मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
खं. २ अ. १४ | पान ३२ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ध्रुवादूर्ध्वं महर्लोकः कोटियोजनदूरगः । कल्पाधिकारिणस्तत्र वसन्ति सुखभोगिनः ॥१॥ जनलोको महर्लोकात् कोटियोजनदूरगः । सनकाद्याः स्थितास्तत्र त्रसरेणुविमानगाः ॥२॥ जनलोकात्तपोलोकः कोटियोजनदूरगः । वैराजास्तत्र वै देवाः स्थिता भयविवर्जिताः ॥३॥ सत्यलोकस्तपोलोकात्कोटियोजनदूरगः । अपुनर्भवरूपा च ब्रह्मणो वसतिः परा ॥४॥ तत्र लोकगुरुर्ब्रह्मा विश्वात्मा विश्वभावनः । आस्ते स योगिभिर्नित्यं पीत्वा योगमृतं परम् ॥५॥ वसन्ति यतयस्तत्र नैष्ठिका ब्रह्मचारिणः । व्रतिनस्तापसाः सिद्धा याजकाः परमेष्ठिनः ॥६॥ द्वारं तद्योगिनामेकं गच्छतां गणपं परम् । न तद्वर्णयितुं शक्यं ज्वालामालासमाकुलम् ॥७॥ तस्मादूर्ध्वं निरालंबं विश्वरूपविवर्जितम् । सत्यलोकांतमेतद्वै वैराटं रूपमुत्तमम् ॥८॥ पंचकोटियुतं पूर्णं तस्माद्दशगुणा मही । ब्रह्माकारा च विज्ञेया पंचाशतकोटि- विस्तरा ॥९॥ विधेर्लोकात्कोटियुग्मे योजनानां प्रजापते । शक्तिलोको निराधारो ज्योतिर्मयविराजितः ॥१०॥ तेजः पुंजमये दक्ष महामायासमाश्रिते । निष्कामाः शक्तिभक्ता ये तत्र गच्छंति योगिनः ॥११॥ दशसाहस्रविस्तारे समंताज्जनसंकुले । योजनानां महाभाग शक्तयस्तत्र संस्थिताः ॥१२॥ स्वतेजसा विनिर्माय पुरुषान् समरूपिणः । तैः समं क्रीडने सक्ताः स्त्रीभावेन जगन्मया ॥१३॥ तस्मात्कोटिचतुष्के च सूर्यलोकः पुरातनः । योजनानां महातेजःपुंजरूपो विराजते ॥१४॥ निराधारे सदा नित्ये निष्कामास्तत्र यांति वै । शुक्लगत्या महाभागाः साक्षाद्भानुनिवासिनः ॥१५॥ अन्ये सूर्यस्य ये भक्ता निष्कामभजने रताः । तत्र गच्छंति ते दक्ष भानुतेजःसमप्रभाः ॥१६॥ तस्यापि विस्तरस्तावन् शक्तिलोकसमेन वै । तत्र क्रीडति यो भानुः पुरुषाकारसंस्थितः ॥१७॥ स्ववामांगाच्च निर्माय मायां कर्ममयीं प्रभुः । संज्ञां तया सदा रेमे पुरुषो ब्रह्मसंज्ञितः ॥१८॥ तस्माद्योजनकोटिष्वष्टासु विष्णुः समास्थितः । सदावैकुंठवासीय आनंदमयमूर्तिमान् ॥१९॥ विस्तारस्तस्य लोकस्य वैकुंठस्य प्रमाणतः । अयुतं योजनानां च समंताच्च विराजते ॥२०॥ निराधारे सदा नित्ये ज्योतीरूपमये परे । तत्र गच्छंति निष्कामा वैष्णवा भक्तितत्पराः ॥२१॥ सदानंदसमायुक्तास्तत्र नित्यसुखे रताः । जनास्तिष्ठंति नार्यश्च स्वेच्छागतिविहारिणः ॥२२॥ वामभागात्स निर्माय भोगलक्ष्मीं प्रजापते । दक्षिणांगात् मुक्तिलक्ष्मीं ताभ्यां क्रीडति सर्वदा ॥२३॥ सदानंदमयः साक्षात् विष्णुः परमधर्मवित् । द्विविधं मायया कृत्वा खेलति स्वेच्छया प्रभुः ॥२४॥ तस्मात्षोडशसंख्यासु योजनानां च कोटिषु । दूरे शंकरलोकश्च कैलासः परमाद्भुतः ॥२५॥
खं. २ अ. १५ पान ३३ निराधारे सदा लोके मोहहीने सुखप्रदे। निष्कामाः शिवभक्ताश्च तत्र गच्छंति मानवाः ॥२६॥ ज्योतिर्मयस्वरूपे च सदा कल्याणदायके। लोके तत्र स्वयं शंभुर्वसति स्वेच्छया मुने ॥२७॥ अयुतं योजनानां च तस्य विस्तार एव च । तत्र योगेन योगज्ञः शंकरः क्रीडति प्रभुः ॥२८॥ वामांगं प्रकृत्याकारं दक्षिणांगं प्रजापते। पुरुषाकारमेतस्य शंकरस्य महात्मनः ॥२९॥ संयोगे च तयोर्दक्ष आनंदः परिकीर्तितः । नारायणमयी शक्तिरर्धनारीनरः शिवः ॥३०॥ सा शक्ति- स्तस्य देवस्य त्रिधा रूपधरा बभौ । कृता भिन्ना शिवेनापि जगदानंददायिनी ॥३१॥ तया व्यक्तो महादेवो मोहहीनः स्वभावतः । क्रीडत्यनारतं दक्ष मायाधारः स्वलोकगः ॥३२॥ तस्याः परं पृथिव्यास्तु ब्रह्म स्वानंदसंज्ञितम् । तत्पदान्न परं किंचिद्वेदादौ सुप्रतिष्ठितम् ॥३३॥ स्वसंवेद्यं हि यद्ब्रह्म चतुर्धा तद्बभौ स्वयम् । चतुर्णां तत्र संयोगस्तन्मयः कथितो बुधैः ॥३४॥ अव्यक्तं शिवसंज्ञं च ब्रह्म निर्मोहरूपकम् । तस्मात् समं तथा ब्रह्म वैष्णवं परिकीर्तितम् ॥३५॥ तस्मादात्मस्वरूपं यत् सूर्याकारं च तत्स्मृतम् । तस्मादसन्मयं ब्रह्म शक्तिरूपेण संस्थितम् ॥३६॥ तेषामभेदसंप्राप्तिः स्वानंदः परिकीर्तितः । एवं तत्त्वेषु सर्वेषु स्वस्वस्वानंद उच्यते ॥३७॥ ब्रह्म नानाविधं प्रोक्तमाकाशादिविभेदतः । तत्र क्रमार्थं स्वानंदः स्वमहिम्नि स्थितोऽभवत् ॥३८॥ अंते पूर्णत्वमापन्नः साक्षाद्गणपतेः स्मृतः । स्वानंदः सर्वसंयोगे समाधिः पूर्व उच्यते ॥३९॥ स्थाने स्थाने निजानंदे गणेशः संस्थितः स्वयम् । कलांशेन विहारार्थं सर्वेषां सर्वसिद्धये ॥४०॥ एवमूर्ध्वस्थलोका ये कथितास्ते प्रजापते । अतिसंक्षेपभावेन श्रवणात् सर्वकामदाः ॥४१॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते ऊर्ध्वस्थलोकवर्णनं नाम चतुर्दशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । अतलं वितलं चैव सुतलं च तलातलम् । महातलं रसातलं पातालं सप्तमं स्मृतम् ॥१॥ अतलं श्यामवर्णं तदधोभूमेः सुसंस्थितम् । अयुते योजनानां वै विस्तारो लक्षयोजनः ॥२॥ मयपुत्रेण संयुक्तं तथा नमुचिपूर्वकैः । तथान्यैर्विविधैर्नागैरतलं शोभितं प्रभो ॥३॥ वितलं श्वेतवर्णं तदधस्तस्मात्तथा स्मृतम् । अयुते योजनानां तद्विवरं चैव संस्थितम् ॥४॥ तत्र नागासुराश्चैव वसन्ति सुखभोगिनः । कंबलः शंखकर्णश्च
[Header: पान २४]
हयग्रीवश्च जृंभकः ॥५॥ सुतलं पीतवर्णं तदधस्तद्भूतप्रतिष्ठितम् । तत्रैव वैनतेयादिपक्षिणो दैत्यपो बलिः ॥६॥ कालनेम्यादयश्चान्ये नानादैत्याः स्थिताः सुखम् । नागाश्च भयहीनास्ते संवसंति विहारिणः ॥७॥ तलातलं तथा ज्ञेयं शार्करं तत्र वासिनः । मयासुररादयश्चैव बाणांधकमुखाः परे ॥ ८ ॥ वसन्ति सुखभावेनान्ये नागा विगतज्वराः। कालकेया महादेहा निवातकवचास्तथा ॥९॥ महातलं कृष्णवर्णं तत्र तक्षकपन्नगः । अन्ये च बहवो नागा वसन्ति सुखभोगिनः ॥१०॥ हिरण्यपुरधिष्ण्याश्च दैत्या अन्ये सहस्त्रशः । देवानां भयमुत्सृज्य निवसंति प्रजापते ॥११॥ रसातलं शैलमयमधस्तद्भूत स्थितं महत् । वासुकिप्रमुखैर्नागैर्दैत्यैर्नानाविधैस्तथा ॥१२॥ विवरे सर्वशोभाढ्ये नानासौख्यप्रदे परे । तत्र तेजस्विनस्तीक्ष्णविषोग्राः प्रवसंति वै ॥१३॥ पातालं नीलवर्णं तदधस्तस्मात्प्रतिष्ठितम् । तत्र स्थानं च शेषेण कार्यार्थे च कृतं किल ॥१४॥ तत्र दैत्याः सुरा नागास्तं सदा पर्युपासते । भक्तियुक्ता विवेकेन नागराजं महौकसम् ॥१५॥ पातालविवरेष्वत्र गृहा नानाविधाः कृताः । वनानि च तथा ग्रामा नगराणि प्रजापते ॥१६॥ विचित्रभोगयुक्ताश्च वृक्षा नानाविधाः खगाः । मंदिराणि प्रभावंति सोत्पलानि सरांसि च ॥१७॥ तत्र स्वर्गसमं दक्ष भोगं कुर्वंति जंतवः । हृष्टपुष्टजनाः सर्वे नियुताब्दोपजीविनः ॥१८॥ अपारायुः समायुक्ता महातेजस एव ते । देवादीनां सुदुर्धर्षा वसन्ति च्छंदचारिणः ॥१९॥ तस्मादधः सहस्राणि योजनानि प्रजापते । त्रिंशत्तत्र स्वयं शेषः सदा तिष्ठति नागपः ॥२०॥ गणेशभक्तिसंयुक्तो गणेशांशसमुद्भवः । विष्णोः कलावतारश्च कालरुद्रस्तथा स्मृतः ॥२१॥ सहस्रानन एकोऽसौ महाभागो महाबलः । यस्य विषभवा ज्वाला देहेत्तु सकलं जगत् ॥२२॥ मृत्युवर्जित एकोऽसौ तेनानंतः प्रकीर्तितः । ब्रह्मणो दिवसांते वै लयं कृत्वा स्वयं स्थितः ॥२३॥ अभजन्नागराजास्तं वासुकिप्रमुखाः सदा । असुराश्चैव प्रह्लादमुख्याः सेवापरायणाः ॥ २४॥ उपासते विलीनास्तं तथान्या नागयोषितः । नानाकामप्रसिद्ध्यर्थमनंतं भक्तितत्पराः ॥ २५ ॥ तस्मादधः कच्छपस्य विष्णोश्चैवावतारिणः । स्थानं सहस्र एकस्मिन् योजनानां स्थितं प्रभो ॥२६॥ तत्र तं वरुणाद्याश्च सेवंते भावतत्पराः । साक्षात् कूर्मस्वरूपस्थं नारायणमनामयम् ॥ २७॥ योजनानां ततोऽधस्तात् सहस्रे संस्थितः स्वयम् । वराहरूपधारी च विष्णुः परपुरंजयः ॥ २८ ॥ तं धरित्रीमुखाः सर्वे सेवंते भक्तितत्पराः । महादेवं करालास्यं स्वभक्तेभ्योऽभयप्रदम् ॥२९॥ शेषाधारमिदं सर्वं कूर्माधारः स वै स्मृतः । कूर्मो वराहरूपस्याधारेण समवस्थितः ॥३०॥
खं. २ अ. १६ पान ३५ वराहश्च निराधारो गणेशं हृदि संस्मरन् । स्थितस्तेन प्रभावेण सर्वाधारः स वै स्मृतः ॥३१॥ तस्मादधो रौरवाद्या नरकाश्च समाश्रिताः । यातनाकारिणः सर्वे पापिनां शुद्धिकारकाः ॥ ३२ ॥ रौरवैश्चैव तामिस्रो महारौरवसंज्ञितः । अंधतामिस्रसंज्ञश्च तथा सूचीमुखोऽपरः ॥ ३३ ॥ लोहदंडस्तप्तवालुकस्तथा खड्गपत्रकः । लालास्यः कृमिभक्ष्यश्च इत्याद्या बहवः स्मृताः ॥३४॥ नरकेषु प्रपच्यंते पापकारिण एव ये । एतावान् ब्रह्मगोलस्ते संक्षेपेण निरूपितः ॥३५॥ विस्तरान्नैव शक्यश्च गदितुं वै प्रजापते । शापमोहस्य वेगेन तव भ्रांतिः समागता ॥३६॥ गणेशाराधनेनाद्य भ्रांतिनाशो भविष्यति । तदा त्वं तत्त्वतः सर्वं ज्ञास्यस्यत्र न संशयः ॥३७॥ एवं सर्वेषु सामान्यं ब्रह्मांडेषु बभौ जगत् । अष्टावरणयुक्तेषु गुणेशाधारकेषु वै ॥३८॥ इदं गणपते रूपं ब्रह्मांडात्मकमिस्थितम् । कथितं ते समासेन सर्वसिद्धिप्रदं मया ॥ ३९ ॥ यः शृणोति नरो भक्त्या पठेद्वा तस्य सर्वदम् । भुक्तिमुक्तिकरं भावि पापकंचुकनाशनम् ॥ ४० ॥ ॥ ओमिति श्रीमदान्ते पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते सप्तपातालवर्णनं नाम पंचदशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । प्रियव्रतात्मजश्चैवाग्नीध्रस्तस्याभवत्सुतः । नाभिस्तस्य च यज्ञाद्वै समुत्पन्नः सुतः परः ॥१॥ यज्ञरूपः स्वयं विष्णुः कलारूपेण देहभृत् । पुत्रभावसमायुक्तः स्थितस्तस्य च सद्मनि ॥ २ ॥ तस्य पुत्रशतं जज्ञे भरताग्रं प्रजापते । एकाशीतिश्च पुत्रा वै ब्राह्मणास्तपसाऽभवन् ॥ ३ ॥ नवयोगिन एवान्येऽभवन् सर्वत्र संमताः । गाणपत्या महाभागाः सर्वदेहविवर्जिताः ॥ ४ ॥ कविर्हरिश्चांतरिक्षः प्रबुद्धः पिप्पलायनः । आविर्होत्रोऽथ द्रुमिलश्चमसः करभाजनः ॥५॥ सदा योगधरा मुख्या ऊर्ध्वरेतस एव च । सर्वगाः सर्वसंमान्या भ्रमंति भुवनेषु च ॥६॥ नव तत्र च राजानो जंबुद्वीपे प्रजापते । खंडेसु तेषु मुख्यो वै भरतो ज्येष्ठपुत्रकः ॥७॥ सभ्रातृणां नवानां वै सम्राट् भावेन संस्थितः । एवं विभज्य राज्यं स्वमृषभश्च वनं ययौ ॥८॥ तत्र नाना तपः कृत्वा क्रमेण स बभूव च । अवधूतो महाभागो योगमभ्यस्य योगवित् ॥९॥ नानायोगविभेदेन नानाभूमिं विशोधयन् । जडोन्मत्तपिशाचादिं ततः सहजसंस्थितः ॥१०॥ सहजं शांकरं ब्रह्म मोहहीनं चतुर्थकम् । स्वाधीनं नेति रूपं यदव्यक्तं तेन संश्रितम् ॥११॥ तेनासौ शांभवो जातः
शिवमार्गप्रकाशकः। यत्रतत्राचरद्योगी जनानां बोधयन् शिवम् ॥ १२॥ ततो योगेन तत्रैव स्वाधीनब्रह्मदूषणम् । दृष्ट्वा शांतिं परित्यज्य विस्मितः प्रबभूव सः ॥१३॥ न ब्रह्मणि पराधीनस्वाधीनत्वं कदाचन । शिवः स्वाधीनरूपोऽयं न योगींद्रस्ततो भवेत् ॥१४॥ एवं विचार्य विक्षेपाच्छंकरालयमाययौ । तं प्रणम्य स्थितो योगी शिवसंमानितो भृशम् ॥१५॥ तत्र स्थिता महाभागा योगिनः शिवशिष्यकाः । गाणपत्याः स तान् दृष्ट्वा विस्मितो मानसेऽभवत् ॥ १६ ॥ ततो- ऽवसरमासाद्य शिवं नत्वा कृतांजलिः । जगाद तं स योगींद्रो भक्तियुक्तेन चेतसा ॥ १७॥ ऋषभ उवाच। नमस्ते शंकरायैव नमस्ते योगरूपिणे । नमस्ते जगदाधार ब्रह्माधिपतये नमः ॥१८ ॥ शांतियोगं वद स्वामिन् पूर्णशांतिप्रदायकम् । दासोऽहं तेऽधुना शिष्यो मह्यं देव दयानिधे ॥१९॥ सहजान्न परं ब्रह्म मया ज्ञातं विवेकतः । तत्र स्वाधीनता दृष्टा तया शांतिर्गता च मे ॥ २० ॥ मुद्गल उवाच। ऋषभस्य वचः श्रुत्वा शंकरो हर्षनिर्भरः । जगाद तं महाभक्तं पूर्णपाशुपतं वचः ॥ २१ ॥ शिव उवाच । त्वया पृष्टं महायोगिंस्तारकं योगिनां मतम् । कथयामि महाप्रीत्या शृणुष्वैकाग्रमानसः ॥ २२॥ शांतियोगा- त्मकः साक्षाद्वेदेषु कथितः पुरा । गणेशो योगरूपाख्यो योगिभिः सेवितः सदा ॥ २३ ॥ तस्मात् सर्वं समुद्भूतं तदाधारेण संस्थितम् । अंते चेदं तदाकारं योगेन भवति प्रभो ॥ २४ ॥ सामवेदे प्रकथितं शृणु वेदरहस्यकम् । येन त्वं शांतिसंयुक्तो भविष्यसि न संशयः ॥ २५ ॥ मनोवाणीमयं सर्वं दृश्यादृश्यस्वरूपकम् । गकारात्मकमेतत्तु तत्र ब्रह्म गकारकः ॥ २६ ॥ मनोवाणीविहीनं च संयोगायोगसंस्थितम् । णकारात्मकमेतत्तु णकारस्तत्र संस्थितः ॥ २७॥ विविधानि गकाराच्च प्रसूतानि महामते । ब्रह्माणि तानि कथ्यंते तत्त्वरूपाणि योगिभिः ॥ २८॥ ब्रह्माणि तु णकाराच्च संप्रसूतानि योगिभिः । निरोधा- त्मकरूपाणि कथितानि समंततः ॥ २९ ॥ गकारश्च णकारश्चाह्वये गणपतेः स्थितौ । ततो जानीहि भो योगिन् ब्रह्माकारौ श्रुतेर्मुखात् ॥ ३० ॥ तयोः स्वामी गणेशानो योगरूपेण संस्थितः । तं भजस्व विधानेन शांतिमार्गेण पुत्रक ॥ ३१ ॥ मनो- वाणीमयं सर्वं गणेशाकारभावितम् । मनोवाणीविहीनं च तदाकारं प्रभावय ॥३२॥ मनोवाणीमयं सर्वं मायारूपं प्रकथ्यते । मनोवाणीविहीनं यत्तदेव तादृशं मतम् ॥३३॥ चित्तस्य पंच भूमीनां प्रकाशकृदयं स्मृतः । तेन चिंतामणिर्नाम जातोऽसौ गणनायकः ॥ ३४ ॥ तं भजस्व महायोगिन् योगाकारेण संस्थितः । भूमीनां त्यागमार्गेण शांतिं चित्तस्य चाप्स्यसि ॥ ३५ ॥ गणेशस्तु गणेशोऽयं संयोगायोगवर्जितः । मायया भ्रांतिरुत्पन्ना तां त्यक्त्वा सुखमाप्स्यसि ॥ ३६ ॥ इत्युक्त्वा विररामाथ
