भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 159, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 159

खं. २ अ. १५ पान ३३ निराधारे सदा लोके मोहहीने सुखप्रदे। निष्कामाः शिवभक्ताश्च तत्र गच्छंति मानवाः ॥२६॥ ज्योतिर्मयस्वरूपे च सदा कल्याणदायके। लोके तत्र स्वयं शंभुर्वसति स्वेच्छया मुने ॥२७॥ अयुतं योजनानां च तस्य विस्तार एव च । तत्र योगेन योगज्ञः शंकरः क्रीडति प्रभुः ॥२८॥ वामांगं प्रकृत्याकारं दक्षिणांगं प्रजापते। पुरुषाकारमेतस्य शंकरस्य महात्मनः ॥२९॥ संयोगे च तयोर्दक्ष आनंदः परिकीर्तितः । नारायणमयी शक्तिरर्धनारीनरः शिवः ॥३०॥ सा शक्ति- स्तस्य देवस्य त्रिधा रूपधरा बभौ । कृता भिन्ना शिवेनापि जगदानंददायिनी ॥३१॥ तया व्यक्तो महादेवो मोहहीनः स्वभावतः । क्रीडत्यनारतं दक्ष मायाधारः स्वलोकगः ॥३२॥ तस्याः परं पृथिव्यास्तु ब्रह्म स्वानंदसंज्ञितम् । तत्पदान्न परं किंचिद्वेदादौ सुप्रतिष्ठितम् ॥३३॥ स्वसंवेद्यं हि यद्ब्रह्म चतुर्धा तद्बभौ स्वयम् । चतुर्णां तत्र संयोगस्तन्मयः कथितो बुधैः ॥३४॥ अव्यक्तं शिवसंज्ञं च ब्रह्म निर्मोहरूपकम् । तस्मात् समं तथा ब्रह्म वैष्णवं परिकीर्तितम् ॥३५॥ तस्मादात्मस्वरूपं यत् सूर्याकारं च तत्स्मृतम् । तस्मादसन्मयं ब्रह्म शक्तिरूपेण संस्थितम् ॥३६॥ तेषामभेदसंप्राप्तिः स्वानंदः परिकीर्तितः । एवं तत्त्वेषु सर्वेषु स्वस्वस्वानंद उच्यते ॥३७॥ ब्रह्म नानाविधं प्रोक्तमाकाशादिविभेदतः । तत्र क्रमार्थं स्वानंदः स्वमहिम्नि स्थितोऽभवत् ॥३८॥ अंते पूर्णत्वमापन्नः साक्षाद्गणपतेः स्मृतः । स्वानंदः सर्वसंयोगे समाधिः पूर्व उच्यते ॥३९॥ स्थाने स्थाने निजानंदे गणेशः संस्थितः स्वयम् । कलांशेन विहारार्थं सर्वेषां सर्वसिद्धये ॥४०॥ एवमूर्ध्वस्थलोका ये कथितास्ते प्रजापते । अतिसंक्षेपभावेन श्रवणात् सर्वकामदाः ॥४१॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते ऊर्ध्वस्थलोकवर्णनं नाम चतुर्दशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । अतलं वितलं चैव सुतलं च तलातलम् । महातलं रसातलं पातालं सप्तमं स्मृतम् ॥१॥ अतलं श्यामवर्णं तदधोभूमेः सुसंस्थितम् । अयुते योजनानां वै विस्तारो लक्षयोजनः ॥२॥ मयपुत्रेण संयुक्तं तथा नमुचिपूर्वकैः । तथान्यैर्विविधैर्नागैरतलं शोभितं प्रभो ॥३॥ वितलं श्वेतवर्णं तदधस्तस्मात्तथा स्मृतम् । अयुते योजनानां तद्विवरं चैव संस्थितम् ॥४॥ तत्र नागासुराश्चैव वसन्ति सुखभोगिनः । कंबलः शंखकर्णश्च