मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 189, कुल 1023 में से
संदर्भ में पढ़ेंखं. २ अ. ३० पान ६३ महाभागो योगिवंद्यो बभूव ह ॥१७॥ वसिष्ठ उवाच । एतत्ते कथितं वत्स शांतियोगप्रदं शुभम् । ज्ञानं तेनैव मार्गेण गणेशं भज भक्तितः ॥१८॥ एवमुक्तः प्रणम्यादौ मुनिं पौत्रः पराशरः । वने गत्वा चकाराऽसौ तपः परमदारुणम् ॥१९॥ पितामहेन यज्ज्ञानं कथितं योगदं महत् । तादृशं साधितं तेन योगभूमिक्रमेण च ॥२०॥ त्यक्त्वा भूमिं स्वयं योगी गाणपत्यो बभूव ह। तस्य पुत्रत्वमापन्नो व्यासो विष्णुः स्वयं प्रभुः ॥२१॥ तथापि मुनिना तेन पत्न्या वत्सलया सह । तपस्तप्तं महाघोरं गणेशस्य महात्मनः ॥२२॥ संकल्पं पुत्रकामार्थं चकार स महामुनिः । गणराजः स्वयं मे वै भविता पुत्र उत्तमः ॥२३॥ दशवर्षसहस्रैस्तं प्रसन्नो गणनायकः । वरं दातुं समायातो भक्तिभावेन तोषितः ॥२४॥ तं दृष्ट्वा सहसोत्थाय प्रणम्य प्रकृतांजलिः । तुष्टाव सुस्थिरो भूत्वा पत्न्या साकमुदारधीः ॥२५॥ पराशर उवाच । नमस्ते गजवक्त्राय नराकाराय ते नमः । नरकुंजररूपाय गणेशाय नमो नमः ॥२६॥ निर्गुणाय गुणाधाररूपिणे परमात्मने । परात्पराय देवायानादिसिद्धाय ते नमः ॥२७॥ अनंताननधारायानंतपाण्यंघ्रिरूपिणे । अनंतविभवायैव गकाराय च ते नमः ॥२८॥ सर्वहीनाय देवाय मायाभ्यां वर्जिताय ते । सदा ब्रह्ममयायैव णकाराय नमो नमः ॥२९॥ तयोश्च स्वामिने तुभ्यं गणेशाय नमो नमः । स्वानंदवासिने पूर्णभुक्तिमुक्तिप्रदाय ते ॥३०॥ किं स्तौमि देवदेवेश वेदवेदांतकादिभिः । संपादितं परं ब्रह्म त्वामतः प्रणमाम्यहम् ॥३१॥ यदि तुष्टोऽसि देवेश तदा पुत्रो भव प्रभो । आवयोर्गणनाथ त्वं तदा मे स्यात् स्थिरं मनः ॥३२॥ अस्माकं कुलदेवश्च त्वमेव गणनायक । ब्रह्मभावेन नित्यं त्वां भजामस्तत्र विघ्नप ॥३३॥ पुत्रभावेन देवेश भजेयं संसृतौ गतः । संसारः सफलस्तेन ब्रह्मरूपो भवेच्च मे ॥३४॥ श्रुत्वैवं वचनं तस्य पराशरमुनेरिदम् । तमुवाच गणाधीशो भक्तं योगधरं परम् ॥३५॥ गणेश उवाच । त्वया यत्प्रार्थितं विप्र तत्सर्वं सफलं भवेत् । तव पुत्रो भविष्यामि गजासुरवधाय च ॥३६॥ त्वया स्तोत्रं कृतं यच्च तत्सर्व्वेच्छितदं भवेत् । भुक्तिमुक्तिकरं तेषां पठतां शृण्वतां नृणाम् ॥३७॥ एवमुक्त्वांतर्दधेऽसौ गणेशो ब्रह्मनायकः । पराशरः प्रसन्नात्मा सपत्नीको बभूव ह ॥३८॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते पराशरवरप्रदानं नाम त्रिंशोऽध्यायः ॥