खं. २ अ. १६ पान ३७ ☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸ शिवः शिवकरः सताम् । ऋषभोडपि प्रसन्नात्मा तं प्रणम्य ययौ वनम् ॥ ३७ ॥ कथितं शंकरेणैवमभ्यस्यन् योगमुत्तमम् । क्रमेण पूर्वयोगी स जातो शांतिस्वरूपधृक् ॥ ३८ ॥ तथापि गणपं दक्ष न मुमोच क्षणं मुनिः । तेन तस्य समीपेऽसौ गणेशानः समाययौ ॥ ३९ ॥ आगतं गणपं दृष्ट्वा भक्तिभावेन यंत्रितम् । प्रणाम स साष्टांगं हर्षगद्गदभाषणः ॥ ४० ॥ सरोमांचशरीरश्च साश्रुनेत्रो महायशाः । तुष्टाव तं गणाधीशं प्रांजलिर्हृष्टमानसः ॥४१॥ ऋषभ उवाच । नमस्ते ब्रह्मरूपाय गणेश करुणानिधे । भेदाभेदादिहीनाय गणानां पतये नमः ॥ ४२ ॥ निराकाराय नित्याय जगदाकारमूर्तये । अनंताय परेशाय परात्परतराय ते ॥४३॥ आदिमध्यांतहीनाय गुणाकाराय ते नमः । गुणेशाय जगत्स्रष्ट्रे पालकाय हराय च ॥ ४४ ॥ नमो नानावताराय भक्तपालनहेतवे । सुरासुरमयायैव सुरासुरसुपूजित ॥ ४५ ॥ योगाय योगदात्रे च योगाकाराय ते नमः । योगानां पतये तुभ्यं ब्रह्मणां पतये नमः ॥ ४६ ॥ सर्वाद्ये गणाध्यक्ष सर्वपूज्याय ढुंढये । सर्वांते ह्यवशिष्टाय विघ्नेशाय नमो नमः ॥ ४७ ॥ हेरंबाय निजानंदवासिने सिद्धसेवित । सिद्धिबुद्धिपते तुभ्यं नाना खेलकराय ते ॥ ४८ ॥ धर्मार्थकाममोक्षाणां दायकाय नमो नमः । ब्रह्मीभूतकरायैव ब्रह्मभूतमयाय च ॥ ४९ ॥ किं स्तौमि त्वां गणाधीश योगशांतिमयं प्रभो । यं स्तोतुं न समर्थाश्च वेदाद्याः शिवमुख्यकाः ॥ ५० ॥ तथापि च यथाबुद्धिज्ञानं त्वं संस्तुतो मया । भक्तिं देहि त्वदीयां मे दृढामव्यभिचारिणीम् ॥ ५१ ॥ मुद्गल उवाच । इत्युक्त्वा निपपातोर्व्यां पदं धृत्वा महायशाः । गणेशस्य च तेनापि समुत्थापित आदरात् ॥ ५२ ॥ जगाद गणनांथः स ऋषभं भक्तमुत्तमम् । शिवशिष्यं शिवप्रज्ञं साक्षाद्विष्णुं सनातनम् ॥ ५३ ॥ गणेश उवाच । मदीया भक्तिरत्यंतं भविष्यत्यचलानघ । स्तोत्रं त्वया कृतं मे तु शांतिदं प्रभविष्यति ॥ ५४ ॥ यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठतः । श्रवणान्नात्र संदेहो भावपूर्ण मतं मम ॥ ५५ ॥ इत्युक्त्वांतर्दधे देवो गणेशो गणवल्लभः । ऋषभश्च सदा शांतो योगी गाणेशतां गतः ॥ ५६ ॥ इदं चरित्रं मुख्यं वै यः शृणोति नरोत्तमः । ऋषभस्य महापुण्यं पठेद्वा तस्य सर्वदम् ॥ ५७ ॥ भविष्यति न संदेहो ब्रह्मभूयप्रदायकम् । शांतिदं शांतचित्तेभ्यः कथितं भक्तिसंयुतम् ॥ ५८ ॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते ऋषभचरित्रवर्णनं नाम षोडशोऽध्यायः ॥ ❧❦❧ ☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸
ख. २ अ. २७ पान ३८ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ऋषभेन कृता चर्या नानायोगप्रकाशिनी । आदौ तां भूमिपो दृष्ट्वा जगृहेऽहंदृहे स्थितः ॥ १ ॥ दुर्बुद्धिः स तु तं भ्रष्टः कर्ममार्गं विमुच्य वै । पशुवद्धर्महीनांश्च कारयामास मानवान् ॥ २ ॥ जैनमार्गः समुत्पन्नस्तदादिश्च प्रजापते । भरतेन स संच्छन्नो कर्ममार्गानुसारिणा ॥ ३ ॥ स एव कलिकालै वै भविष्यति गृहे गृहे । नरास्तं संग्रहीष्यंति कलिदोषेण संयुताः ॥ ४ ॥ ऋषभेन गृहं त्यक्त्वा धृतः संन्यासिना महान् । गृहस्थैः संधृतो मार्गो नरकप्रद उच्यते ॥ ५ ॥ ऋषभस्याग्रजः पुत्रो भरतो धर्मतत्परः । राज्यं चकार धर्मेण रंजयन् सकलाः प्रजाः ॥ ६ ॥ पुत्रे राज्यं समर्प्याऽसौ वनं यातो महायशाः । तत्र देहं क्रमेणैव तपसा शोषयन् स्थितः ॥ ७ ॥ शालिग्रामाश्रमे तिष्ठन्विष्णुध्यानपरायणः । तताप तप उग्रं स राजा परमधर्मवित् ॥ ८ ॥ एकदा स नदीतीरे संस्थितस्तर्पयन् पितॄन् । अकस्मात्सिंहसंनादो बभूव भयदायकः ॥ ९ ॥ तं श्रुत्वा हरिणी तत्रांतर्वत्नी सहसा स्वनम् । उत्पपात नदीं तां वै भयेन च पलायत ॥ १० ॥ उत्पतंत्या नदीतोये गर्भस्तस्याः पपात ह । साऽपि दूरे ययौ दक्ष मृता दुःखेन तत्क्षणात् ॥ ११ ॥ भरतेन मृगो बालो जलस्थः संधृतोऽभवत् । करुणायुतचित्तेन पालितश्च स यत्नतः ॥ १२ ॥ ततो मृगशिशौ तस्य प्रीतिर्जाता महात्मनः । लालयामास भावेन खेलयामास भूमिपः ॥ १३ ॥ क्रमेण प्रगतं सर्वं कर्म तस्य तपोमयम् । मृगे चासक्तचित्तस्य संगदोषमपश्यतः ॥१४॥ एकस्मिन् दिवसे सोऽपि मृगो मृगसमन्वितः । ययौ वनांतरे कुत्र न ज्ञातः साधुनाऽमुना ॥ १५ ॥ भरतस्तं मृगं तत्र न ददर्श यदा प्रभो । तदा दुःखसमायुक्तो बभ्राम स वने वने ॥ १६ ॥ न ददर्श मृगं कुत्र विललाप महीपतिः । नित्यं शोकसमायुक्तः कालेन स ममार च ॥ १७ ॥ मरणे स मृगस्तेन संदृष्टः स्वसमीपगः । बभूव मृगयोनौ स संगदोषप्रभावतः ॥ १८ ॥ तत्र पूर्वतपोभिश्च पूर्वजातिस्मरोऽभवत् । ज्ञानयुक्तः स्वयं संगात्स भीतो विचचार ह ॥ १९ ॥ मृगसंगं परित्यज्य ययौ पूर्वाश्रमे ततः । तत्राऽहिंसासमायुक्तो द्वंद्वभाव- पराङ्मुखः ॥२०॥ शुष्कं तृणादिकं भक्षन् सोऽस्मरद्विष्णुमव्ययम् । तीर्थस्नानं तदा कुर्वन् साधुदर्शनलालसः ॥२१॥ एकदा वनमध्ये स मृगो बभ्राम लीलया । अपश्यत्पूर्वपुण्येन पुलहाश्रममुत्तमम् ॥ २२ ॥ मुनीश्वरास्तत्र केचिद्वसंस्तत्परायणाः । महाभागास्तपोयुक्ता गणेशभजने रताः ॥ २३ ॥ तत्राऽसौ मृगजातिस्थो भरतो मुनिसंनिधौ । वासं चकार संहृष्टः साधुसंगपरायणः ॥ २४ ॥ एकदा ब्रह्मदेवोऽथ जगाम पुलहाश्रमम् । तं दृष्ट्वा पुलहाद्यास्ते प्रणेमुस्तं पितामहम् ॥ २५ ॥
खं. २ अ. १७ पान ३९ तं संपूज्य महाभक्त्या पुलहः सर्वसंयुतः । तोषयित्वा स्वयं देवं पादसंवाहने स्थितः ॥ २६ ॥ परिपप्रच्छ तं स्तुत्वा पुलहो भावसंयुतः । आदिदेवं महाभागं गाणपत्यं स्वभावतः ॥ २७ ॥ पुलह उवाच । तात दुःखयुताः सर्वे जंतवः केन भोगिनः । मोक्षिणो ब्रह्मभूताश्च जायंते तद्वदस्व मे ॥२८॥ मुद्गल उवाच । पुलहस्य वचः श्रुत्वा प्रभुर्धाता तमब्रवीत् । पुत्रं विनयसंयुक्तं कृतप्रांजलिमास्थितम् ॥२९॥ ब्रह्मोवाच । शृणु पुत्र प्रवक्ष्यामि यत्पृष्टं मे त्वया परम् । तत्सर्वं सर्वपापघ्नं शांतिमार्गप्रका- शकम् ॥३०॥ विघ्नराजमनादृत्य नरा दुःखसमन्विताः । जायंते सर्वलोकेषु विघ्नयुक्ता भयातुरः ॥३१॥ यद् यद् दुःखकरं तत्त- द्विघ्नरूपं न संशयः । नरकादि महाघोरं विकर्मफलदं मतम् ॥३२॥ कर्मयुक्तं च सर्वं तत्स्वर्गभोगप्रदं मतम् । तदेव दुःखरूपं त्वं पुत्र जानीहि निश्चितम् ॥३३॥ स्वर्गेषु द्वंद्वभावश्च विद्यते नात्र संशयः । स्त्रीपुंयुक्तं तथा विघ्नं मोहदं पश्य तत् स्थितम् ॥३४॥ दैत्यादिभ्यो भयैर्युक्ता देवास्तत्र वसन्ति ते । भयहीनाश्च तान् हत्वा लये मृत्युभयप्रदम् ॥ ३५ ॥ उत्पत्तिनाशसंयुक्तं ब्रह्मांडं सकलं मतम् । त्रिगुणादि व्यथायुक्तं विघ्नेन ग्रसितं स्मृतम् ॥