ॥६१॥ मदीया भक्तिरचला भविष्यति सुदुर्लभा । पराशरस्य पुत्रोऽहं भविष्यामि वधाय वै ॥६२॥ भवत्कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम् । भुक्तिमुक्तिप्रदं पूर्णं भविष्यति न संशयः ॥६३॥ पठतां शृण्वतां विप्रा देवाः सर्वार्थसिद्धिदम् । दुःखघ्नं सततं तेषां भविष्यति सुबुद्धिदम् ॥६४॥ इत्युक्त्वांतर्दधे देवो गणेशः सर्वसिद्धिदः । वत्सलोदरगो भूत्वा पराशरसुतोऽभवत् ॥६५॥ जातकर्मादिकं सर्वं चकार मुनिसत्तमः । ब्राह्मणैर्हर्षितो भूत्वा पत्न्या स्वयमुदारधीः ॥६६॥ स बालो ववृधे तत्र हर्षयन् मातरं निजाम् । पितरं चेष्टितैः स्वीयैर्बालक्रीडनकैस्तथा ॥६७॥ पंचमे व्रतबंधं च चकार मुनिसत्तमः । वेदानध्यापयामास सांगान्स्तान् गणपाय च ॥६८॥ विवाहमकरोत्तस्य सिद्धिबुद्धिश्च शाश्वते । मरीचेश्च सुते जाते दत्ते तेन विधानतः ॥६९॥ इति ते कथितं सर्वं पराशरसुतस्य च । चरितं गणनांथस्य दैत्यस्य शृणु चेष्टितम् ॥७०॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते पराशरसुतोत्पत्तिकथनं नामैकत्रिंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । एकदा तं सभायां वै संस्थितं दैत्यनायकम् । आययौ सहसा तत्र नारदो कौतुकी मुनिः ॥१॥ दैत्येन मानितो दक्ष तमुवाच महामुनिः । शृणु दैत्याधिप प्राज्ञ हितं ते वचनं महत् ॥२॥ अरण्ये मुनिभिर्देवैर्गणेशो भक्तिभावितः । आराधितो वधार्थं ते पराशरसुतोऽभवत् ॥३॥ इत्युक्त्वा प्रययौ तस्मान्नारदो दिव्यदर्शनः । दैत्यो रोषसमाविष्टो देवर्षीणां वधे रतः ॥४॥ आययौ यत्र देवाश्च मुनयः संस्थिताः खलः । दैत्यैः समावृतः
खं. २ अ. ३२ पान ६७ सर्वैर्महाबलपराक्रमैः॥५॥ धृत्वा स सकलान् देवान् खलः सर्षिगणांस्तदा । तान् हंतुं शस्त्रमादत्ते तावत्तैर्विघ्नपः स्मृतः ॥६॥ स्मृतमात्रो गणाध्यक्षो बुद्धिभेदं चकार ह । दैत्यस्य तेन दैत्येन मानसे धारितं महत् ॥७॥ ममाधीना इमे विप्रा देवाश्चैव न संशयः । एषां दंडः प्रकर्तव्यो येन सत्वं गमिष्यति ॥८॥ पश्चात्कियति कालेऽहं हनिष्यामि बलात्किल । एवं निश्चितसंकल्पस्तानुवाच गजासुरः ॥९॥ गजासुर उवाच । देवा मुनिगणाः सर्वे वचः शृण्वंतु मे हितम् । कर्तव्यं जीवितुं तच्च यदीच्छथ च सत्वरैः ॥१०॥ कर्णौ संपीड्य पाणिभ्यामुत्तमांगं धरातले । नित्यमास्फालयध्वं वै मम पादस्य संनिधौ ॥११॥ तदा मुंचामि देवेशान्न्यान्यथा मुनिसत्तमान् । शिरच्छेदं च सर्वेषां करिष्यामि न संशयः ॥१२॥ भवद्भिः प्रार्थितो देवो गणेशो देववल्लभः । पराशरसुतो जातः कुरुध्वं तेन संयुताः ॥१३॥ एवं तस्य वचः श्रुत्वोवाच तं विष्णुरादरात् । गणेशं मनसा स्मृत्वा सामयुक्तं वचः शुभम् ॥ १४॥ त्वया यः कथितो दंडो वयं तं करवामहै । सर्वान् देवमुनीन् मुंच गमिष्यामो गजाननम् ॥१५॥ आनयित्वा च देवेशं तेन सार्धं प्रयत्नतः । त्वत्पादकमले नित्यं करिष्यामो यथातथम् ॥१६॥ गणेशमायया भ्रांतो दैत्यराजः प्रतापवान् । सकलान् मोचयामास देवानृषिसमन्वितान् ॥१७॥ दिवसे पंचमे प्राप्ते नागता मे प्रसन्निधौ । तदा सर्वान् हनिष्यामि गणेशेन समन्वितान् ॥१८॥ तथेत्युक्त्वा गताः सर्वे पराशरगृहं प्रति । गजाननं तत्र दृष्ट्वा प्रणेमुर्दंडवत् क्षितौ ॥१९॥ पराशरो विस्मितोऽसौ पूजयामास तान् स्वयम् । सहसा सकलान् प्राप्तान् मुनीन् देवान् विशेषतः ॥२०॥ पराशरेण संयुक्ताः सर्वे तेऽकथयंस्तदा । स्तुत्वा च विविधैः स्तोत्रैर्गजासुरविचेष्टितम् ॥२१॥ कर्णौ संपीड्य देवेश शिरःस्फालनमंजसा । कथं कुर्मोऽसुरस्याग्रे चरणावनताः प्रभो ॥२२॥ नीचस्य नमनादेव मरणं हि वरं स्मृतम् । तस्मात्त्वं जहि देवान् वा मुनीन् दैत्यान् गजानन ॥२३॥ मुद्गल उवाच । देवादीनां वचः श्रुत्वा स्मित्वा तानब्रवीत् प्रभुः । भक्तवत्सलभावेन यंत्रितः स प्रजापते ॥२४॥ गणेश उवाच । चिंता नैव प्रकर्तव्या हनिष्याम्यसुरं क्षणात् । कुरुध्वं मे वचो रम्यं सर्वेषां सुखदं भवेत् ॥२५॥ दैत्येंद्रेण प्रकथितो दंड एव स मे प्रियः । मम पादस्य सामीप्ये कुरुध्वं सर्वभावतः ॥२६॥ तदा दैत्यं महाघोरं हनिष्यामि प्रपश्यताम् । भवतां नात्र संदेहः क्षणार्धेन च सत्तमाः ॥२७॥ गणेशस्य वचो रम्यं श्रुत्वा देवर्षिसत्तमाः । परस्परं मुखालोकमकुर्वन् स्मितपूर्वकम् ॥२८॥ तत्र शंभुरुवाचेदं वचनं हितकारकम् । अस्माकं कुलदेवोऽयं तस्मात् कुर्वंतु सत्तमाः ॥२९॥ इत्युक्त्वा शंकरस्तत्र पाणिभिः
पान ६८
