मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 202, कुल 1023 में से
संदर्भ में पढ़ेंपान ७६ महायोगी तदारभ्य बृहस्पतिः । ब्रह्मिष्ठानामयं श्रेष्ठो विभूतिपद्मागतः ॥११॥ संवर्तः प्रथमं योगी द्वेषितो वै विशेषतः । यत्र तत्र विभागार्थं गुरुणा भ्रातृभावतः ॥१२॥ स संसारं परित्यज्य नग्न उन्मत्तवत् स्वयम् । सहजं ब्रह्म काशीस्थो ध्यायद्वै शांकरं सदा ॥१३॥ ततः कदाचिद्राजेंद्रो मरुत्तो यज्ञकाम्यया । उपाध्यायं ययौ राजा स्वर्गस्थं तं बृहस्पतिः ॥१४॥ तद्वृत्तांतं समादाय देवेंद्रः प्राब्रवीद् गुरुम् । मत्स्पर्धिनं मरुत्तं मा यजस्व त्वं बृहस्पते ॥१५॥ देवानां वा मनुष्याणामेकपक्षधरो भव । तस्यैव वचसा राजा त्यक्तः स गुरुणा महान् ॥१६॥ मरुत्तं क्षुभितं ज्ञात्वा तं ययौ नारदो मुनिः । काश्यां संवर्तकं राजन्नानीय कुरु सद्गुरुम् ॥१७॥ जडोन्मत्तस्वभावेन स तिष्ठति मुनीश्वरः । प्रातःकाले प्रणामार्थं शंकरस्य च गच्छति ॥१८॥ शवं तत्र समागृह्य तिष्ठ त्वं द्वारि भूमिपम् । विमुखश्चात्महीनं तं दृष्ट्वा गच्छति विप्रपः ॥१९॥ एवमुक्त्वा गतो योगी नारदः सोऽपि हर्षितः । तथा चकार धर्मज्ञः काश्यां गत्वा नराधिपः ॥ २० ॥ दृष्ट्वा नग्नं ननामाऽसौ स्वगुरुं तत्र भूमिपः । छलित्वेष्ट्या दक्ष न मुमोच तथाऽपि तम् ॥२१॥ संवर्तस्तस्य वृत्तांतं श्रुत्वा स्वयमुपागतः । यज्ञार्थं तस्य राजर्षेरुपाध्यायो बभूव ह । जीवेन तस्य वृत्तांतो ज्ञातस्तेनापि भूमिपः ॥ २२ ॥ छलितोऽहं भविष्यामि गुरुस्ते त्यज मेऽनुजम् ॥ २३ ॥ मरुत्तेन त्वदीयं वै न गृहीतं वचस्तदा । गुरुणा प्रेरितो देव इंद्रो वज्रं समाक्षिपत् ॥ २४ ॥ संवर्तेन च तद्वज्रं कृतं मोघं समाधिना । शरणं तद्व्यादिंद्रो ययौ देवगणैः स तम् ॥२५॥ ततो देवगणैस्तेन मुनिभिः संस्कृतो मखः । समाप्य यज्ञमेतस्य संवर्तः स्वस्थलं ययौ ॥२६॥ समाधितत्परत्वेन ज्ञातं तेनापि शांभवम् । स्वाधीनं तद्भवेन्मुख्यं ब्रह्मशांतिप्रदं कदा ॥२७॥ ययावंगिरसं प्रष्टुं तेन योगः प्रकाशितः । शांतियोगमयः साक्षाद्गणेशः परमाद्भुतः ॥२८॥ संवर्तेन तथा दक्ष साधितो योग उत्तमः । शांतिरूपधरो योगी संवर्तः प्रबभूव ह ॥२९॥ आगत्य संस्थितः सोऽपि क्षेत्रे स्वानंदकूपिणि । मयूरेशं सदा तत्र सिषेवे भक्तितत्परः ॥३०॥ तेषां पुत्रा महाभागा जाताः सर्वज्ञसंमताः । क्रमेणांते च ते सर्वे गाणपत्या बभूविरे ॥३१॥ प्रोक्ता दीर्घतमस्कायास्तेषां पुत्रादिभिस्तथा । गणेशो मनसा भक्त्याऽखंडभावेन संधृतः ॥३२॥ गौतमस्तत्र मुख्यश्च शांतिमार्गपरायणः । विख्यातो मुनिवर्गेषु स बभूव प्रजापते ॥३३॥ कदाचित् पृथिवीमध्ये ह्यनावृष्टिः सुदारुणा । बभूव द्वादशाब्दान् या तया संपीड़ितं जगत् ॥३४॥ पीडां दृष्ट्वा जनानां स दयायुक्तो बभूव ह । गौतमं शंकरं देवं वृष्टिहेतोर्नुनोद सः ॥३५॥ ततस्तं शंकरः साक्षादवोचद् भक्तमुत्तमम् ।