मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 160, कुल 1023 में से
संदर्भ में पढ़ें[Header: पान २४]
हयग्रीवश्च जृंभकः ॥५॥ सुतलं पीतवर्णं तदधस्तद्भूतप्रतिष्ठितम् । तत्रैव वैनतेयादिपक्षिणो दैत्यपो बलिः ॥६॥ कालनेम्यादयश्चान्ये नानादैत्याः स्थिताः सुखम् । नागाश्च भयहीनास्ते संवसंति विहारिणः ॥७॥ तलातलं तथा ज्ञेयं शार्करं तत्र वासिनः । मयासुररादयश्चैव बाणांधकमुखाः परे ॥ ८ ॥ वसन्ति सुखभावेनान्ये नागा विगतज्वराः। कालकेया महादेहा निवातकवचास्तथा ॥९॥ महातलं कृष्णवर्णं तत्र तक्षकपन्नगः । अन्ये च बहवो नागा वसन्ति सुखभोगिनः ॥१०॥ हिरण्यपुरधिष्ण्याश्च दैत्या अन्ये सहस्त्रशः । देवानां भयमुत्सृज्य निवसंति प्रजापते ॥११॥ रसातलं शैलमयमधस्तद्भूत स्थितं महत् । वासुकिप्रमुखैर्नागैर्दैत्यैर्नानाविधैस्तथा ॥१२॥ विवरे सर्वशोभाढ्ये नानासौख्यप्रदे परे । तत्र तेजस्विनस्तीक्ष्णविषोग्राः प्रवसंति वै ॥१३॥ पातालं नीलवर्णं तदधस्तस्मात्प्रतिष्ठितम् । तत्र स्थानं च शेषेण कार्यार्थे च कृतं किल ॥१४॥ तत्र दैत्याः सुरा नागास्तं सदा पर्युपासते । भक्तियुक्ता विवेकेन नागराजं महौकसम् ॥१५॥ पातालविवरेष्वत्र गृहा नानाविधाः कृताः । वनानि च तथा ग्रामा नगराणि प्रजापते ॥१६॥ विचित्रभोगयुक्ताश्च वृक्षा नानाविधाः खगाः । मंदिराणि प्रभावंति सोत्पलानि सरांसि च ॥१७॥ तत्र स्वर्गसमं दक्ष भोगं कुर्वंति जंतवः । हृष्टपुष्टजनाः सर्वे नियुताब्दोपजीविनः ॥१८॥ अपारायुः समायुक्ता महातेजस एव ते । देवादीनां सुदुर्धर्षा वसन्ति च्छंदचारिणः ॥१९॥ तस्मादधः सहस्राणि योजनानि प्रजापते । त्रिंशत्तत्र स्वयं शेषः सदा तिष्ठति नागपः ॥२०॥ गणेशभक्तिसंयुक्तो गणेशांशसमुद्भवः । विष्णोः कलावतारश्च कालरुद्रस्तथा स्मृतः ॥२१॥ सहस्रानन एकोऽसौ महाभागो महाबलः । यस्य विषभवा ज्वाला देहेत्तु सकलं जगत् ॥२२॥ मृत्युवर्जित एकोऽसौ तेनानंतः प्रकीर्तितः । ब्रह्मणो दिवसांते वै लयं कृत्वा स्वयं स्थितः ॥२३॥ अभजन्नागराजास्तं वासुकिप्रमुखाः सदा । असुराश्चैव प्रह्लादमुख्याः सेवापरायणाः ॥ २४॥ उपासते विलीनास्तं तथान्या नागयोषितः । नानाकामप्रसिद्ध्यर्थमनंतं भक्तितत्पराः ॥ २५ ॥ तस्मादधः कच्छपस्य विष्णोश्चैवावतारिणः । स्थानं सहस्र एकस्मिन् योजनानां स्थितं प्रभो ॥२६॥ तत्र तं वरुणाद्याश्च सेवंते भावतत्पराः । साक्षात् कूर्मस्वरूपस्थं नारायणमनामयम् ॥ २७॥ योजनानां ततोऽधस्तात् सहस्रे संस्थितः स्वयम् । वराहरूपधारी च विष्णुः परपुरंजयः ॥ २८ ॥ तं धरित्रीमुखाः सर्वे सेवंते भक्तितत्पराः । महादेवं करालास्यं स्वभक्तेभ्योऽभयप्रदम् ॥२९॥ शेषाधारमिदं सर्वं कूर्माधारः स वै स्मृतः । कूर्मो वराहरूपस्याधारेण समवस्थितः ॥३०॥