मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 190, कुल 1023 में से
संदर्भ में पढ़ेंखं. २ अ. ३१ पान ६४ ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । कोऽसौ गजासुरो नाम्ना दैत्यः परमदारुणः । वद तस्य चरित्रं मे वधपर्यन्तमुत्तमम् ॥ १ ॥ यदर्थे गणराजोऽयं मुनिपुत्रोऽभवत्प्रभो । तन्न मुद्गल सामान्यं धन्यं जन्मासुरस्य च ॥२॥ सूत उवाच । दक्षस्य वचनं रम्यं श्रुत्वा योगींद्रसत्तमः । जगाद सकलं तस्य चेष्टितं दैत्यपस्य वै ॥ ३ ॥ मुद्गल उवाच । शृणु दक्ष पुरावृत्तमितिहासं वदामि तम् । पापप्रशमनं पूर्णं भुक्तिमुक्तिफलप्रदम् ॥४॥ महिषासुरनाशं च चकार जगदंबिका । तस्य पुत्रो महातेजा गजासुर इति स्मृतः ॥५॥ पितुर्वधेन संतप्तो देवानां वधकांक्षया । शुक्रोपदिष्टमंत्रेण शंकराराधने रतः ॥६॥ तताप स तपो घोरं निराहारसमन्वितः । पंचाक्षरविधानेन तोषयामास शंकरम् ॥७॥ दशवर्षसहस्रैस्तु प्रसन्नोऽभूच्छिवः स्वयम् । आययौ तं वरं दातुं गजासुरतपोवने ॥८॥ काष्ठवत्संस्थितं दैत्यं दृष्ट्वा विस्मयमागतः । जगाद तं स्वभक्तं वै शंकरः करुणानिधिः ॥९॥ शिव उवाच । वरं वरय मत्तस्त्वं गजासुर महामते । तपसा परितुष्टोऽहं तव दास्यामि दुर्लभम् ॥१०॥ शंकरस्य वचः श्रुत्वा हर्षयुक्तो महासुरः । उपचारैः षोडशभिः प्रणम्यापूजयच्छिवम् ॥११॥ अथर्वाशरसा शंभुं तुष्टावासुरनायकः । वरं वव्रे महाक्रूरं तच्छृणुष्व प्रजापते ॥१२॥ गजासुर उवाच । यदि तुष्टोऽसि देवेश वरं देहि महेश्वर । ब्रह्मांडवासिनः सर्वे तेभ्यो मृत्युर्न मे भवेत् ॥१३॥ राज्यं ब्रह्मांडगोलस्य देहि सामर्थ्यमुत्तमम् । सर्वातिगं महेशान नान्यं याचे परं वरम् ॥१४॥ तथेति तमुवाचाथ शिवोऽतर्धानगोऽभवत् । हर्षयुक्तो महादैत्यस्ततो गेहं समाययौ ॥१५॥ मात्रा संमानितः सोऽपि सुहृद्भिश्च गजासुरः । दैत्याः समाययुः सर्वे गृहे तस्य महात्मनः ॥१६॥ स्वयं गत्वा गुरुं शुक्रमानयामास दैत्यपः । ततो मुनिगणैः सार्धमभिषेकं चकार सः ॥१७॥ दैत्यानां दानवां च राजाभूत् स गजासुरः । तैर्युक्तः पृथिवीं जित्वा ययौ स्वर्गं महाबलः ॥१८॥ देवाः पलायिताः सर्वे ज्ञात्वा क्रूरं गजासुरम् । शंकरं ते समाश्रित्य स्थिताः सर्वे भयातुराः ॥१९॥ दैत्यैः समावृतः सोऽपि कैलासमगमत्ततः । शंकरः क्रोधसंयुक्तस्तं ययौ देवसंवृतः ॥ २० ॥ युद्धाय शंकरं तेनागतं ज्ञात्वा महासुरः । स्वयं सैन्यं पुरस्कृत्याययौ रणविधित्सया ॥२१॥ देवानां दानवानां च युद्धं परमदारुणम् । संजातं च ततो दैत्याः पलायनपरा ययुः ॥२२॥ तं दृष्ट्वा क्रोधसंयुक्तो गजदैत्यः प्रतापवान् । बाणवृष्टिं महोग्रां स ससर्ज सुरनाशिनीम् ॥२३॥ बाणैर्निपतिता- स्तस्य देवाः सर्वे धरातले । छिन्नांगा मरणप्रायाः प्रलयं मेनिरे तदा ॥२४॥ इंद्रादयश्च दिक्पालाः पतिता बाणपीडिताः । गदया विष्णुमहनत् सोऽपि भूतलमाश्रितः ॥२५॥ ततः क्रोधसमायुक्तः शंकरः शूलमाददे । तेनाहनन् महादैत्यं प्रलयाग्नि-