मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 22, कुल 1023 में से
संदर्भ में पढ़ेंखं. १ अ. ८ पान २२ व्यक्तमयं गणेशम् । गुणैर्विहीनं गुणचालकं च सुशांतयोगेश्वरमानतोऽस्मि ॥४९॥ समस्वरूपं जगदीश- मेकं सुषुप्तिरूपं सकलावभासम् । अनादिमायामयमोहधारं सुशांतयोगेश्वरमानतोऽस्मि ॥५०॥ जगन्मयं सूक्ष्मविभूति- धारं हिरण्मयं स्वप्नगतं गणेशम् । जनस्य विज्ञानकरं पुराणं सुशांतयोगेश्वरमानतोऽस्मि ॥५१॥ स्तुतं सदा देवमुनीन्द्र- सिद्धैः स्थितं जगन्मोहमयं प्रसिद्धम् । सदा परं स्थूलविहारयुक्तं सुशांतयोगेश्वरमानतोऽस्मि ॥५२॥ असत्स्वरूपं विविधे- ष्वभेदं गणेशमायामयशक्तिरूपम् । मनोवचोहीनमहानुभावं सुशांतयोगेश्वरमानतोऽस्मि ॥५३॥ रविस্বরূপं ह्यमृतं पुराणंमभेदमेकात्मकमात्मरूपम् । अखंडमानंदघनं गणेशं सुशांतयोगेश्वरमानतोऽस्मि ॥५४॥ समं सदा विष्णुमचिन्त्य- भावमभेदभेदादिविवर्जितं च । सदा सुखानंदमयं गणेशं सुशांतयोगेश्वरमानतोऽस्मि ॥५५॥ अचिन्त्यरूपं सकलैर्विहीनं सदाशिवं मोहविहीनमाद्यम् । अपारवेशं स्वसुखावभासं सुशांतयोगेश्वरमानतोऽस्मि ॥५६॥ पदार्थरूपं विविधप्रभेदं विकारयुक्तं परमप्रमेयम् । बोधात्मकं त्वंपदरूपमेव सुशांतयोगेश्वरमानतोऽस्मि ॥५७॥ अखंडमेकात्मकविश्वरूपं विकारहीनं महदप्रमेयम् । गणेशमेकं हृदि तत्पदस्थं सुशांतयोगेश्वरमानतोऽस्मि ॥५८॥ गणेश चैते विविधस्वरूपाः कलावतारा भवतो हि भव्याः । सुशांतमेकं भवदीयरूपं कथं विभाव्यं मनसा न लभ्यम् ॥५९॥ यदा च सर्वात्ममयं वदामि तदा तु सोऽहं प्रकृतिस्वरूपम् । गकाररूपं जगदीशभेदं गकारमेकं शरणं प्रपद्ये ॥६०॥ मनोवचोहीनमथो वदामि ह्ययोगसंयोगमयं णकारम् । निवृत्तिरूपं शरणं सदा वै नमामि तं सर्ववरिष्ठमाद्यम् ॥६१॥ न शक्यसे वक्तुमवक्तुमेवमतो भवन्तं प्रणमामि ढुंढे । गणेश विघ्नेश महानुभाव प्रसीद भो ब्रह्मपते महात्मन् ॥६२॥ जन्म धन्यं धन्यमक्षि विद्या ज्ञानं तपः फलम् । येन दृष्टो गणाधीशः कृतकृत्योऽस्मि सांप्रतम् ॥६३॥ मह्यं यदि वरो देयस्तदा भक्तिं दृढां त्वयि । देहि मे परमेशान यया मोहो विनश्यति ॥६४॥ सृष्टिसर्जनसामर्थ्यं भजतां कामपूरणम् । निर्विघ्नं सर्वकार्येषु देहि विघ्नविनाशन ॥६५॥ गुणेशवचनं श्रुत्वा सुप्रसन्नो गजाननः । मेघगांभीर्यसादृश्यं वचनं त्विदमब्रवीत् ॥६६॥ श्रीगणेश उवाच । भविता मे महाभक्तिः सृष्टीनां रचनास्तथा । नानाविधा भविष्यन्ति निर्विघ्नं सर्वदा भवेत् ॥६७॥ भवद्भ्यः सर्वदातृत्वं भविष्यति तथाऽनघ । महाकार्ये समुत्पन्ने दास्येऽहं दर्शनं च ते ॥६८॥ स्तोत्रं त्वया कृतं यच्च सर्वमान्यं भविष्यति । पठतां शृण्वतां चैव ब्रह्मभूतकरं