श्रवसि स्वयम् । पीडयित्वा शिरोभिस्तच्चरणे ध्वनिमाचरत् ॥३०॥ मृदुर्मधुररूपः स शब्दश्च शिरसाऽभवत् । श्रुत्वा गजाननो हृष्टो बभूव परमं तदा ॥३१॥ ततो विष्ण्वादिभिर्देवैर्भृग्वादिप्रमुखैस्तथा । मुनिभिश्च कृतं दक्ष ततोऽत्यंतं मुमोद सः ॥३२॥ भूत्वा तु मूषकारूढो चतुरायुधभूषितः । गजासुरवधार्थाय ययौ गणपतिः स्वयम् ॥३३॥ महिषाख्ये पुरे गत्वा सिंहनादं चकार सः । तेन भ्रांताश्चासुरास्ते गजदैत्यस्तथा स्वयम् ॥३४॥ एतस्मिन्नंतरे तत्र गुल्मस्था असुरा ययुः । छिन्नभिन्नीकृतांगा वै शशंसुर्देवचेष्टितम् ॥३५॥ असुरा ऊचुः । गणेशेन समायुक्ता देवा मुनिगणाः प्रभो । आययुर्युद्धमत्यंतं मदयुक्ता गजासुर ॥३६॥ तेषां वचनमाकर्ण्य गजदैत्यः प्रतापवान् । सर्वानाज्ञापयामास दैत्यान् सञ्जीभवंत्विति ॥३७॥ स्वयं सुसज्जितो भूत्वा रथारूढश्च निर्ययौ । अनु तं दैत्यसैन्येशा दैत्यास्ते निर्ययुः पुरात् ॥३८॥ अपारसेनया युक्तं तं ददर्श गजासुरम् । गजाननः प्रसन्नात्मा कालस्य भयदायकः ॥३९॥ ततो गजासुरः कोपादैत्यानाज्ञापयत्तदा । संहरध्वं सुरान् सर्वान् मुनीन् यक्षादिसंयुतान् ॥४०॥ दैत्येंद्रेण समाज्ञप्ता असुरा जयशालिनः । अस्त्रैः शस्त्रैश्च ते देवान् पीडयामासुरोजसा ॥४१॥ देवाः क्रोधसमाविष्टा मरणे कृतनिश्चयाः । दैत्यान् प्रहरणैर्जघ्नुः शस्त्रैर्नानाविधैस्तदा ॥४२॥ दैत्यानां चैव देवानां युद्धं परमदारुणम् । बभूव तुमुलं तत्र परस्परविनाशनम् ॥४३॥ असृङ्नदी प्रवृत्ता च महौघा वीरमोहिनी । भग्ना दैत्यगणास्तत्र प्रहारपरिपीडिताः ॥४४॥ त्यक्त्वा दैत्यगणा लज्जां पलायंत दिशो दश । तत् दृष्ट्वा दैत्यराजस्तु विस्मितोऽभूत् प्रजापते ॥४५॥ ततो दैत्याधिपाः क्रूराः प्रधानप्रमुखा रणम् । आययुर्देवसेनां ते निर्जघ्नुश्च महाबलाः ॥४६॥ तत इंद्रादिभिस्ते वै रणं कृत्वा सुदारुणम् । निहता मूर्च्छिताः केचिद्रणे भूमौ निपातिताः ॥४७॥ हा हा दैत्यगणाः कृत्वा पलायंत दिशो दश । तत् दृष्ट्वा दैत्यराजः स विस्मयं परमं ययौ ॥४८॥ विपरीतं मया दृष्टं वह्निः शीतो यथाऽभवत् । तथा देवैर्मदीयेयं सेना सर्वा पराजिता ॥४९॥ एवं मनसि संतप्तः क्रोधारुणविलोचनः । रथारूढः स्वयं योद्धुमाययौ स गजासुरः ॥५०॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते गजासुरसैन्यवधो नाम द्वात्रिंशोऽध्यायः ॥
खं. २ अ. ३३ | पान ६९
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । समागतं महादैत्यं दृष्ट्वा देवा भयातुराः । गजाननं निजं नाथं ययुर्वृत्तांतमीरितुम् ॥ १ ॥ स वृत्तांतं देवमुखात् श्रुत्वा क्रोधसमन्वितः । परशुं पाशमुग्रं च गदां धृत्वा ययौ तदा ॥ २ ॥ मूषकारूढमाद्यं तं पुरुषं दैत्यनायकः । दृष्ट्वा गजाननं दीप्तमुवाच बलगर्वितः ॥ ३ ॥ गजासुर उवाच । किमर्थं रणभूमौ त्वमागतो ब्राह्मणाधम । तपः कार्यं त्वया नित्यं कथं क्षात्रं समाश्रितः ॥४॥ ब्रह्मादयो जिता येन तेन सार्धं त्वया द्विज । युद्धं कर्तव्यमत्यंतं वृथा मरणमाप्स्यसि ॥५॥ गच्छ स्वमाश्रमं विप्र न हन्मि त्वां समागतम् । बालभावात् कृतं कर्म सहेहं नात्र संशयः ॥६॥ इत्युक्तवंतमालोक्य शंभुः क्रोधसमन्वितः । उवाच तं महादैत्यं वचस्तद्धितकाम्यया ॥७॥ शिव उवाच । मूर्खोऽसि दैत्यराज त्वं नायं ब्राह्मणसत्तमः । गणेशोऽयं सदा सेव्यो योगिभिः परमाहृतैः ॥ ८ ॥ पराशरस्य पुत्रोऽभूत्तपसाराधितः स्वयम् । वरदानप्रभावेण त्वां हनिष्यति निश्चितम् ॥ ९ ॥ त्यक्त्वा वैरं गणेशं च शरणं दैत्यनायक । एहि नोचेच्च सर्वस्वं हित्वा मृत्युमवाप्स्यसि ॥१०॥ वस पातालभूमौ त्वं न गणेशो हनिष्यति। एवं श्रुत्वा वचः शंभुं जघान गदयाऽसुरः ॥११॥ मूर्च्छया पतितो भूमौ शंकरस्तत्र संगरे । शस्त्रास्त्रैस्तेन दैत्येन मूर्च्छिताश्च कृताः सुराः ॥१२॥ विष्ण्वादयाश्च रणे तत्र पतिताः पीडिता भृशम् । दैत्याधिपं ततो दृष्ट्वा गणेशोऽस्त्रमुपाददे ॥ १३ ॥ परशुं मंत्रयामास संहारास्त्रविधानतः । तत्याज दैत्यसेनायां महास्त्रं यमसंनिभम् ॥ १४ ॥ हताः परशुना दैत्या यत्र तत्र स्थिता मृधे । पश्यतो दैत्यराजस्य प्रधानाश्च मृताः सुताः ॥ १५ ॥ संहारास्त्रनिवृत्त्यर्थं नानायत्नमथाकरोत् । सर्वं तन्निष्फलं जातं गजदैत्यस्य संयुगे ॥ १६ ॥ एक एव महादैत्यो वरदानप्रभावतः । स संहारादुवरितो हतः परशुना न च ॥ १७ ॥ ततो दैत्यो ययौ क्रोधात्समीपे विघ्नपस्य च । शस्त्राणि सहसा त्यक्त्वा मल्लयुद्धोद्यतोऽभवत् ॥ १८ ॥ तादृशं तं गणेशाने दृष्ट्वा क्रोधसमन्वितः । दर्शयामास दैत्याय रूपं स्वानंदगं परम् ॥ १९ ॥ अनंतादित्यसंकाशं गजवक्त्रविराजितम् । ज्योतिषां ज्योतिरापूर्णं योगरूपं सुशांतिदम् ॥२०॥ तं धर्तुं दैत्यराजः स्म यतते निकटस्थितम् । आकाशवन्न तद्रूपं हस्तगं चाऽभवत् प्रभोः ॥२१॥ आश्चर्यं हृदये मत्वा दैत्येशो विह्वलो भृशम् । अहो मया धृतो ढुंढिर्हस्तगो मे न हस्तगः ॥ २२ ॥ किमिदं कौतुकं पूर्णं गणेशोऽयं सनातनः । ब्रह्माकारो न संदेहो हनिष्यति स मां ध्रुवम् ॥२३॥ धन्यं जन्म मदीयं वै पितरावाश्रमादिकम् । गणेशहस्तशस्त्रेण मरिष्यामि न संशयः ॥ २४ ॥ शुकाद्या योगिनो यं वै प्राप्ता योगैः सुदुश्चरैः । आयासेन विना सोऽयं
