मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 157, कुल 1023 में से
संदर्भ में पढ़ेंखं. २ अ. १३ पान ३१ गंधर्वाप्सरसश्चैनं गेयैर्नृत्यैरुपासते ॥१९॥ ग्रामणीर्यक्षभूतानि कुर्वतेऽभीषुसंग्रहम् । सर्पा वहंति देवेशं यातुधानाः प्रयांति तम् ॥२०॥ वालखिल्या नयंत्यस्तं परिवार्योदयाद्रविम् । एते तपंति वर्षति भांति वांति सृजंति च ॥२१॥ भूतानामशुभं कर्म व्यपोहंत्यनुकीर्तिताः । एते सहैव सूर्येण भ्रमंति दिवि सर्वदा ॥ २२ ॥ विमानेऽधिष्ठिता नित्यं कामगे वातरंहसि । वर्षतश्च तपंतश्च ह्लादयंतः सदा प्रजाः ॥ २३ ॥ गोपायंतीह भूतानि सर्वाण्येते युगक्षये । एतेषां रूपमास्थाय सूर्यस्तपति नित्यशः ॥ २४॥ अहोरात्रव्यवस्थानां कारणं स प्रजापतिः । पितृदेवमनुष्यादि- नित्यमाप्याययेद्रविः ॥२५॥ एवमेष गणेशांशो देवदेवो दिवाकरः । करोति नियतं कालं कालात्मा भगवान् स्वयम् ॥ २६ ॥ अन्ये चाष्टग्रहाः प्रोक्ता ध्रुवे बद्धा भ्रमंति ते । दिवाकरकरैः पुष्टा तं रविं वातरश्मिभिः ॥ २७॥ रथस्त्रिचक्रः सोमस्य कुंदाभास्तस्य वाजिनः । वामदक्षिणतो युक्ता दश ते वै क्षपाकराः ॥ २८ ॥ वीथ्याश्रयेण नक्षत्रं चरत्येव रविर्यथा । ह्रासवृद्धिसमायुक्तो ध्रुवाधारेण सर्वदा ॥२९॥ स सोमः शुक्लपक्षे तु भास्करे परतः स्थिते । आपूर्यते कलामात्रैः सततं वर्धते ततः ॥३०॥ कृष्णे पीतं सुरैः सोममाप्याययति नित्यदा । एकेन रश्मिना दक्ष सुषुम्नाख्येन भास्करः ॥ ३१ ॥ एवं सूर्यस्य वीर्येण सोमस्याप्यायिता तनुः । दृश्यते पौर्णमासीस्था संपूर्णा दिवसैः क्रमात् ॥३२॥ संपूर्णमर्धमासेन तं सोमममृतात्मकम् । पिबंति देवताः सर्वाः क्रमेणामृतभोजिनः ॥३३॥ ततः पंचदशे भागे किंचिच्छेषे कलात्मके । पितरश्चापराह्ने तं जघन्यं पर्युपासते ॥३४॥ पिबंति द्विलवं कालं शिष्टा तस्य कला तु या । स्वधामृतमयी पुण्या सा चंद्रस्यामृतात्मिका ॥३५॥ निःसृतं तदमायां तु गभस्तिभ्यः स्वधामृतम् । मासतृप्तिकरं तेषां पितरः संति निर्वृताः ॥३६॥ न सोमस्य विनाशः स्यात्सुधादेवस्य पानतः । एवं सूर्यनिमित्तोऽस्य क्षयो वृद्धिश्च सर्वदा ॥३७॥ सोमपुत्रस्य सिंहैश्च चतुर्भिर्वायुवेगिभिः । स्यंदनस्तैः समायुक्त- स्तेनासौ याति सर्वतः ॥३८॥ भार्गवस्य तथाष्टाश्वः स्यंदनो हेमनिर्मितः । अष्टाभिरपि मेषैश्च रथो भौमस्य शोभनः ॥३९॥ बृहस्पतेश्च रक्ताश्वैरष्टभिर्हेमनिर्मितः । रथोऽष्टनीलगुडैश्च मंदस्यायसनिर्मितः ॥ ४० ॥ स्वर्भानोः कृष्णसिंहैश्च युक्तः केतोः कपोतकैः । एते नवग्रहाणां वै समाख्याता महारथाः ॥४१॥ सर्वे ध्रुवे समाबद्धा वातरश्मिभिरादरात् । ग्रहर्क्षताराधिष्ण्यानि ध्रुवे बद्धानि सर्वदा ॥४२॥ भ्रमति भ्रामयत्येतान् सर्वाशानिलरश्मिभिः । अतो ध्रुवाधारमिदं ज्योतिश्चक्रं प्रजापते ॥ ४३ ॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंड एकदंतचरिते नवग्रहरथादिवर्णनं नाम त्रयोदशोऽध्यायः ॥