भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 24, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 24

खं. १ अ. ९ पान २४


प्रधानं समरूपकम् । वरं प्राप्य गणेशात्तु किं कृतं तेन तद्वद ॥१५॥ मुद्गल उवाच। प्रियोक्तं वचनं श्रुत्वा हृष्टरोमा महेश्वरः । तां प्रत्युवाच भगवान् स्मयन्निव सुशांतधीः ॥१६॥ श्रीशिव उवाच। शृणु प्रिये प्रवक्ष्यामि गणेशप्रीतिवर्धने । विभूतिं तस्य देवस्य त्वं वै भाग्यवती शिवे ॥१७॥ गणेशवरदानेन सृष्टं तेनापि सूक्ष्मकम् । हिरण्यगर्भमांतर्यं सात्त्विकं स्वस्वरूप- कम् ॥१८॥ महदादिमहातत्त्वैः सूक्ष्मभूतैश्च संवृतम्। द्वंद्वविज्ञानमूलं तदंतरिक्षस्थितं बभौ ॥१९॥ बोधहीनेन तेनैव तपस्तप्तं सुदुष्करम्। तेन तुष्टो गणेशानो वांछितं प्रददौ वरम् ॥२०॥ वरदानप्रभावेण नानासामर्थ्यवानभूत् । हिरण्य- गर्भो भगवान् स्वप्रमायाधरः प्रभुः ॥२१॥ तेन स्थूलस्वरूपं यत्सृष्टं राजससंज्ञकम् । जाग्रद्भोगकरं पूर्णं तत्त्वैश्च स्थूल- रूपिभिः ॥२२॥ ज्ञानहीनेन तेनाथ तपस्तप्तं सुदारुणम्। तपसा चैव संतुष्टो गणेशः करुणानिधिः ॥२३॥ प्रत्यक्षतां ययौ तस्य जाग्रदन्नमयस्य च । तेनापि पूजितो देवः स्तुतस्तस्मै वरं ददौ ॥२४॥ वरदानप्रभावेण नानासामर्थ्यवानभूत् । ईश्वरोन्नमयश्चासावेकोनेकमकल्पयत् ॥२५॥ जाग्रत्स्वप्नसुषुप्त्याख्यव्यवस्थाप्रचुराणि च । भिन्नभिन्नानि जातानि कोटिशः कोटिशः खलु ॥२६॥ गुणेशरोमकूपेभ्यो निःसृतानि महन्ति च । अंडानि भिन्नभिन्नानि सर्वतः संस्थितानि वै ॥२७॥ व्याप्यरूपाणि चांडानि व्यापकश्च गुणेश्वरः । तयोर्भेदभावे सा प्रकृतिर्ब्रह्मबिंदुकम् ॥२८॥ जाग्रता सृष्टमाकाशं ब्रह्म सर्वप्रकाशम् । शब्दमात्रमयं भूतमादिरूपं सनातनम् ॥२९॥ आकाशेन च संसृष्टो वायुः स्पर्शगुणात्मकवान् । वायुना रूप- तन्मात्रं तेजः सृष्टं प्रकाशवत् ॥३०॥ तेजसा रससंयुक्ता आपः सृष्टाः प्रसारिणः। अद्भिर्गन्धगुणा पृथिवी सृष्टा धारण- धर्मिका ॥३१॥ तत्रैकैकप्रवेशेन पंचीकरणभागतः । पृथिवी पंचगुणा जाता चतुर्भूतप्रवेशनात् ॥३२॥ आपश्चतुर्गुणा जाता- स्त्रयाणां संप्रवेशनात् । तेजस्त्रिगुणतां प्राप्तं भूतयोश्च प्रवेशनात् ॥३३॥ वायुर्द्विगुणवान् जात आकाशस्य प्रवेशनात् । आकाशमेकगुणभृद्भूतानां ब्रह्मसंज्ञितम् ॥३४॥ पंच भूतानि जातानि व्यवस्थासंयुतानि च । अष्टधा प्रकृतिः प्रोक्ता कोश- रूपा सुशोभना ॥३५॥ तत्र कोशीस्वरूपेण गुणेशो बिंबितो यतः । तेन सामर्थ्यमाप्राप्ता प्रकृतिश्चाष्टरूपिणी ॥३६॥ अष्टा- वरणसंयुक्तमण्डं सृष्टं स्वभावतः। तत्रैव पुरुषो जज्ञे विराट् स भगवान् शिवे ॥३७॥ पंचाशत्कोटिविस्तारः पृथ्व्याः प्रोक्तो मया च ते। आपो दशाधिकास्तस्यास्तेजस्ताभ्यो दशाधिकम् ॥३८॥ तस्माद्दशाधिको वायुस्तस्मात्खं वै दशाधिकम् । तस्माद्दशाधिकं जाग्रदभिमानं प्रकथ्यते ॥३९॥ तस्माद्दशाधिकं स्वाप्नं महत्तत्वमिति स्मृतम् । द्वितीयं नाम तस्यापि