मया प्राप्तो गजाननः ॥२५॥ तं प्रणम्य महाभक्त्या दैत्येशो वरकांक्षया । जगाद गणनाथं वै भावभावितमादरात् ॥२६॥ ब्रह्म ब्रह्मेश जहि मां दासं ते गणनायक । वरं प्रयच्छ मे त्वेनं नमामि त्वां पुनः पुनः ॥ २७ ॥ न संसारसुखे चित्तं मदीयं ते प्रदर्शनात् । त्वया हतो भविष्यामि ब्रह्मभूतो न संशयः ॥२८॥ प्रार्थयंतं महादैत्यमंकुशेन जघान तम् । गणेशः सोऽपि सायुज्यं तस्य प्राप्तः प्रजापते ॥ २९ ॥ शंकराद्याः सुरास्तत्र मुनयो मोहसंयुताः । न विदुश्चेष्टितं तस्य बभुर्भ्रांता इव स्थिताः ॥ ३० ॥ हतं दैत्यं समालोक्य हर्षितास्ते तदाऽभवन् । गणेशोऽपि स्वकं रूपं लीनं कृत्वा स्थितः पुरः ॥३१॥ पूर्वाकारं च तं दृष्ट्वा तुष्टुवुस्ते सुरर्षयः । संपूज्य भक्तिभावेन नेमुश्च ननृतुः पुरः ॥३२॥ देवर्षय ऊचुः । नमस्ते गजवक्त्राय गजाननस्वरूपिणे । पराशरसुतायैव वत्सलासूनवे नमः ॥ ३३ ॥ व्यासभ्रात्रे शुकस्यैव पितृव्याय नमो नमः । अनादिगणनाथाय स्वानंदवासिने नमः ॥३४॥ रजसा सृष्टिकर्त्रे ते सत्त्वतः पालकाय वै । तमसा सर्वसंहर्त्रे गणेशाय नमो नमः ॥३५॥ प्रकृतेः पुरुषस्यापि रूपिणे परमात्मने । बोधाकाराय वै तुभ्यं केवलाय नमो नमः ॥३६॥ स्वसंवेद्याय देवाय योगाय गणपाय च । शांतिरूपाय तुभ्यं वै नमस्ते ब्रह्मनायक ॥ ३७ ॥ विनायकाय वीराय गजदैत्यस्य शत्रवे । मुनिमानसनिष्ठाय मुनीनां पालकाय च ॥ ३८ ॥ देवरक्षाकरायैव विघ्नेशाय नमो नमः । वक्रतुंडाय धीराय चैकदंताय ते नमः ॥ ३९ ॥ त्वयाऽयं निहतो दैत्यो गजनामा महाबलः । ब्रह्मांडॆ मृत्युसंहीनो महाश्चर्यं कृतं विभो ॥४०॥ हते दैत्येऽधुना कृत्स्नं जगत् संतोषमेष्यति । स्वाहास्वधायुतं पूर्णं स्वधर्मस्थं भविष्यति ॥४१॥ एवमुक्त्वा गणाधीशं सर्वे देवर्षयस्ततः । प्रणम्य तूष्णींभावं ते संप्राप्ता विगतज्वराः ॥ ४२ ॥ कर्णौ संपीड्य गणपचरणे शिरसो ध्वनिः । मधुरः प्रकृतस्तैस्तु तेन तुष्टो गजाननः ॥४३॥ तानुवाच मदीया ये भक्ताः परमभाविताः । तैश्च नित्यं प्रकर्तव्यं भवद्भिर्नमनं यथा ॥ ४४ ॥ तेभ्योऽहं परमप्रीतो दास्यामि मनसीप्सितम् । एतादृशं प्रियं मे च नमनं नात्र संशयः ॥४५॥ एवमुक्त्वा स तान् सर्वान् सिद्धिबुद्ध्यादिसंयुतः । अंतर्दधे ततो देवा मुनयः स्वस्थलं ययुः ॥४६॥ पिता पराशरस्तस्य माता वै वत्सला प्रभोः । शोकसागरमग्नौ तौ श्रुत्वा वार्त्तां निपेततुः ॥ ४७ ॥ ततः कारुणिको देवस्तयोश्चित्तप्रकाशकः । योगशांतिमयं ज्ञानं बोधयामास शाश्वतम् ॥ ४८ ॥ मूर्तिं मदीयां वै कृत्वा संस्थाप्य ब्राह्मणैः सह । तस्याः पूजा प्रकर्तव्या भवद्भ्यां नित्यमादरात् ॥४९॥ देहव्यापारिता तत्र कर्तव्या हृदि शांतिदम् ।
खं २ अ. ३४ पान ७१
योगरूपधरं दृष्ट्वा कालमाक्रमतं सदा ॥२०॥ एवमुक्त्वा हृदिस्थोऽसौ गणेशोऽन्तर्दधे ततः । कृतवन्तौ महाभागौ तथा दक्षसुयोगिनौ ॥२१॥ अचला स्थापिता मूर्तिः सिद्धिदा साऽभवत्परा । दर्शनान् मोक्षदा दक्ष सकामानां प्रकामदा ॥२२॥ एतत्ते कथितं सर्वं गजासुरवधाश्रितम् । चरितं गणनाथस्य सर्वपापहरं शुभम् ॥ २३ ॥ यः शृणोति नरो भक्त्या पठेद्वा तु प्रजापते । तस्मै भुक्तिप्रदं पूर्णं मुक्तिदं प्रभविष्यति ॥२४॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते गजासुरवधाख्यानं नाम त्रयस्त्रिंशोऽध्यायः ॥ ❖❖❖ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । पराशरस्य पुत्रोऽभूत् व्यासः साक्षाज्जनार्दनः । वेदादिभागसिद्धयर्थं देवैः संप्रार्थितः पुरा ॥१॥ स एव ज्ञानगर्वेण न सस्मार गजाननम् । नमनं न प्रकर्तव्यं मया विष्णुस्वरूपिणा ॥२॥ ततस्तस्य गतं ज्ञानं सकलं वेदशास्त्रजम् । प्रययौ दुःखितस्तेन ब्रह्माणं शरणं पुरा ॥३॥ ब्रह्मणा बोधितो व्यासः पुराणं श्रुतवान् प्रभोः । गाणेशमादिभूतं तत्तेन स ज्ञानवानऽभूत् ॥४॥ तपस्तप्त्वा सुविपुलं गाणपत्यो बभूव ह । शांतियोगधरः साक्षाद्व्यासो नारायणः स्वयम् ॥