मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 144, कुल 1023 में से
संदर्भ में पढ़ेंख. २ अ. ७ | पान १८ मोक्षलक्ष्मीः शिरः स्पृष्टा दैत्यानां दुःखदा कथम् ॥४०॥ सूत उवाच । सम्यक्पृष्टं त्वया ब्रह्मन् कथयामि यथा श्रुतम् । व्यासात् सर्वज्ञमुख्याच्च शृणु शौनक यत्नतः ॥४१॥ रजस्तमोयुता दैत्या भोगलक्ष्मीपरायणाः । परद्रव्यहराः सर्वे परस्त्रीगामिनस्तथा ॥४२॥ परापकारकर्तारो जंतुभ्यो दुःखदाः स्मृताः । सदा मद्यादिभिर्युक्ताः पापाचारा विशेषतः ॥४३॥ साधूनां मुनिमुख्यानां देवानां योगिनां तथा । वेदशास्त्रपुराणानां निंदका भयदायकाः ॥४४॥ इत्यादिबहुभिर्दोषैः संयुक्तास्ते महासुराः । सदा भोगप्रिया ज्ञेया मुक्तौ नार्हा अतः कदा ॥४५॥ देहं सर्वक्रियाणां ते कर्तारं प्राप्य दैत्यपाः । सर्वथा मुक्तिमुत्सृज्य भोगेच्छायां मनो दधुः ॥४६॥ अतस्तैश्चरणाघातैर्हता मुक्तिर्विशेषतः । भोगलक्ष्मीः शिरोभिस्तैर्वंदिता तत्र यत्नतः ॥४७॥ देवर्षयः सदा यत्नैर्मुक्तिमिच्छंति सर्वदा । अतस्ते मस्तके देवीं धारयामासुरंजसा ॥४८॥ असुरैर्योगिसंगेन धृता मुक्तिर्यदा मुने । शिरस्यपि शुभा सा न कारणं कथयामि ते ॥४९॥ दुराचारादिसंयुक्ता भोगबुद्धिपरायणाः । तेभ्यः कुतः सा शुभदा कुपिता तान्निहंति वै ॥५०॥ गृहीता विषयासक्तैर्नैच्छिता पश्य शौनक । चरणाघातकैर्देवी ताडिता च तदा भवेत् ॥५१॥ अतो भोगेप्सुभिर्विप्र वंद्या भोगप्रदायिनी । यदि मुक्तिर्दुराचारैर्धृता तान्नाशयिष्यति ॥५२॥ इति ते कथितं सर्वं कारणं मुनिसत्तम । तथा मोक्षेप्सुभिर्भोगलक्ष्मीश्चरणताडिता ॥५३॥ यत्र भोगः प्रियो नित्यं तत्र मुक्तिर्न विद्यते । यत्र मुक्तिः प्रिया नित्यं तत्र भोगः कुतो भवेत् ॥५४॥ वासनायुक्तरूपा च भोगलक्ष्मीर्न संशयः । निर्वासनमयी मोक्षलक्ष्मीर्जानीहि शौनक ॥५५॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते भोगमोक्षवर्णनं नाम सप्तमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । एवं दत्तसयोगेन योगभूमिं समाचरन् । नानाचेष्टायुतो दक्ष अवधूतः प्रकाशते ॥१॥ गोवद्वृक्षणसंयुक्तः पशुवत्पक्षिवत्कदा । मूत्रादिदेहचेष्टां स चकार मुनिसत्तमः ॥२॥ सहजावस्थया युक्तो बभूवांते- ऽत्रिसंभवः । तत्रांतर्यामितां ज्ञात्वा खेदयुक्तो बभूव ह ॥३॥ व्यक्ताव्यक्तसमेत्यादिनानाब्रह्मसुसंस्थितः । योगेन न स शांतो- ऽभूद्ययौ स्वपितरं ततः ॥४॥ प्रणम्य भगवानत्रिं दत्तो योगिसमावृतम् । साक्षाद्ब्रह्ममयं पूर्णं प्रांजलिः पुरतोऽभवत् ॥५॥