मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 204, कुल 1023 में से
संदर्भ में पढ़ेंखं. २ अ. ३६ पान ७८ ☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸ अत उत्कर्षनाशार्थं कर्तव्यं किं द्विजोत्तमाः ॥६१॥ ततस्तैर्मायया गौश्च कृत्वा गौतमसंनिधौ । प्रेषिता सा हुतद्रव्यं भक्षयामास वै मुनेः ॥६२॥ गौतमेन स्वहस्तेन ताडिता मृदुभावतः । स्पृष्टमात्रा ममाराऽसौ पतिता गौर्धरातले ॥६३॥ ततो हा हा कृतं सर्वैर्ब्राह्मणैश्छद्मदर्शिभिः । गौतमस्याश्रमे सर्वैरापृच्छ्य गमनं कृतम् ॥६४॥ गौतमेन तपः कृत्वा प्रार्थिता स्वर्गवाहिनी । त्र्यंबकस्य शिरःसंस्था प्रादुर्भूता च तत्क्षणात् ॥ ६५॥ तत्र स्नानेन सद्यो वै पवित्रो गौतमोऽभवत् । गोवधादिमहापापं गच्छति स्नानमात्रतः ॥६६॥ ततः कदाचिद्विप्रेन्द्रो गौतमो ध्यानमाश्रितः । विचारमकरोञ्चित्ते ज्ञात्वा तेषां विचेष्टितम् ॥६७॥ छलनार्थं द्विजैः सर्वैर्निर्मिता गौश्च मायया । ततः कोपपरीतांगः शशाप ब्राह्मणान् मुनिः ॥६८॥ वेदबाह्या भविष्यंति कृतघ्ना ये महर्षयः । मदीयच्छलनेनैव पातकेन न संशयः ॥६९॥ ततस्ते शापयोगेन भ्रांता जाता महर्षयः । ज्ञात्वाऽकस्माद् द्विजाः शापं संभीता अभवंस्ततः ॥७०॥ शंकरं शरणं सर्वे ययुर्देवं महर्षयः । शंकरः स्मरणं चक्रे विष्णोश्चैव सुविस्मितः ॥७१॥ समागतं महाविष्णुं पप्रच्छ द्विजसौख्यदम् । मार्गं ततो हरिः शंभुमुवाच वचनं हितम् ॥७२॥ विष्णुरुवाच । वेदबाह्याद्विजानां यत्कर्म सर्वं निरर्थकम् । न गतिः कुत्र देहांते तेषां शंभो न संशयः ॥७३॥ अतस्तेषां हितार्थाय ग्रंथाः कार्याः सदाशिव । मोहदाश्च जनानां ते भजतां नरकप्रदाः ॥७४॥ ततः शिवेन वामं च तंत्रं तत्र प्रकाशितम् । विष्णुना बौद्धशास्त्रं वै रचितं मोहदायकम् ॥७५॥ ऋषिभिश्च तथान्यानि शास्त्राणि रचितानि वै । कापालादीनि भो दक्ष मोहदानि विशेषतः ॥७६॥ फलानि तत्र दत्तानि भजतां शंभुनामुना । विष्णुना ब्राह्मणानां च कृतघ्नानां हिताय वै ॥७७॥ नरा ये तानि सेवन्ते नारकाः संभवंति ते । इहामुत्र विहीनाश्च शास्त्राधारप्रवर्तिनः ॥७८॥ जनानां भजतां सर्वे पापांशास्ते महर्षयः । स्वल्पकालेन नष्टाः स्युः कलौ जन्मधरास्ततः ॥७९॥ तत्र ते पापकम्माणो भविष्यंति विशेषतः । तेषु मार्गेषु संसक्ताः प्रपतिष्यंति रौरवे ॥८०॥ पुनः शुद्धा भविष्यंति नराः कृतयुगे प्रभो । तत्रैव योगमार्गेण गमिष्यंत्यपुनर्भवम् ॥८१॥ एवं तेषां हितार्थाय शिवाद्यै रचितानि वै । शास्त्राणि चतुरैस्तानि न सेव्यानि कदाचन ॥८२॥ वेदाधारयुतं शास्त्रं तदेव सुखदं परम् । तेन हीनं च यच्छास्त्रं मोहकं नरकप्रदम् ॥८३॥ न सेव्यं मानवैः सर्वैः कलिदोषविवर्जितैः । युक्तं गौतमशापेन महाभयंकरं मतम् ॥८४॥ कलौ पापा विभूमानो ☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