३६॥ अकर्मणा नरो मोक्षं लभते नात्र संशयः । स एव विघ्नसंयुक्तो मोक्षश्च शृणु तं सुत ॥३७॥ देही देहैश्चतुर्भिश्च मोहितो बंधनं गतः । स एव साधनं कृत्वा बंधहीनः प्रजायते ॥३८॥ मोहेन युक्तो हीनोऽयं देही सर्वत्र संमतः । तदेव विघ्नरूपं च तन्न प्राप्तं महामते ॥३९॥ देहदेहिमये योगे ब्रह्म तत्कल्पनात्मकम् । विकल्पेन द्विधाभूतं स्वत उत्थानसंज्ञकम् ॥४०॥ निर्विकल्पेन योगेन स्वमहिम्नि स्थितं भवेत् । तदेव विघ्नसंयुक्तं विकल्पयुतहीनतः ॥४१॥ सांख्यं ब्रह्मात्मनिष्ठं यत्तत्र बाधो न विद्यते । अस्वातन्निष्ठमन्यच्चेत्तदा स्वात्ममयं भवेत् ॥४२॥ स्वात्मनिष्ठं धृतं येन तस्मादस्वात्मनिष्ठकम् । समुत्पन्नं महाभाग न कृतं त्वपि पुत्रक ॥४३॥ तदेव विघ्नरूपं चाप्यपरोत्थानभावतः । सांख्यं ब्रह्म न संदेहो बीजमुत्थानधारकम् ॥४४॥ सबीजं तद्विनिर्बीजं तदेव भवति स्वयम् । अतो योगिभिरत्यंतं मानितं न कदाचन ॥४५॥ स्वानंदं ब्रह्म यत्प्रोक्तं समाधे रूपधारकम् । तत्र स्वकीयसंयोगस्तदाकारेण जायते ॥४६॥ सर्वाभेदस्वरूपेण संयोगात्मक उच्यते । स्वसंवेद्यात्परं नास्ति संयोगाभेददायकम् ॥४७॥ तदेव योगिभिस्तस्मात्कथितं विघ्नसंयुक्तम् । तस्माज्जातंमिदं तत्र योगेनाभेदतां गतम् ॥४८॥ अन्वयात्मकदोषेण विघ्नरूपं प्रकाशितम् । अतो न मान्यतां प्राप्तं शांतिमार्गेषु सर्वदा ॥४९॥ ततो योगस्वरूपं यत्सदा भिन्नं प्रकीर्तितम् । न तस्य कस्यचियोगस्तत्र कुत्रापि नो भवेत् ॥५०॥ ब्रह्मभिन्नमयोगाख्यमतो विघ्नसमाकुलम् । व्यतिरेकात्मको दोषो
खं. २ अ. १८ पान ४० ☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸ ह्यशांतिकर उच्यते ॥५१॥ संयोगित्वमयोगत्वं त्यक्त्वा शांतिमवाप्स्यसि । तत्र विघ्नविहीनत्वं प्राप्तं पुत्र न संशयः ॥५२॥ चित्तभूमिस्वरूपं यत् पंचधा त्यज विप्रप । योगाभेदस्वरूपस्त्वं भविष्यसि न संशयः ॥५३॥ पंचधा चित्तरूपा वै बुद्धिर्माया प्रकीर्तिता । पंचधैश्वर्यमोहेषु मोहदा सिद्धिरुच्यते ॥५४॥ तत्र बिंबं गणेशस्य पतितं योगरूपतः । द्वैधं मायायुतं प्रोक्तं बिंबभावं त्यज प्रभो ॥५५॥ आदौ पुरा मया पुत्र कथितं कुलदैवतम् । गणेशरूपमस्माकं त्वयाराधितमादरात् ॥५६॥ तेन त्वं पात्रभूतश्च योगशांतेर्महामुने । अधुना कथितं पुत्र पूर्णशांतिस्वरूपकम् ॥ ५७॥ शांतियोगेन नित्यं त्वं तं भजस्व विधानतः । भविताऽसि गणेशानस्तदा वै नात्र संशयः ॥५८॥ एवमुक्त्वा स्वयं ब्रह्माऽन्तर्दधे स प्रजापते । पुलहस्तत्र योगं त्वसाधयत्तपसि स्थितः ॥५९॥ ॥ ओमिति श्रीमदंत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते पुलहोपदेशवर्णनं नाम सप्तदशोऽध्यायः ॥ ❧❧❧ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । क्रमेण योगशांतिं च प्राप्तोऽसौ पुलहः स्वयम् । नित्यं गणेशमूर्तिं प्रापूजयत् भक्तिसंयुक्तः ॥ १ ॥ ध्याननिष्ठः सदा योगी तमेवाचिंतयत् प्रभुम् । ततः कियति काले तं गणेशानो ययौ मुनिम् ॥ २ ॥ न बुबोध स तं विप्रो ध्याननिष्ठतया यदा । तदा हृदि स्थितो ढुंढिर्गणेशेन प्रलोपितः ॥ ३ ॥ अंतर्हितं हृदिस्थं तं गणेशं न ददर्श ह । तदा भ्रांत इवापश्यद्ददर्श गणपं बहिः ॥४॥ उत्थाय सहसा विप्रस्तं ननाम कृतांजलिः । विधिवत् पूजयामास विनायकमनामयम् ॥ ५ ॥ पूजयित्वा नमस्कृत्य तं तुष्टाव कृतांजलिः । सरोमांचशरीरः सन् हर्षगद्गदया गिरा ॥ ६ ॥ पुलह उवाच । नमस्ते विघ्नराजाय भक्तानां विघ्नहारिणे । विघ्नदात्रे ह्यभक्तानां गणेशाय नमो नमः ॥ ७ ॥ ब्रह्मणे ब्रह्मरूपाय निराकाराय ते नमः । साक्षिणे सर्वसंस्थायानादिसिद्धाय ते नमः ॥ ८ ॥ अनामयाय देवायाऽप्रतर्क्याय महौजसे । वक्रतुंडाय वै तुभ्यं हेरंबाय नमो नमः ॥ ९ ॥ स्वानंदवासिने तुभ्यं भक्तसंरक्षकाय च । योगानां पतये चैव योगदायिन्नमो नमः ॥ १० ॥ शांताय शांतरूपाय शांतीनां पतये नमः । भक्तेभ्यः शांतिदात्रे च योगशांताय ते नमः ॥ ११ ॥ नानावताररूपाय जगदाधारमूर्तये । सुरासुराणामीशाय सर्वगाय नमो नमः ॥ १२ ॥ सर्ववंद्याय वै तुभ्यं सर्वादौ ☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸
खं. २ अ. १८ पान ४१ संस्थिताय च । सर्वांत एकरूपाय मध्ये नानास्वरूपिणे ॥ १३ ॥ आदिमध्यांतहीनाय सृष्टिस्थित्यंतकारिणे । अनंतोदर- संस्थाय लंबोदर नमोऽस्तु ते ॥ १४ ॥ गजवक्त्राय वै तुभ्यं गजाकाराय ते नमः । गजकर्णाय पूर्णाय गजानन नमोऽस्तु ते ॥ १५ ॥ मूषकध्वजरूपाय मूषकारूढरूपिणे । पाशांकुशधरायैव स्तुताय च विभूतिभिः ॥ १६ ॥ चतुर्भुजधरायैव चतुर्वर्गमयाय च । ब्रह्मभूतस्वरूपाय देहधारिन्नमो नमः ॥१७॥ यं वेदवादिनः स्तोतुं वेदाः सांगाश्च योगिनः । शिवविष्णु- मुखा देवा न समर्था भवंति वै ॥ १८ ॥ तं कथं स्तौमि देवेशं योगरूपमयं प्रभुम् । अतो वै प्रणमामि त्वां प्रसन्नो भव सर्वदा ॥ १९ ॥ वरं मे देहि योगात्मन् तेन तुष्टो भवाम्यहम् । तव भक्तिं दृढां हुंदे व्यभिचारविवर्जिताम् ॥ २० ॥ एवमुक्त्वा मुनिस्तत्र ननर्त प्रेमविह्वलः । तं भक्तिरससंयुक्तमुवाच गणनायकः ॥ २१ ॥ गणेश उवाच । मदीया सुदृढा भक्तिर्व्यभिचारविवर्जिता । भविष्यति महायोगिन् तव चानंददायिका ॥ २२ ॥ यदा मे स्मरणं त्वं वै करिष्यसि महामते । तदा मां द्रक्ष्यसि ब्रह्मन् संस्थितं तव सन्निधौ ॥ २३ ॥ भवत्कृतं मदीयं यत्स्तोत्रं भक्तिप्रदं भवेत् । भुक्तिमुक्तिप्रदं प्रोक्तं शांतियोगप्रदायकम् ॥२४॥ यः पठिष्यति वै मर्त्यः शृणुयात्सर्वसौख्यभाक् । भविष्यति न संदेहो यथा त्वं स तथा भवेत् ॥२५॥ मुद्गल उवाच । एवमुक्त्वा गणाधीशस्तत्रैवांतर्दधे प्रभुः । पुलहस्तत्र संस्तथावभजत्तं गणाधिपम् ॥२६॥ मृगरूपधरस्तत्र भरतः पृथिवीपतिः । संस्थितस्तत्र शुश्राव पूर्णं ज्ञानं विधानतः ॥२७॥ ब्रह्मणा कथितं यच्च पुलहाय सुधीमते । तदेव तेन भूपेन धृतं स्वहृदि सर्वदा ॥२८॥ मनसि ध्यानसंयुक्तो बभूव मृगदेहजः । गणेशस्य सदा दृष्टस्तत्र वासं चकार सः ॥२९॥ ततस्तेन च संगीतं तच्छृणुष्व प्रजापते। अहो विघ्नो महाघोरो मया प्राप्तः सुदुर्जयः ॥३०॥ राज्यं त्यक्त्वा वने नित्यं संस्थितोऽहं हरिं स्मरन् । तत्रापि मृगसंगेन संजातो मृगरूपधृक् ॥३१॥ विष्णुमुख्यामरेशाना विघ्नयुक्ता न संशयः । तत्र कोऽहं मनुष्यो वै जयन् वै विघ्नमुल्बणम् ॥३२॥ विघ्नराजप्रसादेन विघ्नं निघ्नंति दुर्जयम् । शिवविष्ण्वादयः सर्वे जंतवश्च तथा परे ॥३३॥ धन्या भक्तिर्मत्कृता या वैष्णवी परमाद्भुता । यया संस्कारसंयुक्तं संप्राप्तं ज्ञानमुत्तमम् ॥३४॥ गाणपतयो महायोगी दृष्टो वै पुलहो मया । अहो भाग्यमहो भाग्यं मदीयं परमं मतम् ॥