मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 203, कुल 1023 में से
संदर्भ में पढ़ेंखं. २ अ. ३६ पान ७७ अनावृष्टिः कृता मुख्या कालेन ब्रह्मरूपिणा ॥३६॥ चालितुं न समर्थस्तं कोऽपि ब्रह्मांडमंडले । अतोभिमानमुत्सृज्य तिष्ठ त्वं मुनिसत्तम ॥३७॥ शिवस्य वचनं श्रुत्वा दुःखितस्तमुवाच ह । गौतमो मुनिवर्यश्च विस्मितोऽभूत् स मानसे ॥३८॥ गौतम उवाच । किमिदं नाथ वदसि त्वमीशः सर्वसंमतः । कुरु मे वाञ्छितं नोचेद्देहत्यागं करोम्यहम् ॥३९॥ गौतमस्याभिमानं तं दृष्ट्वा शंभुः सुविस्मितः । भावं ज्ञात्वा स्वयं प्राह गौतमं मुनिसत्तमम् ॥४०॥ शृणु गौतम माहात्म्यं देहं त्यजसि वै वृथा । विनायकं भजस्व त्वं तेन सर्वं भविष्यति ॥४१॥ नायकेन विहीनोऽयं सर्वेषां स विशेषतः । नायकस्तेन नामाऽभूद्विनायक इति स्फुटम् ॥४२॥ वयं तदाज्ञया सर्वे वर्तेमहि न संशयः । गमनं वेदमार्गेणास्माकं सर्वत्र संमतम् ॥ ४३ ॥ उत्पथे गमनं नश्चेत्तदा विघ्नं करोति सः । अतस्त्वं विघ्नराजं च शरणं गच्छ गौतम ॥४४॥ एवमुक्त्वा महादेवो ददौ तस्मै षडक्षरम् । मंत्रराजं गणेशस्य विधानं तस्य चोत्तमम् ॥४५॥ गौतमस्तं प्रणम्यादौ तपसे वनमाययौ । समाधिना महोग्रेण तोषयामास विघ्नपम् ॥४६॥ एवं वर्षेण तं ढुंढिर्ययौ दातुं वरं प्रभुः । तं दृष्ट्वा हर्षितोऽत्यंतं ननाम मुनिसत्तमः ॥४७॥ अथर्वशिरसा तेन संस्तुतो गणनायकः । प्रसन्नस्तमुवाचैवं वचनं ब्रूहि वाञ्छितम् ॥४८॥ स वव्रे यदि तुष्टोऽसि भक्तिं देहि दृढां त्वयि । गाणपत्यं च संपूर्णं मां कुरुष्व गजानन ॥४९॥ अनावृष्टिभवं दुःखं जहि देव विनायक । एतमेव वरं याचे वाञ्छितं नात्र संशयः ॥५०॥ तमुवाच गणाध्यक्षस्त्वयोक्तं मुनिसत्तम । तवाश्रमेऽधुना सर्वं भविष्यति न संशयः ॥५१॥ सायंकाले च बीजेभ्यः क्षिप्तेभ्यो भूमिमंडले । सस्यानां वै समुत्पत्तिः प्रातःकाले भविष्यति ॥५२॥ तैर्धान्यैर्नित्यमेव त्वं पोषयस्व महामुनीन् । समागतान् तथाभूतान् समये मुनिसत्तम ॥५३॥ नित्यं प्रमुदिताः सर्वे भविष्यंति तवाश्रमे । समागता नराः सर्वेऽनावृष्टेर्दुःखवर्जिताः ॥५४॥ मदीया भक्तिरचला भविष्यति तथा परा । योगशांतिधरः पूर्णो भावी त्वं मत्प्रसादतः ॥५५॥ एवमुक्त्वा गणेशानो गतः स्वानंदके पुरे । गौतमो गाणपत्यश्च तद्दिनात् संबभूव ह ॥५६॥ स मुनिः स्वाश्रमे गत्वा चकार गणपोदितम् । अनावृष्टिभवं दुःखं जनानां स निराकरोत् ॥५७॥ तत्रागतान् स्वयं विप्रान्नानादिग्भ्यः प्रजापते । तान् सर्वान् पोषयामास धान्यैर्नित्यसमुद्भवैः ॥५८॥ क्रमेण द्वादशाब्दास्ते गता वै दुस्तरा मुने । तत्र सर्वत्र संजाता वृष्टिर्वै दुःखहारिणी ॥५९॥ ततो मुनिगणैः सर्वैर्विपरीतं विचारितम् । गौतमेन वयं सर्वे पोषिता नात्र संशयः ॥ ६०॥ सर्वेषु गौतमो धन्यस्तदुत्कर्षो भविष्यति ।