५॥ ततो व्यासेन वेदानां शाखा भिन्नाः कृताः पराः । सौलभ्यार्थं नराणां वै कर्मादिज्ञानसिद्धये ॥६॥ आदौ वेदं यजुःसंज्ञं तं चतुर्धा विभज्य सः । चातुर्होत्रं चकारैव कर्म सर्वं प्रजापते ॥७॥ यजुषाध्वर्यवं चक्रे ऋग्भिर्होतृत्वमंजसा । उद्गातृत्वं चकाराऽसौ सामभिः सर्वसंमतः ॥८॥ ब्राह्ममेवाकरोद्विप्रोऽथर्वभिः सुसमाहितः । एवं चतुर्विधं कर्म कृत्वा मान्यो बभूव ह ॥९॥ मंत्रैर्युक्ता पुरा तेन संहिता विविधा कृता । यज्ञार्थं ब्राह्मणं प्रोक्तं योगार्थं यदरण्यकम् ॥१०॥ पैलं शिष्यं महाबुद्धिमृग्वेदे भेदधारकम् । वैशंपायनमेवं स यजुषां भेदधारकम् ॥११॥ जैमिनिं सामवेदस्य पारगं प्रचकार ह । अथर्वधारकं विप्रं सुमंतुं मुनिसत्तमः ॥१२॥ तेन चाष्टौ कृता भेदा ऋग्वेदस्य महात्मना । षडशीतिः कृता भेदा यजुर्वेदस्य वै तथा ॥१३॥ एकं सहस्रं शाखानां सामवेदस्य वै कृतम् । अथर्वणस्तथा भेदा कृता नव विवेकिना ॥१४॥ पुराणमेकरूपं वै शिष्याय प्रददौ मुनिः । रोमहर्षणसंज्ञाय सूताय नतरूपिणे ॥१५॥ पुराणस्य कृता भेदा अष्टादश महात्मना । पुराणोपपुराणाख्या द्विविधा संहिता स्मृता ॥१६॥ ब्राह्मं च वैष्णवं पाद्मं शैवं
भागवतं तथा । भविष्यं ब्रह्मवैवर्तं मार्कण्डेयं च वामनम् ॥१७॥ आग्नेयं वायवं मात्स्यं वाराहं कौर्ममेव च । लैङ्गं गारुडकं स्कांदं ब्रह्मांडं च प्रजापते ॥१८॥ अष्टादश पुराणानि कथितानि विशेषतः । तथैवोपपुराणानि कथयामि प्रजापते ॥१९॥ गाणेशं नारदीयं च नारसिंहं च कापिलम् । नांदिकेयं च वारुण्यं दौर्वाससमथांबिकम् ॥२०॥ कालिकेयं च मारीचंमौशनसं च भार्गवम् । सानत्कुमारकं चैव कौमारं च प्रजापते ॥२१॥ माहेश्वरं च सौरं वै पाराशर्यं च मौद्गलम् । अष्टादश पुराणानि कथितानि समासतः ॥२२॥ धर्माधर्मव्यवस्थार्थं चक्रे भारतमुत्तमम् । एतत्सर्वं स जग्राह व्यासात् सूतो महामतिः॥२३॥ एतानि गाणपत्यानि ज्ञातव्यानि विचक्षणैः। अन्यानि सेतिहासानि गणेशस्तुतिमंति वै॥२४॥ श्रुत्वा सुवचनं तस्य मोहिता मुनयः पुनः । ऊचुः सूतं महाप्रज्ञं संशयच्छेदनाय ते ॥२५॥ शौनकाद्या ऊचुः । कथं सूत शिवादीनां पुराणानि महामते । प्रोक्तानि गाणपत्यानि वद संशयमुक्तये ॥२६॥ तेषां वचनमाकर्ण्य सूतः सर्वार्थकोविदः । जगाद तान् महाबुद्धिः संशयच्छेदनं वचः ॥२७॥ सूत उवाच । गणेशस्य स्वरूपं यत् पंचधा व्यासभाषितम् । ज्ञातव्यं मुनिशार्दूलास्तेषां भेदं वदाम्यहम् ॥२८॥ आद्यं ब्राह्मं पुराणं यद्गाणपत्यं प्रकीर्तितम् । निर्गुणो गणपस्तत्र वर्णितो ब्रह्मवाचकः ॥२९॥ हृदयेषु जनानां वै बुद्धीनां यत् प्रकाशकृत् । तदेव तस्य रूपं तद्ध्यायन्ति त्यागिनः प्रभोः ॥३०॥ आकारादि विहीनं तत् साक्षिभूतं सदा परम् । मनोवाणीविहीनं च ज्ञातव्यं न्यासिभिर्मुने ॥३१॥ तं ध्यायन्ति महाभागा योगिनश्च चतुर्विधाः । संन्यासिनो हृदिस्थं ते गणेशं बुद्धिचालकम् ॥३२॥ अन्यदंत्यं पुराणं यद्ब्रह्मांडं गणपस्य तत् । तत्रोंकारमयाकारः सगुणो वर्णितः प्रभुः ॥३३॥ जगद्विहारकारी स पंचधा प्रबभूव ह । प्रणवः प्रणवाकारो गजानन उदाहृतः ॥३४॥ अकारोकारकौ चैव मकारो नाद आबभौ । बिंदुः पंच विभज्यात्मा नानाखेलं करोति सः ॥३५॥ जगदाकाररूपेण स्थितं विघ्नेशमादरात् । ध्यायन्ति जगदात्मानं प्रणवाकृतिलक्षणम् ॥३६॥ स्मरंति तं द्विजा नित्यं वेदादौ कर्मसिद्धये । ब्रह्मांडाकारविघ्नेशः सगुणः परिकीर्तितः ॥३७॥ तथैवोपपुराणेषु गाणेशं चाद्यमंजसा । पुराणं तद्गणेशस्य भिन्नमूर्तिधरस्य च ॥३८॥ सगुणं जगदाकारं निर्गुणं बुद्धिचालकम् । तयोर्ज्ञानप्रसिद्ध्यर्थं मूर्तिमंतं स्तुवंति ते ॥३९॥ गजवक्रादिचिह्नैश्च चिह्नितं गणनायकम् । मंत्रादिना भजंते तं भावयुक्ता महर्षयः ॥४०॥ तस्योपासनमात्रेण सगुणं निर्गुणं तथा । सुलभं प्राप्यते ब्रह्म योगिभिस्तापसोत्तमैः ॥४१॥ अंत्यं मौद्गलमेतच्च पुराणोपनिषत्परम् । तत्र विघ्नेशमाहात्म्यं योगाकारं
[शीर्षक: खं. २ अ. ३५ | पान ७३]
