भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 156, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 156

पान ३०

कृत्स्ना यत्तेजः सार्वलौकिकम् । विभज्य स्वयमेवेशः क्रीडति स्म दिवाकरः ॥४१॥ सर्वात्मा सर्वलोकेशो गणेशांशः प्रभाकरः । मूलं त्रिभुवनस्यापि कर्मरूपी च दैवतम् ॥४२॥ ॥ ओमिति श्रीमदान्ते पुराणेपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते सूर्यमंडलवर्णनं नाम द्वादशोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । रवेः कलांशसंभूता द्वादशान्ये च भानवः । द्वादशस्वेव मासेषु ते तपंति रथस्थिताः ॥१॥ सरथोऽधिष्ठितो देवैरादित्यैर्मुनिभिः तथा । गंधवैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः ॥२॥ धातार्यमाऽथ मित्रश्च वरुणः शक्रसंज्ञितः । विवस्वानाथ पूषा च पर्जन्यश्चांशुरेव च ॥३॥ भगस्त्वष्टाऽथ विष्णुश्च द्वादशैते च भानवः । तपंति रथसंस्था वै वसंतादिक्रमेण च ॥४॥ पुलस्त्यः पुलहोऽथात्रिर्वसिष्ठश्चांगिरा भृगुः । भरद्वाजो गौतमश्च कश्यपः क्रतुरेव च ॥५॥ जमदग्निः कोशिकोऽथ मुनयो ब्रह्मवादिनः । स्तुवंति पुरतो देवं छंदोभिर्विविधैस्तस्था ॥६॥ रथकृच्च रथौजा वै रथचित्रः स्वबाहुकः । रथस्वनोऽथ वरुणः सुषेणः सेनजित्तथा ॥७॥ तार्क्ष्यश्चारिष्टनेमिर्वै रथजित्सत्यजित्तथा । ग्रामण्यो देवदेवस्य कुर्वतेऽभीषुसंग्रहम् ॥८॥ अथ हेतिः प्रहेतिश्च पौरुषेयो वधस्तथा । सर्पो व्याघ्रस्तथा व्याधो वातो विद्युद्दिवाकरः ॥९॥ ब्रह्मोपेतश्च भो दक्ष यज्ञोपेतस्तथापरः । राक्षसप्रवरा एते प्रयांति पुरतः क्रमात् ॥१०॥ वासुकिः कंकनीरश्च तक्षको नागमुख्यकः । एलापत्रः शंखपालस्तथैरावतसंज्ञितः ॥११॥ धनंजयो महापद्मस्तथा कर्कोटकोऽपरः । कंबलाश्वतरौ चैव वहंत्येते प्रभाकरम् ॥१२॥ नागा द्वादशमासेषु प्रजाधीश यथाक्रमम् । तुंबरुर्नारदो हाहा हूहूर्विश्वावसुस्तथा ॥१३॥ उग्रसेनो वसुरुचिरवीवसुरुथापरः । चित्रसेनस्तथोर्णायुर्घृत- राष्ट्रः प्रजापते ॥१४॥ सूर्यवर्चा द्वादशैते गंधर्वा गायनाः पुरः । घनस्तनी च रंभा वै तथान्या पुंजिकस्थली ॥१५॥ मेनका सहजन्या च प्रम्लोचाऽथ प्रजापते । अनुम्लोचा घृताची च विश्वाची चोर्वशी परा ॥१६॥ अन्या च पूर्वचित्तिर्या भास्करं च तिलोत्तमा । तांडवैस्तोषयंत्येनं वसंतादिषु वै क्रमात् ॥१७॥ एवं देवा वसंत्यर्के द्वौ द्वौ मासौ क्रमेण तु । सूर्यमाप्याययंत्येते तेजसा तेजसां निधिम् ॥१८॥ ग्रथितैः स्ववचोभिस्तं स्तुवंति मुनयो रविम् ।

मुद्गल पुराण (अष्टावतार चरितम्) · पृष्ठ 156, कुल 1023 में से · BharatKosha