३५॥ येनाहं गाणपत्यानां संगे तिष्ठामि नित्यशः । विघ्नहीनः स्वभावेन भजामि गणनायकम् ॥३६॥ एवं गणेशभक्त्या वै संयुतो मृगसत्तमः । कालेन गणपं ध्यात्वा देहत्यागं चकार ह ॥३७॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते भरतमृगदेहत्यागो नामाष्टादशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । आंगिरसकुले विप्रो बभूव मुनिसत्तमः । ततः पुत्रोऽभवत्तस्य भरतो नृपसत्तमः ॥१॥ तत्रापि संगभीतोऽसौ ज्ञानयुक्तो महामुनिः । गणेशं मनसा ध्यायन् संस्थितो मुनिसन्निधौ ॥ २ ॥ तत्र वेदादिषु प्रोक्तं गणेशस्य महात्मनः । स्तवनं संश्रुतं ज्ञानं तेन पूर्वं हठं कृतम् ॥३॥ जडवत्संगसंभीतो बभूव ब्राह्मणोत्तमः । चातुर्यं सकलं तेन गोपितं सर्वसंनिधौ ॥४॥ विवाहादिभयात् सर्वं जडत्वं संप्रकाशितम् । मूर्खवच्चेष्टया तत्र बालभावेन तिष्ठता ॥५॥ तस्योपवीतदानं स चकारांगिरसो मुनिः । पश्चात् संध्यादिकं कर्म शौचाचारमशिक्षयत् ॥ ६ ॥ पित्रा कथितमत्यंतं न जग्राह महामतिः । अन्यथा स चकारापि ताडितो यदि योगिपः ॥७॥ हस्तं धृत्वा पिता तस्य कारयामास वैदिकम् । सर्वमाचमनाद्यं च तथा तेन कृतं किल ॥८॥ पुनः पित्रा च संपृष्टं न सस्मार तदा स्वयम् । जडवत्सर्व आचारस्त्यक्तस्तेन महात्मना ॥९॥ ततस्तस्य कृतं नाम सर्वैर्लोकैः प्रजापते । जड इत्येव सततं कथ्यते यत्र तत्र तैः ॥१०॥ तत्रादरापमानादि तिरस्कारादिकं महत् । संबभूव च तेनापि जडवत्त्यक्तमेव च ॥११॥ लोकाः सर्वेऽवदंस्तत्र ज्ञानमस्य न निश्चितम् । निंदास्तुत्यादिकं सर्वं महामूर्खेण सह्यते ॥१२॥ जडत्वादिकदोषेण विवाहादिकमस्य च । न कृतं जनकेनैव तेनानंदमवाप सः ॥१३॥ ततः कालेन निधनं गतस्तस्य पिता मुनिः । माता सती गुणयुता सहगा संबभूव ह ॥१४॥ मातुः सपत्नी- जाताश्च भ्रातरो नव चाऽभवन् । तेषामधीनतां यातो द्विजोऽसौ शांतियोगधृक् ॥१५॥ भ्रातृपत्न्यो मदोत्सिक्ताश्चक्रुः स्नेहं न चाल्पकम् । उच्छिष्टं कुत्सितं चान्नं ज्वलितं तद्ददुस्तुषम् ॥१६॥ वस्त्राद्यैर्भ्रातरः सर्वे भाषणैः सत्कृतं न तम् । चक्रुः स्नेहं परित्यज्य कुलपांसुं वदंति ते ॥१७॥ तथाप्यमृतवत्सर्वं कुत्सितं क्लिन्नदग्धकम् । अन्नं बभक्ष योगीशश्चीरवस्त्रैः समावृतः ॥१८॥ तदपि भ्रातृजायास्ता अन्नं तस्मै च नो ददुः । द्वित्रिवासरमध्ये स एकभुक् चाऽभवन्मुनिः ॥१९॥ क्षुधया पीडितो योगी गाणपत्यः प्रजापते । भ्रमन्नन्नार्थमत्यंतं गेहे गेहे विचक्षणः ॥२०॥ तत्र लोकैः स्वकार्यार्थे गृहीतो यत्र तत्र सः । चकार सकलं कार्यं तेषामन्नार्थमादरात् ॥२१॥ ततस्ते हर्षिताः सर्वे वस्त्रान्नादिकमादरात् । ददुः सोऽपि प्रसन्नात्मा कर्मकारोऽभवत् स्वयम् ॥२२॥ ततस्तैर्भ्रातृभिर्दृष्टं तमानीय स्वके गृहे । स्वकर्मकारिणं चक्रुर्भांतरो हर्षसंयुताः ॥२३॥ तदपि भ्रातृजायास्ता कुत्सितान्नं ददुस्तुषम् । सुधासमं बभक्षान्नं सोऽपि भावं प्रदर्शयन् ॥२४॥ कदाचित्पक्वशालीनं क्षेत्रेषु स्थापितो मुनिः । भ्रातृभी रक्षणार्थं स रात्रौ वै दिवसे प्रभो ॥२५॥ तत्राऽयं संस्थितो विद्वांस्तत्तथैव चकार च ।
खं. २ अ. २० पान ४३ अन्नार्थं देहभावज्ञः सुखदुःखादिके समः ॥२६॥ तत्र चित्रमभूद्यत्तु तत् शृणुष्व प्रजापते । चौराणां स्वामिना देवी भद्रकालीति संस्तुता ॥२७॥ लभेद्यदि मम द्रव्यं विपुलं च जगन्मयि । तदा पुरुषरूपं ते दास्यामि पशुमुत्तमम् ॥२८॥ द्रव्यं तस्य तथा प्राप्तं तेन संप्रेषिताः स्वकाः । चौरा रात्रौ भ्रमैर्युक्तास्तत्राजग्मुर्यदृच्छया ॥ २९॥ तं गृहीत्वा बलात्सर्वे जग्मुः स्थानं स्वकं खलाः । योगिना देहप्रारब्धं तदा ज्ञातं च तादृशम् ॥३०॥ तत्र चौराधिपेनैव सत्कृतः पूजनादिभिः । भोजनं स चकारापि स्वादु विप्रेन्द्रसत्तमः ॥३१॥ तं पुरस्कृत्य वादित्रैर्निन्दद्भिययौ खलः । देवीसंनिधिमानंदात् पूजितं परमादरात् ॥३२॥ पूजयित्वा महाकाली ततस्तं मुनिपुंगवम् । पुरस्कृत्यासिना हंतुं नग्नं खड्गं चकार सः ॥३३॥ मरणं देहभावस्य दृष्ट्वाऽसौ योगिसत्तमः। न किंचित् क्षुब्धवांस्तत्र सस्मार गणपं हृदि ॥३४॥ अद्यैव पतितो देहोऽथवाऽस्तु चिरजीविकः । तत्र किं कारणं मे वै गजानन नमोऽस्तु ते ॥३५॥ एतस्मिन्नंतरे तत्र देवी कोपसमन्विता । गाणपत्या महाकाली निःसृता मूर्तिमध्यतः ॥३६॥ खड्गं चौराधिपस्याऽपि हस्ताज्जग्राह लीलया । तेन तस्य शिरश्छित्वा पपौ रुधिरमुत्तमम् ॥ ३७ ॥ अन्ये समागताश्चौरास्तेऽपि खड्गेन नाशिताः । चिक्रीड स्वगणैर्देवी गणेशस्तवतत्परा ॥ ३८ ॥ तां प्रणम्य ययौ दक्ष बभ्राम परितस्तु सः । स्वेच्छाचारी महायोगी भिक्षाशी गणपं स्मरन् ॥ ३९ ॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते चौरवधो नामैकोनविंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । सिंधुदेशाधिपो राजा रहूगण इति स्मृतः । पूर्वसंस्कारयोगेन ह्यंतर्निष्ठो बभूव ह ॥१॥ राजा शांत्यर्थमत्यंतं यत्नवान् प्राप्त तां न सः । ययौ गंगासमीपस्थं कपिलाश्रममादरात् ॥२॥ गौतम्या दक्षिणे कूले श्रुतवान् द्विजपुंगवात् । निर्जगाम पुराद्राजा शिबिकायां समास्थितः ॥३॥ गच्छन्मार्गे त्वरायुक्तः श्रांतवाहो महीपतिः । धृत्वा- ऽन्यान्योजयामासुर्वाहार्थं स्वजनास्तदा ॥४॥ तत्र दैवप्रसंगेन समालब्धं महामुनिम् । आंगिरसवरं तं ते चक्रुर्वाहकंमजंसा ॥५॥ ज्ञात्वा देहं महायोगी प्रारब्धाधीनमादरात् । वाहको नृपतेर्दक्ष बभूव विगतज्वरः ॥६॥ अहिंसापरमो योगी मार्गे जंतुमवेक्ष्य सः । स्वपादक्षेपणं तत्र चकार प्राणिवर्जिते ॥७॥ तेन सर्वे बभूवुश्च वाहका मंदगामिनः । दोलायिता च
खं. २ अ. २० पान ४४