प्रकीर्तितम् ॥४२॥ सगुणं निर्गुणं ब्रह्म मूर्तिरूपधरं मुने । त्रयाणां योगरूपं वै मुद्गलेन प्रकाशितम् ॥४३॥ योगिनः शुकमुख्यास्तं प्रभजंति यथातथम् । योगेनाभेदसंज्ञेन वर्णाश्रमविवर्जिताः ॥४४॥ तस्मादादौ गणेशस्य पूजनं सर्वसंमतम् । अंते सोऽपि न संदेहो वेदांतेषु विशेषतः ॥४५॥ य आदिः प्रलयांते स तिष्ठेद्वै सर्वसंमतम् । तस्मादाद्यंतभागेषु पुराणेषु गणेश्वरः ॥४६॥ पंचमं मध्यरूपं च गणेशस्य महात्मनः । कलांशेन प्रसंख्यातं नामरूपधरं मुने ॥४७॥ शिवविष्णुवादिभेदैश्च स खेलति गजाननः । तेषां मध्ये पुराणानि व्यासेन कथितानि वै ॥४८॥ तस्मात् सर्वपुराणेषु गणेशस्यैव वर्णनम् । कथितं नात्र संदेहो व्यासेनामितबुद्धिना ॥४९॥ इदं पंचविधं रूपं गणेशस्य महात्मनः । यो जानाति नरः सोऽपि मोहहीनो भविष्यति ॥५०॥ चतुर्विधं गणेशस्य पूजनं कथितं सदा । सर्वारंभेषु सिद्धीनां दायकं भक्तिकारिणे ॥५१॥ मूर्तिपूजनमेकं च द्वितीयं प्रणवात्मकम् । तृतीयं बुद्धिदं चैव शांतिरूपं चतुर्थकम् ॥५२॥ अत आदौ जनाः केचिद् ग्रंथेषु ब्रह्मरूपकम् । स्मरंति वा पूजयंति सर्वसिद्धिप्रदायकम् ॥५३॥ केचिद् बुद्धिप्रदं देवं हृदिस्थं संस्मरंति वा । पूजयंति द्विजेंद्राद्याः सर्वदा गणनायकम् ॥५४॥ केचिदोंकाररूपं तं पूजयंति स्मरंति वा । सर्वादौ सर्वसिद्धीनां दायकं विघ्ननायकम् ॥५५॥ केचित् मूर्तिधरं देवं पूजयंति स्मरंति वा । सर्वादौ गणनाथं च ज्ञातव्यं शास्त्रसंमतम् ॥५६॥ अत आदौ तथा मध्ये सर्वांते स गजाननः । शोभते योगरूपेण शांतिदो भक्तवत्सलः ॥५७॥ ब्रह्मणा बोधितो व्यासो गाणपत्यः प्रतापवान् । गणेशप्राप्तिकामार्थं नानाभेदं चकार सः ॥५८॥ वासनाच्छेदनार्थं च जनानां योगसिद्धये । शिवादीनां पुराणानि क्रमार्थं वर्णितानि वै ॥५९॥ एतद्व्यासस्य माहात्म्यं कथितं सकलं तव । यः शृणोति नरो भक्त्या पठेद्वा तस्य सर्वदम् ॥६०॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते व्यासमाहात्म्यं नाम चतुस्त्रिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । व्यासस्याऽपि सुतो जज्ञे शुकः साक्षाच्छिवः स्वयम् । तपसाराधितस्तेन योगिनां स शिरोमणिः ॥१॥ शुको गर्भाद्विनिःसृत्य संगभीत्याऽपलायत । संगेन ज्ञानभंगो वै जायते विषयात्मनाम् ॥२॥ तं गच्छंतं समालोक्य व्यासो वै धावितोऽभवत् । बोधयन् हेतुभिर्वाक्यैर्नानाक्रममयैः सुतम् ॥३॥ तिष्ठ तिष्ठ महायोगिन् शृणु मे परमं वचः । प्रथमं ब्रह्मचर्यं च ततो गार्हस्थ्यमंजसा ॥४॥ ततो वनाश्रमः प्रोक्तस्ततः सन्यास आदरात् । क्रमेण सेविता
पान ७४
एते तदा योगः सुसिद्ध्यति ॥५॥ अन्यथा सहसा कृत्वा योगभ्रष्टो नरो भवेत् । अथवा भ्रष्टभावेन नारकी धर्मनाशतः ॥६॥ अतो मनोजयार्थं त्वं क्रममार्गं समाचर । अंते योगींद्रसंसेव्यो भविष्यसि न संशयः ॥७॥ सहसा मा चर त्वं वै त्यागं परमदुस्तरम् । मनश्चंचलभावेन पतिष्यसि न संशयः ॥८॥ इत्याद्यैर्विविधैर्वाक्यैः सुतो व्यासेन बोधितः । संगस्यैव भयाद्योगी न बुबोध शुको मुने ॥९॥ व्यासोऽपि भावि च ज्ञात्वा ययौ स्वस्याश्रमं स्वयम् । गणेशं मनसा ध्यात्वा संस्थितश्चिंतयान्वितः ॥१०॥ एतस्मिन्नंतरे तत्र ब्रह्मा स्वयमुपागतः । तं प्रणम्य शुकस्याऽपि वृत्तांतमवदन्मुनिः ॥११॥ ततस्तं प्रत्युवाचाथ ब्रह्मा चिंतां तु मा कुरु । शुको न भविता शंभुर्भ्रष्टो वै नात्र संशयः ॥१२॥ एवमाश्वास्य तं व्यासं तस्य पूजां प्रगृह्य सः । ययौ स्वभवनं ब्रह्मा व्यासो वै हर्षितोऽभवत् ॥१३॥ शुकः स नर्मदातीरे संस्थितो योगसेवया । सर्वत्र ब्रह्मभावेनाचिंतयद्ब्रह्म शाश्वतम् ॥१४॥ संप्रज्ञातोऽष्टधा तेन साधितो वेदमार्गतः । असंप्रज्ञातयोगेषु संस्थितो योगिसत्तमः ॥१५॥ शुक्लेश्वरस्तत्र साक्षाच्छंकरस्तिष्ठति प्रभुः । शिवेन हृदि संस्थेन बोधितो बादरायणिः ॥१६॥ गुरुणा तेन हीनोऽयं शुको योगं समभ्यसत् । योगभूमिक्रमेणैवासाधयद्योगमुत्तमम् ॥१७॥ स्वत उत्थानकं ब्रह्म साधयित्वा विधानतः । प्राप्तं परत उत्थानं तेन सांख्यं महात्मना ॥१८॥ तत्र ब्रह्मणि संसक्तो योगाभेदेन केवले । बभ्राम पृथिवीं सर्वां विदेहोऽसौ महामुनिः ॥१९॥ ब्रह्म सांख्यं निराधारं दृष्ट्वा संशयवान्भूत । तदर्थं जनकं सोऽपि ययौ हर्षसमन्वितम् ॥२०॥ जनकेन तथा सांख्यं विदेहं कथितं परम् । ततः संशयहीनश्च जातो वैयासकिः प्रभुः ॥२१॥ सांख्ये बोधस्य नाशः स्यात्तत् दृष्ट्वा विस्मितो मुनिः । विचारमकरोचित्ते योगभावेन भावितः ॥२२॥ बोधेनोत्थानकं जंतोर्जायते नात्र संशयः । बोधहीनेन योगेनोत्थानं नास्य भवेत् कदा ॥२३॥ ब्रह्म योगमयं प्रोक्तं तत्रोत्थानविहीनता । उत्थानं विद्यते नैव ब्रह्माकारं प्रवर्तते ॥२४॥ सांख्यं ब्रह्म विदेहत्वान्मत्तं चोपाधिवर्जितम् । न मुख्यं शांतिदं प्रोक्तं योगींद्रैर्योगचिंतकैः ॥२५॥ व्यासेन वेदशाखाश्च कृता भिन्ना महात्मना । पुराणानि विभिन्नानि कृतानि समवेदिना ॥२६॥ अहं तं शरणं यामि तातं शांत्यर्थ- मादरात् । स एव सर्ववित् साक्षाच्छांतिदाता भविष्यति ॥२७॥ विचार्य मतिमानेवं शुको हर्षसमन्वितः । आगत्य निकटे तस्य तं ननाम कृतांजलिः ॥२८॥ तत्र व्यासोऽपि योगिभ्यः प्रावद्यॊगमुत्तमम् । तं श्रुत्वा हर्षितो भूत्वा शुको वच उवाच तम् ॥२९॥ स्वामिञ्छृणु मदीयं वै प्रश्नं योगप्रसिद्धये । शांतियोगस्य दाता कः कीदृशो योग उत्तमः ॥३०॥
