मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 155, कुल 1023 में से
संदर्भ में पढ़ेंखं. २ अ. १२ पान २९ चंद्रस्य षोडशो भागो मंडलं भार्गवस्य च । भार्गवात्पादहीनं यत् द्विज तच्च बृहस्पतेः ॥ १७॥ बृहस्पतेः पादहीनं मंडलं भौमसौरयोः । विस्ताराच्च तयोः पादहीनं सौम्यस्य मंडलम् ॥१८॥ तारानक्षत्ररूपाणि हीनानि तु परस्परात् । शतानि पंचचत्वारि त्रीणि द्वे योजनानि वै ॥ १९॥ सर्वेभ्योऽपि निकृष्टानि ताराणां मंडलानि तु । योजनाध्यर्धमात्राणि तेभ्यो न्यूनं न विद्यते ॥२०॥ उपरिष्टात् त्रयस्तेषां ग्रहा ये दूरसर्पिणः । सौरोंङ्गिराश्च भौमश्च विज्ञेया मंदगामिनः ॥२१॥ तेभ्योऽधस्ताच्च चत्वारः पुनरन्ये महाग्रहाः । सूर्यः सोमो बुधश्चैव भार्गवश्चैव शीघ्रगाः ॥२२॥ अयने द्वे समास्थाय भानुश्चरति सर्वदा । प्रभुः सर्वग्रहाणां स सर्वाधस्तात्प्रसर्पति ॥२३॥ विस्तीर्णं मंडलं कृत्वा चरत्यूर्ध्वं ततः शशी । नक्षत्रमंडलं कृत्स्नं सोमादूर्ध्वं प्रसर्पति ॥२४॥ नक्षत्रेभ्यः कविश्चोर्ध्वं तस्मादूर्ध्वं बुधः स्मृतः । भौमः सोमसुतादूर्ध्वं तस्मादूर्ध्वं बृहस्पतिः ॥२५॥ शनैश्चरस्ततो ह्यूर्ध्वं तस्मात् सप्तर्षिमंडलम् । ऋषीणां चैव सप्तानां ध्रुवश्चोर्ध्वं व्यवस्थितः ॥२६॥ नवयोजनसाहस्रो भास्करस्य रथः स्मृतः । ईषादंडस्तथैवास्य द्विगुणो वै प्रजापते ॥ २७ ॥ लक्षप्रमाणमक्षश्च ध्रुवाधारेण संस्थितः । द्वितीयेऽक्षे तु तच्चक्रं संस्थितं मानसाचले ॥२८॥ चक्रं राशिमयं तस्य द्वादशारं प्रकीर्तितम् । गायत्रीमुख्यकास्तस्य सप्त छंदोमया हयाः ॥२९॥ दक्षिणायनमासाद्य क्षिप्रं क्षिप्रं प्रसर्पति । यदोत्तरगतो भानुरक्षिप्रं चैव सर्पति ॥३०॥ मानसोपरि माहेंद्री प्राच्यां दिशि महापुरी । दक्षिणे धर्मराजस्य वरुणस्य च पश्चिमे ॥३१॥ उत्तरे तु कुबेरस्य तन्नामानि निबोध मे । अमरावती संयमनी सुखा चैव विभा क्रमात् ॥ ३२ ॥ ज्योतिषां चक्रमादाय देवदेवः प्रजापतिः । उदये च महेन्द्रस्य नगर्यां स प्रकाशते ॥३३॥ यमपुर्यां च मध्याह्ने सायाह्ने वरुणस्य तु । निशामध्ये च कौबेर्यामेवं चरति भास्करः ॥ ३४ ॥ उदयास्तमयेनायं सर्वकालसमानगः । अशेषासु दिशास्वेव सर्वासु विदिशासु च ॥ ३५ ॥ कुलालचक्रवल्लोके भ्रमत्येवं दिनेश्वरः । स्वस्वबोधसमानं च भिन्नं कालं प्रकाशयन् ॥३६॥ करोत्यहस्तथा रात्रिं किरणैः स्थापयन् प्रजाः । दिवाकरकरैरेतत् पूरितं भुवनत्रयम् ॥ ३७ ॥ जलं स्थलं नभः प्रोक्तं लोकानां स्थानमुत्तमम् । आदित्यमूलमेतच्च त्रिविधं नात्र संशयः ॥ ३८ ॥ भवत्यस्माज्जगत्कृत्स्नं सदेवासुरमानुषम् । मध्यभागे तदाधारमंते तत्र प्रतिष्ठितम् ॥ ३९ ॥ ब्रह्मविष्णुमहेशेंद्रचंद्रताराग्निनागजम् । वीरुद्विप्रोत्थदकानां यत्तेजस्तद्रविसंभवम् ॥ ४० ॥ द्युतिर्द्युतिमतां