मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 21, कुल 1023 में से
संदर्भ में पढ़ेंखं. १ अ. ८ पान २१ प्रभुः ॥२५॥ गुणेशेन कृतं कर्म नानाचेष्टात्मकं ततः । तेन नामानि जातानि पश्चात्तस्य महात्मनः ॥२६॥ आपः शरीरसंस्पृष्टास्तत्र सुप्तोऽयमीश्वरः । नारायण इति प्राप्तं नाम तस्य महात्मनः ॥२७॥ आपो नरप्रसूताश्च तेन नाराः प्रकीर्तिताः । ता एवायतनं तस्य कर्मणा तेन स प्रभुः ॥२८॥ भिन्नं भिन्नं सृजति च त्रिविधं त्रिविधं पृथक् । ब्रह्मेति तेन संप्राप्तं नाम तस्य प्रभावतः ॥२९॥ वेदोपनिषदि प्रोक्तो ब्रह्मलोकः सनातनः । सर्वेभ्यो यः परः श्रेष्ठमेनं विद्धि सुनिश्चितम् ॥३०॥ सर्वेषां यत्नदाता स कालरूपेण वर्तते । चालकस्तेन नामाभून् महादेव इति प्रभोः ॥३१॥ कर्मणामयमाधारो जातः सूर्य इति स्मृतः । मोहको वस्तुजातानामादिशक्तिश्च तेन सः ॥३२॥ इत्यादिनामतां प्राप्तो नानाभावेन कर्मणा । गुणेशस्तु तुरीयात्मा सर्वत्राऽसौ महान् प्रभुः ॥३३॥ कारणानां च सर्वेषां कारणं च न संशयः । महाकारणमेतच्च पुराणेषु प्रपठ्यते ॥३४॥ कर्तुः कर्ता स्वयं साक्षाद्धर्तुर्हर्ता न संशयः । पातुः पाता प्रकाशस्य प्रकाशोऽयं गुणेश्वरः ॥३५॥ त्रिदेहो गुणतश्चायं वामे राजसतां गतः । सात्त्विको मध्यभागे स दक्षिणे तामसो बभौ ॥३६॥ एतादृशो महात्मसावादिदेवो गुणेश्वरः । अज्ञानेनावृतो यस्मात्तेन वै तपसि स्थितः ॥३७॥ सोऽतपत्तप उग्रं तु हृदि ध्यात्वा गजाननम् । बहुकाले व्यतिक्रान्ते प्रसन्नोऽभूद्गजाननः ॥३८॥ आगतो देवदेवेशो धेनुर्वत्समिवाऽदरात् । बोधयामास तं शीघ्रं गुणेशं भक्तवत्सलः ॥३९॥ श्रीगणेश उवाच । एकाक्षरस्य मंत्रस्य जपेन तपसाऽपि ते । प्रसन्नोऽहं महाबाहो गुणेश वृणु वांछितम् ॥४०॥ इत्येवं बोधितो देवि गणेशेन कृपावता । गुणेश्वरः प्रतुष्टाव भक्तिभावसमन्वितः ॥४१॥ गुणेश उवाच । नमामि देवं गणनाथमीशं सदा सुशान्तं हृदि योगिनां वै । अपारयोगं दृढयोगनाथं सुशांतयोगेश्वरमानतोऽस्मि ॥४२॥ अयोगरूपं कथितुं त्वशक्यं निवृत्तिमात्रं ह्यसमाधिसंस्थम् । अभेदभेदात्मकमूलहीनं सुशांतयोगेश्वरमानतोऽस्मि ॥४३॥ सदा समाधिस्थमनंतपारं प्रभुं स्वसंवेद्यमयं विभान्तम् । निजात्मयोगेन च लभ्यमेवं सुशांतयोगेश्वरमानतोऽस्मि ॥४४॥ विदेहयोगेन च सांख्यरूपं जनेन लभ्यं गणराजमीड्यम् । सदा ह्युपाधौ न हितं गणेशं सुशांतयोगेश्वरमानतोऽस्मि ॥४५॥ सुसंस्थितं सर्वविलासयुक्तं हृद्विज्ञबोधात्मक्रमादिदेवम् । अभेदमात्रं परमार्थरूपं सुशांतयोगेश्वरमानतोऽस्मि ॥४६॥ अनादिमध्यान्तमनेनपारं सुसंवृतं संततमात्मरूपम् । गणेशमाद्यं पुरुषं पुराणं सुशांतयोगेश्वरमानतोऽस्मि ॥४७॥ अनादिरूपं प्रकृतिप्रभेदं सदा सुबिंद्रात्मकमप्रमेयम् । अमायिकं मोहकरं प्रसिद्धं सुशांतयोगेश्वरमानतोऽस्मि ॥४८॥ गुणेषु रूपेण विराजमानमपारम-