खं. २ अ. ३६ | पान ७५
वद मां करुणासिंधो योगिभ्यो योगदायक । योगींद्रस्त्वं न संदेहो आंतोऽहं अमितोऽभवम् ॥३१॥ शुकस्य वचनं श्रुत्वा तं व्यासः प्रत्युवाच ह । शृणुष्व त्वं महाभाग योगं शांतिप्रदायकम् ॥३२॥ गणेशः शांतिरूपश्च योगशांतिप्रदायकः । तं भजस्व महायोगिन् तेन शांतो भविष्यसि ॥३३॥ ब्रह्मणा बोधितोऽहं तं भजामि गणनायकम् । तेन सर्वज्ञतां यातो योगींद्रैः सेवितोऽभवम् ॥३४॥ गणो धातुः समूहे च कथितो नात्र संशयः । बाह्यांतरादिसंयोगे समूहो भवति प्रभो ॥३५॥ ब्रह्मरूपाः समूहाश्च तेषां स्वामी गणेश्वरः । संयोगायोगयोगेन प्राप्यते योगिभिः परः ॥३६॥ एवमुक्त्वा गणेशस्य वेदपादस्तवं ददौ । रचितं विष्णुना पूर्वं शांतियोगप्रदायकम् ॥३७॥ येन विष्णुः सुशांतोऽभूदिहलोके सुखात्मकः । जातः पालकभावेन भगवन्नामधारकः ॥३८॥ प्रगृह्य साधयामास शुकस्तं परमाद्भुतम् । गाणपत्यो बभूवाथ योगिवंद्यो महाद्युतिः ॥३९॥ नित्यं गणेशमाहात्म्यं वेदपादस्तवं शुकः । जपति स्नेहभावेन दिवानक्तमखंडितम् ॥४०॥ एतच्छुकस्य माहात्म्यं कथितं ते प्रजापते । पठते शृण्वते सर्वसुखदं प्रभवेत् परम् ॥४१॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते शुकोपाख्यानं नाम पंचत्रिंशोऽध्यायः ॥ ➔ ❖ ❖ ❖ ⬅ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । त्रयः पुत्रा अंगिरसो बभूवुर्ब्रह्मवादिनः । गाणपत्या महाभागाः सर्वज्ञाः सुखदायिनः ॥१॥ उतथ्यः प्रथमः प्रोक्तो द्वितीयस्तु बृहस्पतिः । संवर्तश्च तृतीयोऽभूद्योगशास्त्रपरायणः ॥ २ ॥ शिक्षितोंगिरसा पुत्र उतथ्यः स्वल्पकालतः । ब्रह्मभूतोऽभवत्सद्यो गाणपत्यो विशेषवित् ॥३॥ बृहस्पतिः क्रमेणैव योगभूमिविशारदः । भूमीनां साधने सक्तोऽभवच्छैवः स्वभावतः ॥४॥ तत्र स्वाधीनतां दृष्ट्वा शांत्यर्थं शंकरं ययौ । शिवेन गणराजस्य मंत्रो दत्तः षडक्षरः ॥५॥ शांतियोगस्य रूपं यत् कथितं तत् सविस्तरात् । शिवं नत्वा वनं सोऽपि ययौ तप्तबृहस्पतिः ॥६॥ स नित्यं गणपं ध्यात्वा- ऽपूजयत्तं विधानतः । दर्शनार्थं गणेशस्य लालसाभून्महामतेः ॥७॥ योगमार्गेण योगी स जातः शांतिधरः स्वयम् । गाणपत्यत्वमापन्नः शिवतुल्यो बृहस्पतिः ॥८॥ तुष्टस्तदा गणेशानो ययौ तस्याश्रमं प्रभुः । स्तुतः संपूजितस्तेन तुतोष गणनायकः ॥९॥ अखंडभक्तिभावं स ददौ तस्मै महात्मने । अंतर्धाय स्वमात्मानं गणेशः स्वालयं ययौ ॥ १०॥ प्रकथ्यते
पान ७६ महायोगी तदारभ्य बृहस्पतिः । ब्रह्मिष्ठानामयं श्रेष्ठो विभूतिपद्मागतः ॥११॥ संवर्तः प्रथमं योगी द्वेषितो वै विशेषतः । यत्र तत्र विभागार्थं गुरुणा भ्रातृभावतः ॥१२॥ स संसारं परित्यज्य नग्न उन्मत्तवत् स्वयम् । सहजं ब्रह्म काशीस्थो ध्यायद्वै शांकरं सदा ॥१३॥ ततः कदाचिद्राजेंद्रो मरुत्तो यज्ञकाम्यया । उपाध्यायं ययौ राजा स्वर्गस्थं तं बृहस्पतिः ॥१४॥ तद्वृत्तांतं समादाय देवेंद्रः प्राब्रवीद् गुरुम् । मत्स्पर्धिनं मरुत्तं मा यजस्व त्वं बृहस्पते ॥१५॥ देवानां वा मनुष्याणामेकपक्षधरो भव । तस्यैव वचसा राजा त्यक्तः स गुरुणा महान् ॥१६॥ मरुत्तं क्षुभितं ज्ञात्वा तं ययौ नारदो मुनिः । काश्यां संवर्तकं राजन्नानीय कुरु सद्गुरुम् ॥१७॥ जडोन्मत्तस्वभावेन स तिष्ठति मुनीश्वरः । प्रातःकाले प्रणामार्थं शंकरस्य च गच्छति ॥१८॥ शवं तत्र समागृह्य तिष्ठ त्वं द्वारि भूमिपम् । विमुखश्चात्महीनं तं दृष्ट्वा गच्छति विप्रपः ॥१९॥ एवमुक्त्वा गतो योगी नारदः सोऽपि हर्षितः । तथा चकार धर्मज्ञः काश्यां गत्वा नराधिपः ॥ २० ॥ दृष्ट्वा नग्नं ननामाऽसौ स्वगुरुं तत्र भूमिपः । छलित्वेष्ट्या दक्ष न मुमोच तथाऽपि तम् ॥२१॥ संवर्तस्तस्य वृत्तांतं श्रुत्वा स्वयमुपागतः । यज्ञार्थं तस्य राजर्षेरुपाध्यायो बभूव ह । जीवेन तस्य वृत्तांतो ज्ञातस्तेनापि भूमिपः ॥ २२ ॥ छलितोऽहं भविष्यामि गुरुस्ते त्यज मेऽनुजम् ॥ २३ ॥ मरुत्तेन त्वदीयं वै न गृहीतं वचस्तदा । गुरुणा प्रेरितो देव इंद्रो वज्रं समाक्षिपत् ॥ २४ ॥ संवर्तेन च तद्वज्रं कृतं मोघं समाधिना । शरणं तद्व्यादिंद्रो ययौ देवगणैः स तम् ॥२५॥ ततो देवगणैस्तेन मुनिभिः संस्कृतो मखः । समाप्य यज्ञमेतस्य संवर्तः स्वस्थलं ययौ ॥