मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 142, कुल 1023 में से
संदर्भ में पढ़ेंयोऽग्निश्च स पुत्रस्तु शुचिः स्मृतः। सर्वत्रगः स रुद्रात्मा ब्रह्मपुत्रोऽग्निरुच्यते ॥५२॥ अमूर्तयोऽग्निष्वात्ता हि सांगा बर्हिषदः स्मृताः। पितरश्च स्वधा तेभ्योऽसूत द्वे तनये तथा ॥५३॥ मेना च धरणी नाम्नी ते उभे ब्रह्मवित्तमे। असूत मेना मैनाकं क्रौंचं हिमवतो मुने ॥५४॥ गंगां लोकपवित्रां च पार्वतीं परमेश्वरीम्। ते उभे शंकरं देवं लेभाते पतिमुत्तमम् ॥५५॥ तपसा गिरिराजेन मेनयाराधिता सती। वरदानप्रभावेण पार्वती तनयाऽभवत् ॥५६॥ धरणी मेरुशैलस्य पत्नी कन्ये प्रजापते। सुषुवे चायतिं चैव नियतिं कथिते पुरा ॥५७॥ एषा दक्षस्य कन्यासु संततिः कथिता मया। पठते शृण्वते चैव सर्वकामफलप्रदा ॥५८॥ ॥ ओमिति श्रीमदान्ते पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते दक्षकन्यावंशवर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच। दक्षकन्याप्रसूतेभ्यः पितरः परमाहृताः। गणेशाराधनं तेभ्यो ददुः प्रत्येक्रमादरात् ॥ १ ॥ नानामंत्रान्यतान्धार्य साधयित्वा च ते वने। गत्वाऽजपंश्च हेरंबं ध्यात्वा तपसि संस्थितः ॥२॥ ततो वर्षसहस्रेण परितुष्टो गजाननः। वरं दातुं ययौ तत्र भक्तिभावेन तोषितः ॥ ३॥ तं दृष्ट्वा तुष्टुवुः सर्वे बद्धांजलिपुटाः प्रभुम्। भक्तिभाव- समायुक्ता गणेशं सर्वसिद्धिदम् ॥ ४॥ ऋषिपुत्रा ऊचुः। नमस्ते वक्रतुण्डाय भक्तरक्षकरूपिणे। ब्रह्माकाराय देवाय ब्रह्मभूताय ते नमः ॥ ५॥ मनोवागतिरूपाय मनोवाग्गम्यमूर्तये। योगाकाराय योगाय योगिने ते नमो नमः ॥ ६॥ निराकाराय विघ्नेश भक्तविघ्ननिवारक। शांतिरूपाय सर्वत्र शांतिदाय नमो नमः ॥ ७॥ सृष्टिरक्षणसंहारकारिणे ते नमो नमः। सर्वपूज्याय सर्वाय नमः सर्वादिमूर्तये ॥ ८॥ मायाविकारहीनाय मायिने मोहदायिने। मायाधाराय मायायाश्चालकाय नमो नमः ॥ ९॥ अनंतविभयायैवानंतोदारपराक्रम। अनंताननहस्ताय सर्वसाक्षिन्नमोऽस्तु ते ॥ १० ॥ वेदांतागम्यरूपस्त्वं दृष्टो वै भाग्यगौरवात्। स्तुतिं कर्तुं समर्था न वयं तव गजानन ॥ ११ ॥ धन्यो नो जनको देव वयं धन्यतमा विभो। विद्या व्रतं तपो मंत्रोऽस्माकं गणपदर्शनात् ॥ १२ ॥ वरदश्वेदेकदंत भक्तिं देहि दृढां त्वयि। यया मायामयो मोहो नश्येद्वै वरद प्रभो ॥ १३ ॥ स्वस्वकार्येषु सामर्थ्यं देहि देव गजानन। यद्यदिच्छामहे तत्तत् सफलं भवतु प्रभो ॥ १४ ॥ एवमुक्तवा