भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 23, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 23

खं. १ अ. ९ पान २३


महत् ॥६९॥ स्तोत्रं ब्रह्मणपतेः साक्षान्नाम्ना वै स्तुतिसारकम् । भविष्यति महाभाग सर्वसिद्धिकरं परम् ॥७०॥ सकामेभ्यो जनेभ्योऽपि कामदं चिंतितप्रदम् । निष्कामेभ्यः स्वभक्तेभ्यो मुक्तिदं प्रभविष्यति ॥७१॥ मम प्रीतिकरं पूर्णं सारं सर्वत्र भाषितम् । त्रिकालपठनादस्य साध्योऽहं नात्र संशयः ॥७२॥ श्रीशिव उवाच । इत्युक्त्वान्तर्हितः साक्षाद्गणेशो भक्तवत्सलः । देवस्यापि वियोगेन गुणेशो विमना ह्यभूत् ॥७३॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथम खण्डे वक्रतुण्डचरिते गुणेशवरप्रदानं नामाष्टमोऽध्यायः ॥८॥

॥ श्रीगणेशाय नमः । श्रीशिव उवाच । वरदानप्रभावेण गुणेशो ज्ञानवान्भूत् । समर्थो भगवान् साक्षात् स्रष्टुं तत्र मनो दधे ॥१॥ तस्य निःश्वासतो वेदा निःसृता रूपधारिणः । सर्वज्ञानकराः साक्षाद्भास्वंतो गुरवः सताम् ॥२॥ पश्चात्तेन गुणेशेन सम- भूतात्मकं जगत् । सृष्टं सुषुप्तिसंज्ञं च महत्तत्त्वादिभिः समैः ॥३॥ आनंदव्यवहारत्वात् प्रधानमिति कथ्यते । कारण द्वंद्व- भावानां तेन कारणकं स्मृतम् ॥४॥ माया तमःकरी यस्मात्तेन तामसतां गतम् । समानव्यवहारं च प्रधानं मोहदं बभौ ॥५॥ स्वस्यापि जडभावश्च तेन न ज्ञायते सदा । किं कर्तव्यमकर्तव्यमिति तेन ततो महत् ॥६॥ तपः कृतं महोग्रं च दिव्यं वर्ष- सहस्रकम् । तेन प्रत्यक्षतां यातो गणेशो भक्तवत्सलः ॥७॥ स्तुतः प्रपूजितस्तेन कारणेन महायशाः । सामर्थ्यं योगरूपं च ददौ परमभावितः ॥८॥ वेदैश्चापि कृतं घोरं तपः परमदारुणम् । तेषां प्रत्यक्षतां यातो विघ्नेशो विघ्नवारणः ॥९॥ वेदैश्च संस्तुतो देवः स्तोत्रैः स्वस्वसमुद्भवैः । ब्राह्मणस्पत्यसूक्तेन बह्वृचः स्तुतवान् प्रभुम् ॥१०॥ गणेशशांतिकेनैव यजुस्तं स्तुत- वत्तथा । नामाष्टकार्थकृत्स्तोत्रं तेन साम्ना च संस्तुतः ॥११॥ अथर्वशीर्षकं नाम तेनैवाथर्वणास्तुतः । इत्यादि गाणपत्यैश्च स्तोत्रैर्नानाविधैः स्तुतः ॥१२॥ पूजितो मूलमंत्रेण संतुष्टस्तेन विघ्नहा । सर्वेषां गुरुरूपा वै भविष्यथ वरं ददौ ॥१३॥ सर्व- मान्या जगत्पूज्या वेदास्तेन कृतास्तदा । सांगोपांगसमाचारा गुरवस्ते मताः खलु ॥१४॥ पार्वत्युवाच । तमोगुणमयं स्वामिन्