मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 162, कुल 1023 में से
संदर्भ में पढ़ेंशिवमार्गप्रकाशकः। यत्रतत्राचरद्योगी जनानां बोधयन् शिवम् ॥ १२॥ ततो योगेन तत्रैव स्वाधीनब्रह्मदूषणम् । दृष्ट्वा शांतिं परित्यज्य विस्मितः प्रबभूव सः ॥१३॥ न ब्रह्मणि पराधीनस्वाधीनत्वं कदाचन । शिवः स्वाधीनरूपोऽयं न योगींद्रस्ततो भवेत् ॥१४॥ एवं विचार्य विक्षेपाच्छंकरालयमाययौ । तं प्रणम्य स्थितो योगी शिवसंमानितो भृशम् ॥१५॥ तत्र स्थिता महाभागा योगिनः शिवशिष्यकाः । गाणपत्याः स तान् दृष्ट्वा विस्मितो मानसेऽभवत् ॥ १६ ॥ ततो- ऽवसरमासाद्य शिवं नत्वा कृतांजलिः । जगाद तं स योगींद्रो भक्तियुक्तेन चेतसा ॥ १७॥ ऋषभ उवाच। नमस्ते शंकरायैव नमस्ते योगरूपिणे । नमस्ते जगदाधार ब्रह्माधिपतये नमः ॥१८ ॥ शांतियोगं वद स्वामिन् पूर्णशांतिप्रदायकम् । दासोऽहं तेऽधुना शिष्यो मह्यं देव दयानिधे ॥१९॥ सहजान्न परं ब्रह्म मया ज्ञातं विवेकतः । तत्र स्वाधीनता दृष्टा तया शांतिर्गता च मे ॥ २० ॥ मुद्गल उवाच। ऋषभस्य वचः श्रुत्वा शंकरो हर्षनिर्भरः । जगाद तं महाभक्तं पूर्णपाशुपतं वचः ॥ २१ ॥ शिव उवाच । त्वया पृष्टं महायोगिंस्तारकं योगिनां मतम् । कथयामि महाप्रीत्या शृणुष्वैकाग्रमानसः ॥ २२॥ शांतियोगा- त्मकः साक्षाद्वेदेषु कथितः पुरा । गणेशो योगरूपाख्यो योगिभिः सेवितः सदा ॥ २३ ॥ तस्मात् सर्वं समुद्भूतं तदाधारेण संस्थितम् । अंते चेदं तदाकारं योगेन भवति प्रभो ॥ २४ ॥ सामवेदे प्रकथितं शृणु वेदरहस्यकम् । येन त्वं शांतिसंयुक्तो भविष्यसि न संशयः ॥ २५ ॥ मनोवाणीमयं सर्वं दृश्यादृश्यस्वरूपकम् । गकारात्मकमेतत्तु तत्र ब्रह्म गकारकः ॥ २६ ॥ मनोवाणीविहीनं च संयोगायोगसंस्थितम् । णकारात्मकमेतत्तु णकारस्तत्र संस्थितः ॥ २७॥ विविधानि गकाराच्च प्रसूतानि महामते । ब्रह्माणि तानि कथ्यंते तत्त्वरूपाणि योगिभिः ॥ २८॥ ब्रह्माणि तु णकाराच्च संप्रसूतानि योगिभिः । निरोधा- त्मकरूपाणि कथितानि समंततः ॥ २९ ॥ गकारश्च णकारश्चाह्वये गणपतेः स्थितौ । ततो जानीहि भो योगिन् ब्रह्माकारौ श्रुतेर्मुखात् ॥ ३० ॥ तयोः स्वामी गणेशानो योगरूपेण संस्थितः । तं भजस्व विधानेन शांतिमार्गेण पुत्रक ॥ ३१ ॥ मनो- वाणीमयं सर्वं गणेशाकारभावितम् । मनोवाणीविहीनं च तदाकारं प्रभावय ॥३२॥ मनोवाणीमयं सर्वं मायारूपं प्रकथ्यते । मनोवाणीविहीनं यत्तदेव तादृशं मतम् ॥३३॥ चित्तस्य पंच भूमीनां प्रकाशकृदयं स्मृतः । तेन चिंतामणिर्नाम जातोऽसौ गणनायकः ॥ ३४ ॥ तं भजस्व महायोगिन् योगाकारेण संस्थितः । भूमीनां त्यागमार्गेण शांतिं चित्तस्य चाप्स्यसि ॥ ३५ ॥ गणेशस्तु गणेशोऽयं संयोगायोगवर्जितः । मायया भ्रांतिरुत्पन्ना तां त्यक्त्वा सुखमाप्स्यसि ॥ ३६ ॥ इत्युक्त्वा विररामाथ