मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 20, कुल 1023 में से
संदर्भ में पढ़ें[शीर्षक: खं. १ अ. ८ | पान २०]
॥ श्रीगणेशाय नमः॥ श्रीशिव उवाच। शृणु देवि गणेशस्य चरितं पापनाशनम् । भुक्तिमुक्तिप्रदं चैव स्मरणेन सुसिद्धिदम् ॥१॥ गजाननः प्रसन्नात्मा परमात्मा परात्परः । भक्तानंदकरः साक्षादूचिवान् भक्तिभावितः ॥२॥ श्रीगजानन उवाच। भो भोस्तत्त्वानि सर्वाणि वरं ब्रूत हृदीप्सितम् । तपसाऽहं प्रसंतुष्टो भक्त्या स्तोत्रेण भावतः ॥३॥ भवत्कृतमिदं स्तोत्रमतिप्रीतिकरं मम । सर्वसिद्धिप्रदं चैव पठते शृण्वते भवेत् ॥४॥ विद्याकामो लभेद्विद्यां धनकामो धनं लभेत् । स्त्रीकामः स्त्रियमाप्नोति पुत्रकामः सुपुत्रकान् ॥५॥ मुक्तिकामो लभेन्मुक्तिं जयकामो जयं लभेत् । अस्य स्तोत्रस्य पठनात् वांछितं लभते परम् ॥६॥ श्रीशिव उवाच। गणेशवचनं श्रुत्वा भक्तिनम्रात्मकन्धराः । ऋषयस्तं प्रणम्यादावूचुस्ते हृष्ट- मानसाः ॥७॥ आदिऋषय ऊचुः। प्रसन्नो भगवंश्चद्य यदि देयो वरो महान् । त्वदीयामचलां भक्तिं देहि नो गणनायक ॥८॥ सृष्टिसामर्थ्यमत्यंतमस्माकं त्वत्प्रसादतः । अस्तु वै भजतां सर्वसिद्धिदाश्च वयं तथा ॥९॥ यद्यत् हृदीप्सितं देव तत्तत् सिध्यतु सर्वदा । बंधहीनत्वमनिशं देहि त्वं विघ्ननाशन ॥१०॥ तत्त्वानां वचनं सर्वे श्रुत्वा गणपतिः स्वयम् । ददौ तेषामभीष्टं स महादेवि महप्रदः ॥११॥ श्रीगजानन उवाच । दत्ता वरा मया देवा ये भवद्भिर्वृताः पराः । इत्युक्त्वान्तर्दधे ढुंढिः ऋषीणां पश्यतां खलु ॥१२॥ स्वानंदॆ च गते देवे गणेशे परमात्मनि । खिन्ना इवाऽभवन् देवाः परस्परमुखेक्षणाः ॥१३॥ गणेशवरदानेन ज्ञानं प्राप्य महाद्भुतम् । बुद्धियुक्ता महादेवाः सृष्टिं चक्रुः प्रभावतः ॥१४॥ परस्परप्रवेशं च चक्रुस्त ऋषयस्तदा । तेनैक- भावतां प्राप्तास्तस्मादण्डं बभूव वै ॥१५॥ तस्मिन्नंडे पुमानादिरेकः सर्वात्मशक्तिमान् । जातो वै भगवान् साक्षाद् गुणेशो गुणवल्लभः ॥१६॥ महता कालयोगेन देहात्तस्य विनिःसृताः । आपस्तत्र स्थितं ह्यण्डं तत्र वृद्धिं ययौ च सः ॥१७॥ कालेनावयवी जातस्ततः संपूर्णदेहवान् । तस्य तेजःप्रभावेण तदण्डं स्फुटितं महत् ॥१८॥ स एव निःसृतः साक्षादसंख्यातार्कसन्निभः । अपारमहिमा यस्य सर्वादिः सर्वभावनः ॥१९॥ सर्वतो हस्तपादो वै सर्वतो नासिकोदरः । सर्वतोऽक्षिमुखोऽनंतः सर्वतः श्रुतिमान् बभौ ॥२०॥ असंख्यावयवो देवो ह्यसंख्योदारविक्रमः । असंख्यलीलया युक्तः परमात्मस्वभाववान् ॥२१॥ आदिमध्यान्तहीनः स सर्वत्र व्याप्य संस्थितः । महतां च महीयान् यो यस्य पारो न दृश्यते ॥२२॥ अणुभ्योऽणुतरो देवो रोमरन्ध्रेषु यस्य वै । ब्रह्माण्डानि भ्रमन्ति स्म परागा इव चांबरे ॥२३॥ महाकारणनामा वै तुरीयो देहधारकः । आत्मप्रतीतिरूपं यत्कथ्यतेऽसौ महाद्युतिः ॥२४॥ गुणानामधिपोऽयं वै गुणेशस्तेन कथ्यते । सर्वात्मा सर्वरूपश्च नाददेहधरः