भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 158, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 158

खं. २ अ. १४ | पान ३२ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ध्रुवादूर्ध्वं महर्लोकः कोटियोजनदूरगः । कल्पाधिकारिणस्तत्र वसन्ति सुखभोगिनः ॥१॥ जनलोको महर्लोकात् कोटियोजनदूरगः । सनकाद्याः स्थितास्तत्र त्रसरेणुविमानगाः ॥२॥ जनलोकात्तपोलोकः कोटियोजनदूरगः । वैराजास्तत्र वै देवाः स्थिता भयविवर्जिताः ॥३॥ सत्यलोकस्तपोलोकात्कोटियोजनदूरगः । अपुनर्भवरूपा च ब्रह्मणो वसतिः परा ॥४॥ तत्र लोकगुरुर्ब्रह्मा विश्वात्मा विश्वभावनः । आस्ते स योगिभिर्नित्यं पीत्वा योगमृतं परम् ॥५॥ वसन्ति यतयस्तत्र नैष्ठिका ब्रह्मचारिणः । व्रतिनस्तापसाः सिद्धा याजकाः परमेष्ठिनः ॥६॥ द्वारं तद्योगिनामेकं गच्छतां गणपं परम् । न तद्वर्णयितुं शक्यं ज्वालामालासमाकुलम् ॥७॥ तस्मादूर्ध्वं निरालंबं विश्वरूपविवर्जितम् । सत्यलोकांतमेतद्वै वैराटं रूपमुत्तमम् ॥८॥ पंचकोटियुतं पूर्णं तस्माद्दशगुणा मही । ब्रह्माकारा च विज्ञेया पंचाशतकोटि- विस्तरा ॥९॥ विधेर्लोकात्कोटियुग्मे योजनानां प्रजापते । शक्तिलोको निराधारो ज्योतिर्मयविराजितः ॥१०॥ तेजः पुंजमये दक्ष महामायासमाश्रिते । निष्कामाः शक्तिभक्ता ये तत्र गच्छंति योगिनः ॥११॥ दशसाहस्रविस्तारे समंताज्जनसंकुले । योजनानां महाभाग शक्तयस्तत्र संस्थिताः ॥१२॥ स्वतेजसा विनिर्माय पुरुषान् समरूपिणः । तैः समं क्रीडने सक्ताः स्त्रीभावेन जगन्मया ॥१३॥ तस्मात्कोटिचतुष्के च सूर्यलोकः पुरातनः । योजनानां महातेजःपुंजरूपो विराजते ॥१४॥ निराधारे सदा नित्ये निष्कामास्तत्र यांति वै । शुक्लगत्या महाभागाः साक्षाद्भानुनिवासिनः ॥१५॥ अन्ये सूर्यस्य ये भक्ता निष्कामभजने रताः । तत्र गच्छंति ते दक्ष भानुतेजःसमप्रभाः ॥१६॥ तस्यापि विस्तरस्तावन् शक्तिलोकसमेन वै । तत्र क्रीडति यो भानुः पुरुषाकारसंस्थितः ॥१७॥ स्ववामांगाच्च निर्माय मायां कर्ममयीं प्रभुः । संज्ञां तया सदा रेमे पुरुषो ब्रह्मसंज्ञितः ॥१८॥ तस्माद्योजनकोटिष्वष्टासु विष्णुः समास्थितः । सदावैकुंठवासीय आनंदमयमूर्तिमान् ॥१९॥ विस्तारस्तस्य लोकस्य वैकुंठस्य प्रमाणतः । अयुतं योजनानां च समंताच्च विराजते ॥२०॥ निराधारे सदा नित्ये ज्योतीरूपमये परे । तत्र गच्छंति निष्कामा वैष्णवा भक्तितत्पराः ॥२१॥ सदानंदसमायुक्तास्तत्र नित्यसुखे रताः । जनास्तिष्ठंति नार्यश्च स्वेच्छागतिविहारिणः ॥२२॥ वामभागात्स निर्माय भोगलक्ष्मीं प्रजापते । दक्षिणांगात् मुक्तिलक्ष्मीं ताभ्यां क्रीडति सर्वदा ॥२३॥ सदानंदमयः साक्षात् विष्णुः परमधर्मवित् । द्विविधं मायया कृत्वा खेलति स्वेच्छया प्रभुः ॥२४॥ तस्मात्षोडशसंख्यासु योजनानां च कोटिषु । दूरे शंकरलोकश्च कैलासः परमाद्भुतः ॥२५॥

मुद्गल पुराण (अष्टावतार चरितम्) · पृष्ठ 158, कुल 1023 में से · BharatKosha