शिबिका तया राजा सुदुःखितः ॥८॥ ततः क्रोधसमाविष्टो रहूगण उवाच तान् । सम्यक् च शिबिकां वाहा वहध्वं सुप्रयत्नतः ॥९॥ ततो भीताश्च ते सर्वे तमूचुरधुना नृप । आनीतः सुदुरात्मार्यं यथा चलति मद्यपः ॥१०॥ ततो राजा महात्मानमुवाच शठ किं त्वया । उन्मत्तवद्गतिर्दुष्टा क्रियते मम सन्निधौ ॥११॥ ततो भाविबलेनासावांगिरस उवाच ह । ज्ञात्वा तं योगमिच्छंतं पात्रभूतमनादरात् ॥१२॥ जडभरत उवाच । मायामयमिदं सर्वं भ्रांतिरूपमसत्यकम् । तत्र राजजनानां वै जनः कुत्र प्रदृश्यते ॥१३॥ वयं द्वंद्वं प्रेषयित्वा समभावेन संस्थिताः । शिक्षाकर्ता न भविताऽस्माकं राजा महाबलः ॥१४॥ तेन किं योगमार्गं वै त्यक्त्वा तिष्ठेम सांप्रतम् । तदधीना भवामः किमज्ञानेन वदत्ययम् ॥१५॥ इत्युक्त्वा मौनमास्थाय शिबिकां पूर्ववद्वहन् । आंगिरसो महायोगी चचाल गणपं भजन् ॥१६॥ राजा श्रुतं महावाक्यं योगग्रंथित- मुत्तमम् । भयभीतश्च तेनासावुपपात महीतले ॥१७॥ दृष्ट्वा तं मलिनं विप्रं यज्ञोपवीतसंयुक्तम् । बिभ्राणं चीरवसनं ब्रह्मतेजः सनातनम् ॥१८॥ प्रणाम स साष्टांगं कृतांजलिपुटः स्थितः । जगाद भयभीतो वै रहूगणः स धर्मवित् ॥१९॥ रहूगण उवाच । क्षमापराधमतुलं मम ब्रह्मन् दयानिधे । अज्ञानेन कृतं कर्म किं विप्रोऽसि वदस्व माम् ॥२०॥ अवधूता महात्मानश्चरंति यत्र कुत्र वै । तथा त्वमपि मे भासि यज्ञोपवीतधारक ॥२१॥ कपिलः किं नारदश्चांगिरा पुलहकः क्रतुः । दत्तो वा याज्ञवल्क्यश्च वद मां करुणानिधे ॥२२॥ अहं बिभेमि विप्रेंद्र ब्राह्मणानामधर्षणात् । न ब्राह्मणसमं किंचिद्दैवतं सचराचरे ॥२३॥ साक्षात् परमेश्वरस्याऽपि तनवो ब्राह्मणा मताः । कर्माधाराश्च ज्ञानानामाधारा ब्रह्मधारकाः ॥२४॥ ब्राह्मणस्य मुखेनैव यच्छ्रुतं तत्समागतम् । देवस्थानेषु देवानामुदरे नात्र संशयः ॥२५॥ ब्राह्मणेभ्यश्च यद्दत्तं तदक्षयपद- प्रदम् । उद्धाराय जनानां वै ब्राह्मणाः संमताः किल ॥२६॥ मंत्राधीना देवगणा मंत्रा विप्राधीना मताः । देवानां जीवनं सर्वं द्विजाधीनं च तेन वै ॥२७॥ मंत्रहीनं च यत्कर्म निष्फलं जायते किल । कर्माधीनं जगत् सर्वमतो ब्राह्मणमूलकम् ॥२८॥ कर्मनिष्ठास्तपोनिष्ठा ज्ञाननिष्ठा द्विजोत्तमाः । योगिनश्च भवतीह तारका जगति स्थिताः ॥२९॥ सर्वेषां गुरवो विप्रा ज्ञानदास्तेन संमताः । साक्षाद् ब्रह्मस्वरूपा वै ब्राह्मणा नात्र संशयः ॥३०॥ तेषां हेलनमात्रेण पतंति शिवमुख्याः । सेवनेन च तेषां वै सर्वं स लभते जनः ॥३१॥ ब्राह्मणानां च शापेन विष्णुमुख्या सुरेश्वराः । पतिता ह्यवतारेषु पुनः संस्थापिता द्विजैः ॥३२॥ अतो बिभेमि विप्रेश वद कस्त्वं महामते । विष्णुशिवादिदेवेभ्यस्तथाऽहं न बिभेमि वै ॥३३॥ एवमुक्त्वा पुनः पादौ गृह्य तं
खं. २ अ. २१ पान ४५ प्रणाम सः। पादपद्मे शिरः स्थाप्य रुरोद भयविह्वलः ॥३४॥ ततोऽसौ करुणाविष्टो जडभरतस्तमब्रवीत् । उत्थाप्य नृपशार्दूलं प्रश्रयाऽवनतं वचः ॥३५॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते जडभरतरहूगणमिलनो नाम विंशतितमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ जडभरत उवाच । आह मांगिरसो नाम जडभरतः प्रकथ्यते । स्वायंभुवश्च भरतोऽधुना जडश्च तेन वै ॥१॥ मा चिंतां कुरु राजर्षे ह्यज्ञानेन त्वया कृतम् । हेलनं मम देहस्य पापदं न भविष्यति ॥२॥ गच्छ राजन्यथेच्छं त्वं मत्तो वै न भयं तव । गमिष्यामि स्वतंत्रोऽहं प्रारब्धेन नियंत्रितः ॥३॥ मुद्गल उवाच । तस्य योगींद्रमुख्यस्य श्रुत्वा वचनमुत्तमम् । रहूगण उवाचाथ तं प्रणम्य महायशाः ॥४॥ रहूगण उवाच । धन्यं कुलं मदीयं वै पितरौ ज्ञानमाश्रमः । तपो विद्या यशो दानं तवांध्रियुगदर्शनात् ॥५॥ अहं सिंधुमहीपालो रहूगण इति स्मृतः । राज्यादिविषयं त्यक्त्वा निःसृतो मुनिसत्तम ॥६॥ शांत्यर्थं कपिलं यामि गौतमीतीरवासिनम् । त्वं साक्षाद् ब्रह्मरूपश्च दैवेन दर्शनं गतः ॥७॥ मां शिष्यं तारय मुने योगबोधेन सत्तम । साक्षात् शांतिं वद विभो यया शांतो भवाम्यहम् ॥८॥ तस्य तद्वचनं श्रुत्वा कृपया परया युतः । जगाद तं नृपेंद्रं स आंगिरसो महाद्युतिः ॥९॥ शृणु राजन् त्वया पृष्टं वेदगुह्यं च दुर्गमम् । कथयामि तथापि त्वां योगशांतिकरं परम् ॥१०॥ देहश्चतुर्विधः प्रोक्तस्तत्र देही चतुर्विधः। भ्रांत्या भिन्नत्वमाश्रित्यैकोऽपि भाति तदात्मकः ॥११॥ देहानां ब्रह्म यत्प्रोक्तं बिंदुमात्रं च दृश्यते। देहीनां ब्रह्मरूपं वै सोऽहं मात्रात्मकं किल ॥१२॥ तयोः संयोग एवाऽसौ बोधात्मक उदाहृतः । स्वतोत्थानमिदं ब्रह्म विकल्पाद्द्विविधं मतम् ॥१३॥ बोधनाशे महीपाल उत्थानं जायते न च । सांख्यरूपं हि तद्ब्रह्म केवलं स्वसुखे रतम् ॥१४॥ यत्र परसुखं नास्ति तत्र वै स्वसुखं कथम् । ततः परत उत्थानयुक्तं ब्रह्म प्रकीर्तितम् ॥१५॥ तत्रोत्थानस्य बीजं यत्स्थितं भिन्नात्मकं परम् । स्वसौख्यनिष्ठरूपं हि बोधहीनप्रभावतः ॥ १६ ॥ स्वतः परत उत्थानहीनं स्वानंदवाचकम् । संयोगाभेदरूपं वै जानीहि नृपसत्तम ॥१७॥ स्वानंदं पंचभेदं च स्वयं सर्वत्र संस्थितम् । सत्यासत्यसमं चेति नेतिरूपं चतुर्थकम् ॥१८॥ स्वतः परत उत्थानमेतन्नाम प्रकीर्तितम् । तयोरनुभवो यः स्यात्तस्य रूपं
खं. २ अ. २२ पान ४६ तदेव च ॥१९॥ ताभ्यां नानाविधं ब्रह्मान्नादि वेदे प्रकीर्तितम् । जगन्नानाविधं तद्वज्जानीहि नृपसत्तम ॥२०॥ नामरूपमयं सर्वमसत्यं परिकीर्तितम् । शाक्तं ब्रह्म समाख्यातं वेदे वै वेदवादिभिः ॥२१॥ नामरूपात्मकं यत्तत्सदा खंडमयं स्मृतम् । अमृतं सौरमात्मा तद्ब्रह्म सर्वप्रकाशकम् ॥ २२ ॥ तयोर्भेदकर्ताऽसौ विष्णुरानंदसंज्ञितः । द्वयोः समं च तद्ब्रह्म भावाभावमयं परम् ॥ २३ ॥ त्रिभिर्हीनं तुरीयं यन्नेति कर्ता शिवः स्मृतः । अव्यक्तं मोहहीनं यत् स्वाधीनं ब्रह्म तन्मतम् ॥२४॥ चतुर्णां चैव संयोगो यत्राभेदमयः स्मृतः । स एव स्वस्वरूपाख्यो मायायुक्तो विनायकः ॥ २५ ॥ संयोगनाशकारी चायोगः सर्वत्र समंतः । निर्मायिको गणेशः स कथितो योगिभिर्नृप ॥२६॥ अयोगे योगिनां राजन्निवृत्तिरुपजायते । स्वकीयभेदहीनत्वात्तद्ब्रह्मायोगसंज्ञकम् ॥२७॥ अत एव स्वनाशाख्यनिवृत्या तच्च लभ्यते । मायया सर्वसंयोगे तद्धीनं ब्रह्म तत् स्मृतम् ॥२८॥ अयोगश्चैव संयोगो योगे तौ न प्रपश्यति । तदेव गणनाथो हि योगशांतिमयः स्मृतः ॥२९॥ मायायुक्तश्च मायावी मायाहीनश्च केवलः । तदेव भ्रांतिमात्रं यत्त्यक्तव्यं योगिभिः सदा ॥३०॥ चित्तं पंचविधं प्रोक्तं तदैश्वर्यं महामते । मोहदं द्विविधं त्यक्त्वा शांतिरूपो भविष्यसि ॥३१॥ एवमुक्त्वा महायोगी विरराम प्रजापते । सोऽपि तं प्रणनामाथ राज्यं त्यक्त्वा वनं ययौ ॥३२॥ एवं रहूगणो राजा साधयित्वा विधानतः । शांतिं प्राप्तो महातेजा गाणपतयो बभूव ह ॥३३॥ ॥ ओमिति श्रीमदन्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते रहूगणसिद्धिप्राप्तिवर्णनं नामैकविंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । तत आंगिरसो योगी विचचार महीतले । मयूरेशस्य स क्षेत्रं आययौ दैवयोगतः ॥१॥ तत्र पूर्वावतारं च गणेशस्य महात्मनः । दृष्ट्वा ज्ञात्वा स्थितस्तं स ध्यायन्नेकत्र मूढवत् ॥२॥ वर्षमात्रे गते तस्य दर्शनार्थं ययौ स्वयम् । गणेशो मूषकारूढः सिद्धिबुद्धिसमन्वितः ॥३॥ तं दृष्ट्वा प्रणनामादौ तुष्टाव प्रांजलिः प्रभुम् । रोमांची साश्रुनेत्रः स भक्तिभावनि मज्जितः ॥४॥ जडभरत उवाच । नमः शांतिस्वरूपाय शांतिदाय कृपालवे । विघ्नेशाय नमस्तुभ्यं हेरंबाय नमो नमः ॥५॥ सिद्धेः पते च तद्दात्रे भक्तानां भयभंजन । भक्तिप्रियाय वै तुभ्यं भक्तभक्ताय ते नमः ॥६॥
