मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 143, कुल 1023 में से
संदर्भ में पढ़ेंखं. २ अ. ७ पान १७ पूजयंत उपचारैरनेकंशः । प्रणेमुर्भक्तियुक्तास्तं सरोमांचा बभूविरे ॥ १५ ॥ ततस्तानब्रवीद्देवो भवतां यच्चिकीर्षितम् । तदेव सफलं सर्वं भविष्यति न संशयः ॥ १६॥ भक्तिर्मदीयपादेषु भविष्यति सुखप्रदा । सामर्थ्यं स्वस्वकार्येषु दृढा ख्यातिर्भविष्यति ॥ १७॥ भवत्कृतमिदं स्तोत्रं सर्वसिद्धिकरं भवेत् । यः शृणोति नरो भक्त्या पठेद्द्वै तस्य सिद्धिदम् ॥ १८॥ एकविंशतिवारं च पठेत्तावद्दिनानि यः । स सद्यः फलमाप्नोति चित्तेप्सितमसंशयम् ॥ १९॥ एवमुक्त्वा गणाधीशस्तत्रैवांतरधीयत । ते च स्वस्वगृहे सर्वे ययुर्हर्षसमन्विताः ॥ २०॥ स्त्रियश्च पुरुषाः सर्वे दक्षकन्या समुद्भवाः । सुखिनः स्वस्वकार्येषु बभूवुर्ज्ञानसंयुताः ॥ २१॥ शौनक उवाच । अत्रिपुत्रा महाभागा ब्रह्मविष्णुशिवात्मकाः । तच्चरित्रं विस्तरतः श्रोतुमिच्छामि तद्वद ॥ २२॥ सूत उवाच । ब्रह्मणोंऽशसमुद्भूतश्चंद्रस्तपसि संस्थितः । गणेशात्स वरं लब्ध्वाऽमृतरूपो बभूव ह ॥ २३॥ कलाभिः सर्वदेवानां पोषकः स तथा नृणाम् । किरणैरन्नभावस्य वृद्धिकृत् सर्वदाऽभवत् ॥ २४॥ दत्तो विष्णुकलांशेन संभूतो योगधारकः । क्रमेण योगमार्गेण नानाब्रह्मसु संस्थितः ॥ २५॥ जडोन्मत्तपिशाचादिबालानंदादिका मुने । अवस्थाः साधयामास नानाभूमिप्रकाशिकाः ॥ २६॥ तं दृष्ट्वा योगिनं सर्वे सेवायामभवन् पराः । द्विजाद्याः सर्ववर्णाश्चाश्रमस्था भक्तिभावतः ॥ २७॥ क्षणं विश्राममत्यंतं न लेभे मुनिसत्तमः । दत्तो विह्वलतां यातः किंकरोमीत्यचिंतयत् ॥ २८॥ ततस्तेन जले विप्र ममज्जे योगधारणात् । प्रतीक्षयंतस्तत्तीरे स्थिताः सर्वेऽभवन् जनाः ॥ २९॥ ततो दत्तेन सिध्या च मोक्षलक्ष्मीः प्रकाशिता । गृहीत्वा वामभागे तां निःसृतो जलामध्यतः ॥ ३०॥ दक्षिणे मद्यकुंभं स हस्ते धृत्वा पपौ स्वयम् । स्त्रिया सह विलासेन भोगयुक्तो बभूव ह ॥ ३१॥ त्यक्तस्तैरत्रिजो योगी भ्रष्टोऽयमिति भावतः । सुखेन योगमास्थाय संस्थितो- ऽत्रिसमुद्भवः ॥ ३२॥ गते कियति काले च देवासुरसमुद्भवम् । युद्धं दारुणरूपं वै जातं तत्र समीपतः ॥ ३३॥ दैत्यैर्देवास्ततो भग्नाः पलायंत दिशो दश । तत्राऽऽययुः सुसंभीता रक्ष रक्षेति चाब्रुवन् ॥ ३४॥ ततो सुरा ययुः सर्वे नग्नशस्त्रधरा बलात् । तान् दृष्ट्वाऽमरसंघास्ते पलायनपरा बत ॥ ३५॥ दैत्या दृष्ट्वा महालक्ष्मीं मोक्षरूपं सुरूपिणीम् । तां गृहीत्वा ययुः सर्वे धृत्वा मोहेन मस्तके ॥ ३६॥ मोक्षलक्ष्मीश्च तैस्तत्र यदि पादेषु संधृता । तदा तेषां जयप्राप्तिर्जातासीन्नात्र संशयः ॥ ३७॥ अतो निस्तेजसा स्पृष्टा दैत्या देवैः प्रपीडिताः । पलायंत भयात् सर्वे पाताल विविशुः पुनः ॥ ३८॥ मोक्षलक्ष्मीस्ततस्तेषां पश्यतां मुनिसत्तम । अंतर्धानं ययौ देवी ब्रह्मणि ब्रह्मभाविता ॥ ३९॥ शौनक उवाच । सूत कूटं त्वया प्रोक्तं न बुद्धं तन्मयाधुना ।