भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 161, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 161

खं. २ अ. १६ पान ३५ वराहश्च निराधारो गणेशं हृदि संस्मरन् । स्थितस्तेन प्रभावेण सर्वाधारः स वै स्मृतः ॥३१॥ तस्मादधो रौरवाद्या नरकाश्च समाश्रिताः । यातनाकारिणः सर्वे पापिनां शुद्धिकारकाः ॥ ३२ ॥ रौरवैश्चैव तामिस्रो महारौरवसंज्ञितः । अंधतामिस्रसंज्ञश्च तथा सूचीमुखोऽपरः ॥ ३३ ॥ लोहदंडस्तप्तवालुकस्तथा खड्गपत्रकः । लालास्यः कृमिभक्ष्यश्च इत्याद्या बहवः स्मृताः ॥३४॥ नरकेषु प्रपच्यंते पापकारिण एव ये । एतावान् ब्रह्मगोलस्ते संक्षेपेण निरूपितः ॥३५॥ विस्तरान्नैव शक्यश्च गदितुं वै प्रजापते । शापमोहस्य वेगेन तव भ्रांतिः समागता ॥३६॥ गणेशाराधनेनाद्य भ्रांतिनाशो भविष्यति । तदा त्वं तत्त्वतः सर्वं ज्ञास्यस्यत्र न संशयः ॥३७॥ एवं सर्वेषु सामान्यं ब्रह्मांडेषु बभौ जगत् । अष्टावरणयुक्तेषु गुणेशाधारकेषु वै ॥३८॥ इदं गणपते रूपं ब्रह्मांडात्मकमिस्थितम् । कथितं ते समासेन सर्वसिद्धिप्रदं मया ॥ ३९ ॥ यः शृणोति नरो भक्त्या पठेद्वा तस्य सर्वदम् । भुक्तिमुक्तिकरं भावि पापकंचुकनाशनम् ॥ ४० ॥ ॥ ओमिति श्रीमदान्ते पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते सप्तपातालवर्णनं नाम पंचदशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । प्रियव्रतात्मजश्चैवाग्नीध्रस्तस्याभवत्सुतः । नाभिस्तस्य च यज्ञाद्वै समुत्पन्नः सुतः परः ॥१॥ यज्ञरूपः स्वयं विष्णुः कलारूपेण देहभृत् । पुत्रभावसमायुक्तः स्थितस्तस्य च सद्मनि ॥ २ ॥ तस्य पुत्रशतं जज्ञे भरताग्रं प्रजापते । एकाशीतिश्च पुत्रा वै ब्राह्मणास्तपसाऽभवन् ॥ ३ ॥ नवयोगिन एवान्येऽभवन् सर्वत्र संमताः । गाणपत्या महाभागाः सर्वदेहविवर्जिताः ॥ ४ ॥ कविर्हरिश्चांतरिक्षः प्रबुद्धः पिप्पलायनः । आविर्होत्रोऽथ द्रुमिलश्चमसः करभाजनः ॥५॥ सदा योगधरा मुख्या ऊर्ध्वरेतस एव च । सर्वगाः सर्वसंमान्या भ्रमंति भुवनेषु च ॥६॥ नव तत्र च राजानो जंबुद्वीपे प्रजापते । खंडेसु तेषु मुख्यो वै भरतो ज्येष्ठपुत्रकः ॥७॥ सभ्रातृणां नवानां वै सम्राट् भावेन संस्थितः । एवं विभज्य राज्यं स्वमृषभश्च वनं ययौ ॥८॥ तत्र नाना तपः कृत्वा क्रमेण स बभूव च । अवधूतो महाभागो योगमभ्यस्य योगवित् ॥९॥ नानायोगविभेदेन नानाभूमिं विशोधयन् । जडोन्मत्तपिशाचादिं ततः सहजसंस्थितः ॥१०॥ सहजं शांकरं ब्रह्म मोहहीनं चतुर्थकम् । स्वाधीनं नेति रूपं यदव्यक्तं तेन संश्रितम् ॥११॥ तेनासौ शांभवो जातः