२६॥ समाधितत्परत्वेन ज्ञातं तेनापि शांभवम् । स्वाधीनं तद्भवेन्मुख्यं ब्रह्मशांतिप्रदं कदा ॥२७॥ ययावंगिरसं प्रष्टुं तेन योगः प्रकाशितः । शांतियोगमयः साक्षाद्गणेशः परमाद्भुतः ॥२८॥ संवर्तेन तथा दक्ष साधितो योग उत्तमः । शांतिरूपधरो योगी संवर्तः प्रबभूव ह ॥२९॥ आगत्य संस्थितः सोऽपि क्षेत्रे स्वानंदकूपिणि । मयूरेशं सदा तत्र सिषेवे भक्तितत्परः ॥३०॥ तेषां पुत्रा महाभागा जाताः सर्वज्ञसंमताः । क्रमेणांते च ते सर्वे गाणपत्या बभूविरे ॥३१॥ प्रोक्ता दीर्घतमस्कायास्तेषां पुत्रादिभिस्तथा । गणेशो मनसा भक्त्याऽखंडभावेन संधृतः ॥३२॥ गौतमस्तत्र मुख्यश्च शांतिमार्गपरायणः । विख्यातो मुनिवर्गेषु स बभूव प्रजापते ॥३३॥ कदाचित् पृथिवीमध्ये ह्यनावृष्टिः सुदारुणा । बभूव द्वादशाब्दान् या तया संपीड़ितं जगत् ॥३४॥ पीडां दृष्ट्वा जनानां स दयायुक्तो बभूव ह । गौतमं शंकरं देवं वृष्टिहेतोर्नुनोद सः ॥३५॥ ततस्तं शंकरः साक्षादवोचद् भक्तमुत्तमम् ।
खं. २ अ. ३६ पान ७७ अनावृष्टिः कृता मुख्या कालेन ब्रह्मरूपिणा ॥३६॥ चालितुं न समर्थस्तं कोऽपि ब्रह्मांडमंडले । अतोभिमानमुत्सृज्य तिष्ठ त्वं मुनिसत्तम ॥३७॥ शिवस्य वचनं श्रुत्वा दुःखितस्तमुवाच ह । गौतमो मुनिवर्यश्च विस्मितोऽभूत् स मानसे ॥३८॥ गौतम उवाच । किमिदं नाथ वदसि त्वमीशः सर्वसंमतः । कुरु मे वाञ्छितं नोचेद्देहत्यागं करोम्यहम् ॥३९॥ गौतमस्याभिमानं तं दृष्ट्वा शंभुः सुविस्मितः । भावं ज्ञात्वा स्वयं प्राह गौतमं मुनिसत्तमम् ॥४०॥ शृणु गौतम माहात्म्यं देहं त्यजसि वै वृथा । विनायकं भजस्व त्वं तेन सर्वं भविष्यति ॥४१॥ नायकेन विहीनोऽयं सर्वेषां स विशेषतः । नायकस्तेन नामाऽभूद्विनायक इति स्फुटम् ॥४२॥ वयं तदाज्ञया सर्वे वर्तेमहि न संशयः । गमनं वेदमार्गेणास्माकं सर्वत्र संमतम् ॥ ४३ ॥ उत्पथे गमनं नश्चेत्तदा विघ्नं करोति सः । अतस्त्वं विघ्नराजं च शरणं गच्छ गौतम ॥४४॥ एवमुक्त्वा महादेवो ददौ तस्मै षडक्षरम् । मंत्रराजं गणेशस्य विधानं तस्य चोत्तमम् ॥४५॥ गौतमस्तं प्रणम्यादौ तपसे वनमाययौ । समाधिना महोग्रेण तोषयामास विघ्नपम् ॥४६॥ एवं वर्षेण तं ढुंढिर्ययौ दातुं वरं प्रभुः । तं दृष्ट्वा हर्षितोऽत्यंतं ननाम मुनिसत्तमः ॥४७॥ अथर्वशिरसा तेन संस्तुतो गणनायकः । प्रसन्नस्तमुवाचैवं वचनं ब्रूहि वाञ्छितम् ॥४८॥ स वव्रे यदि तुष्टोऽसि भक्तिं देहि दृढां त्वयि । गाणपत्यं च संपूर्णं मां कुरुष्व गजानन ॥४९॥ अनावृष्टिभवं दुःखं जहि देव विनायक । एतमेव वरं याचे वाञ्छितं नात्र संशयः ॥५०॥ तमुवाच गणाध्यक्षस्त्वयोक्तं मुनिसत्तम । तवाश्रमेऽधुना सर्वं भविष्यति न संशयः ॥५१॥ सायंकाले च बीजेभ्यः क्षिप्तेभ्यो भूमिमंडले । सस्यानां वै समुत्पत्तिः प्रातःकाले भविष्यति ॥५२॥ तैर्धान्यैर्नित्यमेव त्वं पोषयस्व महामुनीन् । समागतान् तथाभूतान् समये मुनिसत्तम ॥५३॥ नित्यं प्रमुदिताः सर्वे भविष्यंति तवाश्रमे । समागता नराः सर्वेऽनावृष्टेर्दुःखवर्जिताः ॥५४॥ मदीया भक्तिरचला भविष्यति तथा परा । योगशांतिधरः पूर्णो भावी त्वं मत्प्रसादतः ॥५५॥ एवमुक्त्वा गणेशानो गतः स्वानंदके पुरे । गौतमो गाणपत्यश्च तद्दिनात् संबभूव ह ॥५६॥ स मुनिः स्वाश्रमे गत्वा चकार गणपोदितम् । अनावृष्टिभवं दुःखं जनानां स निराकरोत् ॥५७॥ तत्रागतान् स्वयं विप्रान्नानादिग्भ्यः प्रजापते । तान् सर्वान् पोषयामास धान्यैर्नित्यसमुद्भवैः ॥५८॥ क्रमेण द्वादशाब्दास्ते गता वै दुस्तरा मुने । तत्र सर्वत्र संजाता वृष्टिर्वै दुःखहारिणी ॥५९॥ ततो मुनिगणैः सर्वैर्विपरीतं विचारितम् । गौतमेन वयं सर्वे पोषिता नात्र संशयः ॥ ६०॥ सर्वेषु गौतमो धन्यस्तदुत्कर्षो भविष्यति ।
खं. २ अ. ३६ पान ७८ ☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸ अत उत्कर्षनाशार्थं कर्तव्यं किं द्विजोत्तमाः ॥६१॥ ततस्तैर्मायया गौश्च कृत्वा गौतमसंनिधौ । प्रेषिता सा हुतद्रव्यं भक्षयामास वै मुनेः ॥६२॥ गौतमेन स्वहस्तेन ताडिता मृदुभावतः । स्पृष्टमात्रा ममाराऽसौ पतिता गौर्धरातले ॥६३॥ ततो हा हा कृतं सर्वैर्ब्राह्मणैश्छद्मदर्शिभिः । गौतमस्याश्रमे सर्वैरापृच्छ्य गमनं कृतम् ॥६४॥ गौतमेन तपः कृत्वा प्रार्थिता स्वर्गवाहिनी । त्र्यंबकस्य शिरःसंस्था प्रादुर्भूता च तत्क्षणात् ॥ ६५॥ तत्र स्नानेन सद्यो वै पवित्रो गौतमोऽभवत् । गोवधादिमहापापं गच्छति स्नानमात्रतः ॥६६॥ ततः कदाचिद्विप्रेन्द्रो गौतमो ध्यानमाश्रितः । विचारमकरोञ्चित्ते ज्ञात्वा तेषां विचेष्टितम् ॥६७॥ छलनार्थं द्विजैः सर्वैर्निर्मिता गौश्च मायया । ततः कोपपरीतांगः शशाप ब्राह्मणान् मुनिः ॥६८॥ वेदबाह्या भविष्यंति कृतघ्ना ये महर्षयः । मदीयच्छलनेनैव पातकेन न संशयः ॥६९॥ ततस्ते शापयोगेन भ्रांता जाता महर्षयः । ज्ञात्वाऽकस्माद् द्विजाः शापं संभीता अभवंस्ततः ॥७०॥ शंकरं शरणं सर्वे ययुर्देवं महर्षयः । शंकरः स्मरणं चक्रे विष्णोश्चैव सुविस्मितः ॥७१॥ समागतं महाविष्णुं पप्रच्छ द्विजसौख्यदम् । मार्गं ततो हरिः शंभुमुवाच वचनं हितम् ॥७२॥ विष्णुरुवाच । वेदबाह्याद्विजानां यत्कर्म सर्वं निरर्थकम् । न गतिः कुत्र देहांते तेषां शंभो न संशयः ॥७३॥ अतस्तेषां हितार्थाय ग्रंथाः कार्याः सदाशिव । मोहदाश्च जनानां ते भजतां नरकप्रदाः ॥७४॥ ततः शिवेन वामं च तंत्रं तत्र प्रकाशितम् । विष्णुना बौद्धशास्त्रं वै रचितं मोहदायकम् ॥७५॥ ऋषिभिश्च तथान्यानि शास्त्राणि रचितानि वै । कापालादीनि भो दक्ष मोहदानि विशेषतः ॥७६॥ फलानि तत्र दत्तानि भजतां शंभुनामुना । विष्णुना ब्राह्मणानां च कृतघ्नानां हिताय वै ॥७७॥ नरा ये तानि सेवन्ते नारकाः संभवंति ते । इहामुत्र विहीनाश्च शास्त्राधारप्रवर्तिनः ॥७८॥ जनानां भजतां सर्वे पापांशास्ते महर्षयः । स्वल्पकालेन नष्टाः स्युः कलौ जन्मधरास्ततः ॥७९॥ तत्र ते पापकम्माणो भविष्यंति विशेषतः । तेषु मार्गेषु संसक्ताः प्रपतिष्यंति रौरवे ॥८०॥ पुनः शुद्धा भविष्यंति नराः कृतयुगे प्रभो । तत्रैव योगमार्गेण गमिष्यंत्यपुनर्भवम् ॥८१॥ एवं तेषां हितार्थाय शिवाद्यै रचितानि वै । शास्त्राणि चतुरैस्तानि न सेव्यानि कदाचन ॥८२॥ वेदाधारयुतं शास्त्रं तदेव सुखदं परम् । तेन हीनं च यच्छास्त्रं मोहकं नरकप्रदम् ॥८३॥ न सेव्यं मानवैः सर्वैः कलिदोषविवर्जितैः । युक्तं गौतमशापेन महाभयंकरं मतम् ॥८४॥ कलौ पापा विभूमानो ☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸
भविष्यंति महर्षयः । नरस्तैः कथितं शास्त्रं नवामादिकमाचरेत् ॥८५॥ इदं गौतममाहात्म्यं यः शृणोति नरो भवेत् । पठेद्वा मलहीनः सन्निहामुत्र सुखी परम् ॥ ८६ ॥ ॥ ओमिति श्रीमदान्ते पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते गौतमचरितं नाम षट्त्रिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । दितेः पुत्रौ महावीर्यौ कश्यपात् संबभूवतुः । संध्यायामृतुदानेन दैत्यौ परमदारुणौ ॥१॥ ताभ्यां तप्तं तपो घोरं दिव्यवर्षसहस्रकम् । तयोस्तपःप्रभावेण ब्रह्मा तु वरदोऽभवत् ॥२॥ मरणं सर्वभूतेभ्यो न भवेदीप्सितं वरम् । ताभ्यां दत्त्वा स्वयं ब्रह्मा स्वस्थानमगमत् पुनः ॥३॥ सायंकालं च शुष्कार्द्रं विस्मरंतौ महासुरौ । तदेव मरणस्थानं तयोर्जातं प्रजापते ॥४॥ वरप्रभावतस्ताभ्यां सर्वं त्रिभुवनं जितम् । हिरण्यकशिपुर्ज्येष्ठश्चक्रे वै राज्यमुत्तमम् ॥५॥ कर्ममार्गं द्विषन् सर्वं देवब्राह्मणदुःखदः । राज्यं चक्रे सुदुष्टात्मा परस्त्रीमद्यलालसः ॥६॥ उपोषणेन संयुक्ता देवा इंद्रपुरोगमाः । ब्रह्माणं ते पुरस्कृत्य शरण्यं विष्णुमाययुः ॥७॥ ततश्च विष्णुना तत्र धृतं रूपं भयप्रदम् । नारसिंहं महोग्रं वै सर्वेभ्यो भयदायकम् ॥८॥ आययौ दैत्यराजस्य नगरे क्रोधसंयुतः । शब्दैः स भुवनं घोरैर्नादयामास तत्क्षणात् ॥९॥ भीता दैत्यगणाः सर्वे शशंसुस्तस्य चेष्टितम् । राज्ञे श्रुत्वा वचस्तेषां हिरण्यकशिपुः स्वयम् ॥१०॥ दैत्यैः समावृतो योद्धुं ययौ तेन महाबलः । क्रूरः समागतः सोऽपि नृसिंहाकृतिधारकः ॥११॥ मेरुमंदरसंकाशं वपुर्यस्य विराजितम् । तेजसा वह्निसंकाशो योद्धुकामो सुरैः प्रभो ॥१२॥ प्रह्लादप्रमुखैः पुत्रैः संवृतो दैत्यसत्तमः । नृसिंहं योधयामास शस्त्रास्त्रैर्मर्मभेदिभिः ॥१३॥ नृसिंहेन हता दैत्या बहवो रणमंडले । शोणितौघवहा नद्यः संप्रवृत्ता दिशो दश ॥१४॥ खङ्गादिभिर्महास्त्रैश्च नखैर्युक्तः स देवराट् । नृसिंहो युयुधे तत्र प्रलयाग्निसमो बभौ ॥१५॥ तं दृष्ट्वा पूर्वसंस्कारात् प्रह्लादस्य महात्मनः । वैष्णवं ज्ञानमत्यंतं प्रादुर्भूतं विशेषतः ॥१६॥ एतस्मिन्नंतरे तत्र गदया ताडितः प्रभुः । नृसिंहो दैत्यराजेन पतितो मूर्च्छया भृशम् ॥१७॥ द्विमुहूर्तात् सुसंभूतः स्वस्थदेहो महाबलः । अशक्तं मानयामासात्मानं तेन पलायत ॥१८॥ हिरण्यकशिपुः सर्वैर्विजयी स्वगृहं ययौ । चकार विष्णुभक्तिं वै प्रह्लादो भावसंयुतः ॥१९॥ पितरं बोधयामास विष्णुमानंदरूपिणम् । शरणं याहि