खं. २ अ. २२ पान ४७ बुद्धेः पते धियो दात्रे सर्वविद्याकलात्मने । ज्ञानरूपप्रकाशाय गणेशाय नमो नमः ॥७॥ मूषकारूढ वै तुभ्यं चतुर्बाहुधराय च। स्वानंदवासिने देव वक्रतुंडाय ते नमः ॥८॥ नानाविहारयुक्तायानंतरूपाय ते नमः । अमेयाय सदायोगशांतिस्थाय नमो नमः ॥९॥ धन्योऽहं कृतकृत्योऽहं येन दृष्टो गजाननः । वेदादौ गोचरोऽयं न कृपया सहसाऽऽगतः ॥१०॥ मया किं ते कृतं देव दर्शनार्थ किमागतः । भक्त्या समं न किंचित्ते प्रियं ज्ञातं मयाधुना ॥११॥ भक्त्या त्वां हृदि संध्यायन् संस्थितो जडवत्प्रभो । त्वमेव मोहितो भक्त्या मम संन्निधिगः कृतः ॥१२॥ अहो भक्तिसमं किंचिन्नैव दृष्टं न च श्रुतम् । यया त्वं शांतियोगस्थो मोहितः सहसाऽऽगतः ॥१३॥ त्वदीयांशसमुत्पन्नं सकलं ब्रह्मनायक । किं ददामि गणेशान येन तुष्टो भविष्यसि ॥१४॥ अतस्त्वां नमनं कुर्वे देहोऽयं ते निवेदितः । वरं देहि महाबाहो येन तृप्तो भवाम्यहम् ॥१५॥ भक्तिं दृढां त्वच्चरणे व्यभिचारविवर्जिताम् । देहि नाथ दयासिंधो नान्यद् याचे कदाचन ॥१६॥ एवमुक्त्वा गणाध्यक्षं ननाम स पुनः पुनः । प्रेम्णा ननर्त योगींद्रस्तमुवाच गणाधिपः ॥१७॥ गणेश उवाच । भविता सुदृढा भक्तिर्मम ते मुनिसत्तम । व्यभिचारविहीना ते न चांगिरस संशयः ॥१८॥ त्वया कृतमिदं स्तोत्रं मदीयं योगशांतिदम् । भविष्यति महाभाग मम प्रीतिकरं परम् ॥१९॥ यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठकः । शृणुयात्तस्य तद्वच्च भविष्यति न संशयः ॥२०॥ एवमुक्त्वां- तर्दधेऽसौ गणनाथः प्रजापते । स मुनिर्भक्तिसंयुक्तोऽभवत्तत्रैव संस्थितः ॥२१॥ अंते गणेशरूपोऽसौ जातो योगींद्रसत्तमः । गुहा तत्र प्रसिद्धा वै वर्ततेऽद्य महामुनेः ॥२२॥ गणेशोत्तरभागे च संमुखे क्रोशदूरकम् । स्थानमांगिरसस्याऽपि भरतस्य जडात्मनः ॥२३॥ कुर्वंति दर्शनं तस्य तत्र ये मानवादयः । तेषां मुक्तिर्भवेद्दक्ष शाश्वती नात्र संशयः ॥२४॥ चरितं भरतस्येदं कथितं परमाद्भुतम् । शृणुयाद्यो नरो भक्त्या पठेद्वा भुक्तिमुक्तिदम् ॥२५॥ एवमाद्याश्च राजानः प्रियव्रतकुलेऽभवन् । उत्पन्नाः सर्वधर्मज्ञा नानादेवपरायणाः ॥२६॥ ॥ ओमिति श्रीमद्दांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते जडभरतचरितं नाम द्वाविंशोऽध्यायः ॥
पान ४८
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । स्वायंभुवमनोः पुत्र उत्तानपादसंज्ञितः । स राज्यं मध्यदेशस्य चक्रे वै धर्मसंयुतः ॥१॥ तस्य भार्ये प्रविख्याते सुनीतिः सुरुचिस्तथा । सुनीत्यां च ध्रुवो जज्ञे सुरुच्यामुत्तमस्ततः । ॥२॥ सुरुच्या स्ववशं नीतो तया राजा विमोहितः । सुनीतिं मन्यते न स्म मनसाऽपि प्रजापते ॥३॥ एकदा ध्रुवपुत्रश्चाययौ राज्ञः समीपकम् । आरोढुमिच्छन्नुत्संगे संस्थितस्तस्य सन्निधौ ॥४॥ तत्रावमानितस्तेन सुरुच्या दुष्टभावतः । ततो ध्रुवो वनं दक्ष जगाम क्रोधसंयुतः ॥५॥ मार्गे वै गच्छतस्तस्य नारदो दृष्टिमागतः । तं ननाम महाबुद्धिर्बालोऽयं धर्मधारकः ॥६॥ वृत्तांतमखिलं ज्ञात्वा नारदेन महात्मना । उपदिष्टो महामंत्रो विष्णोश्च द्वादशाक्षरः ॥७॥ नारदं स प्रणम्याऽऽदौ मथुरायां ययौ ततः । तपश्चकार तत्राऽसौ ध्यायन्विष्णुं सनातनम् ॥ ८ ॥ सहस्रवर्षमत्यंतं तताप परमं तपः । प्रसन्नो भगवांस्तत्र तं ययौ भक्तिभावतः ॥९॥ ददौ राज्यमखंडं वै पृथिव्याः परमाद्भुतम् । अंते स्वर्गस्य राज्यं च पदं विष्णोर्ध्रुवात्मकम् ॥१०॥ ततः स्वगृहमागत्य ननाम पितरौ ध्रुवः । तं राजा मानयामास बहुलं तेजसा युतम् ॥११॥ कालेन तं ध्रुवं राजा चकार स नराधिपः । वनं ययौ महातेजास्तताप परमं तपः ॥१२॥ तत्रागत्य च गाणेशो नारदस्तमुवाच सः । भेदाभेदादिहीनं त्वं गणेशं भज पार्थिव ॥१३॥ शिवविष्णुवादयो देवा योगिनः सनकादयः । वसिष्ठाद्या ऋषिगणा भजंते तं न संशयः ॥१४॥ न गणेशं विना शांतिर्लभ्यते नात्र संशयः । स्वायंभुवादिभूपालैः सेवितो गणनायकः ॥ १५ ॥ एवमुक्त्वा गणेशस्य ददौ मंत्रं षडक्षरम् । राजा मंत्रप्रभावेण गाणपत्यो बभूव ह ॥१६॥ मरणे गणनांथं वै सस्मार स नृपोत्तमः । सायुज्यं गणनांथस्य प्राप्तं तस्य महात्मनः ॥१७॥ ध्रुवो राज्यं चकाराथ धर्मयुक्तो महीपतिः । जगाम सहसा तत्र नारदः करुणानिधिः ॥१८॥ तं दृष्ट्वा प्रणनामाऽसौ पूजयामास भक्तितः । स्वगुरुं पूर्णभावेन कृतांजलिपुटः स्थितः ॥१९॥ तमुवाच महायोगी नारदो दिव्यदर्शनः । स्वशिष्यं भक्तिसंयुक्तं दयया च दयानिधिः ॥२०॥ नारद उवाच । शृणु ध्रुव वचो रम्यं वैकुंठा- दागतोऽधुना । विष्णुना प्रेषितोऽहं वै तव हेतोर्महामते ॥२१॥ मयूरेशस्य यत्क्षेत्रं भुवि ब्रह्ममयं परम् । तत्र गत्वा महायात्रां कुरु त्वं विधिवत्सुत ॥२२॥ तेनाक्षयपदं ते वै भविष्यति मदीयकम् । अन्यथा विघ्नसंयुक्तः पतिष्यसि न संशयः ॥२३॥ अन्यच्च कथितं तेन विष्णुना करुणावता । एकाक्षरं गणेशस्य महामंत्रं जपेति वै ॥२४॥ तेन मंत्रप्रभावेण लये ब्रह्मदिनात्यये । लयं ध्रुवपदं गच्छेत्तदा त्वं शांतिमेष्यसि ॥२५॥ ब्रह्मणि ब्रह्मभूतश्च भविष्यसि न संशयः । अन्यथा
खं. २ अ. २४ | पान ४९
योगशांतिं त्वं न प्राप्स्यसि कदाचन ॥२६॥ ततस्तं नारदो योगी ददौ मंत्रं विधानतः । एकाक्षरं गणेशस्य राजा सिद्धो बभूव सः ॥२७॥ मयूरेशस्य वै क्षेत्रे ध्रुवः सद्यः समागतः । चकार विधिवद्यात्रां द्वाराणां चिह्नसंयुताम् ॥२८॥ गणेशं स्थापयामास ब्राह्मणैर्मंत्रकोविदैः । अर्धक्रोशे गणेशात् नापूर्वद्वारसमीपगम् ॥ २९ ॥ देवालयं चकाराऽसौ महामौल्यं सुविस्तृतम् । सुवर्णशिखरं रम्यं पूजितं वै सुभक्तितः ॥ ३०॥ नाम तस्याऽकरोद्राजा तदा ध्रुवविनायकः । वर्षमासं निवासं च ध्रुवस्तत्र चकार ह ॥३१॥ पश्चात् स्वनगरे गत्वा राज्यं चक्रे महाबलः । जगाम स्वर्गमंते स ध्रुवाख्यं ज्योतिषां धरम् ॥३२॥ तस्मिन् गणपतिं ध्यायन् संस्थितोऽसौ महायशाः । ध्रुवस्थानस्य नाशेऽंते गतः स्वानंदमंजसा ॥३३॥ ध्रुवं विनायकं दृष्ट्वा भुक्तिं मुक्तिं सुनिश्चलाम् । लभते मानवस्तत्र श्रुत्वा ध्रौव्यमिदं तथा ॥३४॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते ध्रुवचरित्रं नाम त्रयोविंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ध्रुवस्यान्वयसंभूतोऽङ्गस्तेजस्वी महीपतिः । धर्मात्मा सर्वमान्यश्च पितृवत् पालको- ऽभवत् ॥१॥ मृत्युकन्याऽभवद्भार्या राज्ञस्तस्य महात्मनः । तस्यां तस्मात् समुत्पन्नः पुत्रो वेनः सुदारुणः ॥२॥ तं पिता शिक्षयन् श्रांतो न साधुरभवत् सुतः । राज्यं त्यक्त्वा वनं राजा दुःखयुक्तो जगाम ह ॥३॥ ततो राजविहीने च देशे चोराः प्रबभ्रमुः । तैर्लुंठितं जनानां स्म सर्वस्वं यत्र तत्र हि ॥ ४ ॥ प्रजाः सर्वा भयोद्विग्ना ब्राह्मणान् शरणं ययुः । ब्राह्मणै राज्य आसिक्तः स वेनः पैतृके ततः ॥५॥ स राज्यं प्राप्य दुर्धर्षश्चोरान् हत्वा समंततः । राज्यं चकार देशेषु कंपयन् वसुधात लम् ॥६॥ नयमार्गं परित्यज्य यथेच्छाचारकोऽभवत् । तेन वर्णाश्रमाचारसंयुता दुःखिताः कृताः ॥ ७ ॥ पुनस्ते तापसांस्तान्वै शरणं जग्मु- रादरात् । तापसैर्वारितो वेनस्तानुवाच द्विजोत्तमान् ॥ ८ ॥ वेन उवाच । अहं पूज्यश्च सर्वेषां पालको नात्र संशयः । मां भजध्वं मुनींद्रा वै योगक्षेमकरं सदा ॥ ९ ॥ तस्य तद्वचनं श्रुत्वा कुपिता ब्राह्मणास्ततः । शापेन मारयामासुस्तं नृपं नयवर्जितम् ॥ १० ॥ तस्यांगं वाममेवादौ ममंथुर्नृपहेतवे । तस्मात् क्रूरः समुत्पन्नस्तस्य पापमयो नरः ॥ ११ ॥ ह्रस्वकायः श्यामवर्णः श्मश्रुलः पिंगलोचनः । तं दृष्ट्वा ब्राह्मणाः प्रोचुर्निषीदेति प्रजापते ॥ १२॥ ततो निषादनामाऽसौ जातस्तस्मै
वनांतरे । स्थानं ददुर्द्विजश्रेष्ठा निषादास्तत् समुद्भवाः ॥१३॥ पुनश्च दक्षिणांगं ते ममंथुर्द्विजसत्तमाः । वेनस्य दंपती तस्मात् समुद्भूतौ महौजसौ ॥१४॥ विष्णोः कलायुतौ साक्षाद्ब्राह्मणान्नेमतुः पुरा । ब्राह्मणैर्नृपवर्यः स संसिक्तो राज्यकर्मणि ॥१५॥ पृथुनामा महीपालो विख्यातोऽभूच्च मंडले । स्वधर्मनिरतः साक्षात् क्षात्रधर्मप्रवर्तकः ॥ १६॥ तेन संवर्धिता लोका वर्णा- श्रमयुता विधे । पुरे मुमुदिरे देशे यत्र तत्र सुसत्कृताः ॥१७॥ गते कियति काले वै लोका अन्नविवर्जिताः । क्षुधया पीडिताः सर्वे तं नृपं शरणं ययुः ॥१८॥ वेनस्याधर्मभावेन भूम्या सर्वं समाहृतम् । पुनर्दातुमशक्ता वै धर्मरूपे नराधिपे ॥ १९॥ लोकानां दुःखमाकर्ण्य कुपितोऽसौ नराधिपः । विचार्य धनुरादाय शरं श्रेष्ठं युयोज च ॥ २०॥ भूमिं हंतुं मनश्चक्रे व्याकर्णाकर्षितं धनुः । यावद्बाणं स चिक्षेप तावद्भीता वसुंधरा ॥ २१॥ गोरूपेण भयोद्विग्ना यत्र तत्र पलायत । आत्तबाणो नृपः पश्चाद्ययौ यम इवापरः ॥ २२॥ शरणं नाऽपतद्भूमिस्तमेव शरणं ययौ । उवाच प्रांजलिर्भूत्वा नृपं कंपसमन्विता ॥ २३ ॥ स्त्रियं मां गां कथं हंसि भूमिपाल वसुंधराम् । शरणागतरूपां ते रक्ष क्षत्रकुलोद्भव ॥ २४ ॥ भूमेर्वचनमाकर्ण्य तां जगाद नृपोत्तमः । शृणु त्वां मारयिष्यामि मच्छातनपराङ्मुखीम् ॥ २५॥ जीवितुं चेच्छसि प्राज्ञे तदान्नं विविधं धरे । कुरु प्रकटरूपं त्वं सर्वकालं न संशयः ॥ २६ ॥ ततस्तं विनयं कृत्वा सा जगाद वसुंधरा । मया ग्रस्ता समग्रा या ओषध्यश्च नृपात्मज ॥ २७॥ भक्षितास्ताः पुनर्दातुं कथं शक्ता भवामि भोः । अतस्त्वं मां समामादौ कुरु पार्थिवसत्तम ॥ २८॥ गोरूपाहं स्थिता भूप वत्सं कृत्वा स्वभावजम् । सकला दुग्धरूपेणौषधीस्ते प्रददाम्यहम् ॥ २९॥ दोहकः कल्प्यतां शीघ्रं तदा सर्वं शुभं भवेत् । अन्यथा मां महीपाल हनिष्यसि वृथा कथम् ॥ ३०॥ तस्या वचनमाकर्ण्य धनुष्कोट्या नृपोत्तमः । पर्वतांश्चूर्णयामास समां भूमिं चकार ह ॥ ३१ ॥ पुरग्रामादिकानां तु रचना रचिता ततः । तेनैव पृथुना दक्ष यथायोग्यं धरातले ॥ ३२॥ तदादिर्नगराद्यानां रचना संप्रवर्तिता । पुत्रीत्वे स धरां चक्रे पृथ्वी नाम्नी ततोऽभवत् ॥ ३३॥ मनुं वत्सं ततः कृत्वा दोहकश्चाऽभवत्स्वयम् । षड्रसान्नमयं दुग्धं दुदोह नृपसत्तमः ॥ ३४॥ ततः सर्वे त्रिलोकस्था दुदुहुस्तां वसुंधराम् । स्वस्वान्नमयदुग्धं ते जगृहुः परमाइताः ॥३५॥ ब्रह्माणं वेदरूपं सुवत्सं कृत्वा बृहस्पतिः । दोहको दुग्धमादाय संस्थितो विगतज्वरः ॥ ३६ ॥ रुद्रं वत्सं ततः कृत्वा दोहकः पिशितात्मकम् । कालाग्निरुद्रसंज्ञश्च दुदोह हरजीवनम् ॥ ३७॥ विष्णुं वत्सं समादाय यजमानश्च दोहकः । यज्ञाधारमयं दुग्धं दुदोह खलु कर्मजम् ॥ ३८॥
खं. २ अ. २५ पान ५१ सूर्यं वत्सं चकारापि दोहको ध्रुव आदरात् । ज्योतिषां जीवनं दुग्धं दुदोह सकलं ततः ॥ ३९ ॥ शेषं वत्सं च संगृह्य दुदोहाऽपि च वासुकिः । सर्पाणामन्नरूपं वै दुग्धं दुग्धप्रियस्ततः ॥ ४० ॥ शिवं वत्सं प्रकल्प्यैव दोहको नंदिकेश्वरः । विद्यात्मकं महद् दुग्धं दुदोह गतमत्सरः ॥ ४१ ॥ एवं सर्वे च दुदुहुर्भूमिं गां पृथुभाविताम् । चराचरमया जीवा ईश्वराश्च प्रजापते ॥ ४२ ॥ पृथुस्तां पूजयामास धरणीं धरणीप्रियः । पुत्रीत्वे पालिता हर्षात्सा स्थिता मुदिता तथा ॥ ४३ ॥ एवं दुग्ध्वा धरित्रीं स पृथुः पृथुपराक्रमः । राज्यं चकार नीतिज्ञः पृथिव्यामेकराट् स्वयम् ॥४४॥ ततो यज्ञांश्चकाराऽसौ शतसंख्यान् महाबलः । अश्वमेधाभिधान् राजा भूरिदक्षिणसंयुतान् ॥ ४५ ॥ तस्य यज्ञे स्वयं ब्रह्मा विष्णुः शंकर एव च । इंद्राद्या आययुः सर्वे गंधर्वाद्या महामते ॥ ४६ ॥ ऋषयः कश्यपाद्याश्च शेषाद्या नागमुख्यकाः । जना नानाविधा जग्मुः सस्त्रीकाश्च विशेषतः ॥४७॥ अंत्ये यज्ञे समारब्धे शक्रश्चिंतातुरो भृशम् । जटाचीरधरो भूत्वा तस्याश्वं सहसाऽऽहरत् ॥४८॥ तस्य पुत्रेण संदृष्टस्तपस्वीति च मोचितः । हयं त्यक्त्वा भयोद्विग्नोंतर्धानं तु चकार सः ॥ ४९ ॥ पुनरस्थिधरो भूत्वा भस्मना लेपकारकः । जहाराश्वं तथा राजपुत्रेण न स ताडितः ॥ ५० ॥ एवं षड्वारमश्वं स संजहार पुरंदरः । ततस्तं हंतुमुद्युक्तः पृथुः पृथुपराक्रमः ॥ ५१ ॥ तं ब्रह्मा सांत्वयामास महेंद्रं न जघान ह । एकोनशतयज्ञान् स चक्रे वै तेजसा युतः ॥ ५२ ॥ ब्रह्मणा नोदितः साक्षादिंद्रस्तं प्रणनाम ह । पृथुर्वैरं समुत्सृज्य देवेंद्रं तं प्रसस्वजे ॥ ५३ ॥ सकलाः पूजितास्तेन देवाद्याः स्वस्थलं ययुः । सोऽपि राज्यं स्वधर्मस्थश्चक्रे वै पालयन् प्रजाः ॥ ५४ ॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मद्गले महापुराणे द्वितीये खंडे एकदंतचरिते पृथुयशोवर्णनं नाम चतुर्विंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । जनानां धर्ममार्गं सो शिक्षयन्नृपसत्तमः । विष्णुरूपः स्वयं साक्षाद्विष्णुंतुल्यपराक्रमः ॥ १ ॥ संस्थितः स्वपुरे राजा लोकान् संरंजयन् प्रभो । तत्राऽऽजग्मुश्च योगींद्राः सनकाद्या विधेः सुताः ॥२॥ चत्वारः सूर्यसंकाशाः सदा बालवयोन्विताः । पूर्वैषां पूर्वजा मान्या गतभ्रांतय एव ते ॥ ३ ॥ तान् दृष्ट्वा सहसोत्थाय संभ्रमेण नरोत्तमः । ननाम दंडवद्भूभौ शिरः संस्थाप्य पादयोः ॥४॥ उत्थाय तान् महाभक्त्या पाद्यार्घ्यैर्विष्टरादिभिः । अपूजयत्स विधिवत् हर्षितोऽत्यंत-