भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 25, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 25

खं. १ अ. १० पान २५ कथ्यते मुनिभिः सदा ॥४०॥ तस्माद्दशगुणा माया ज्ञेया सौषुप्तिकाऽधिका। गुणेशः पुरुषो ज्ञेयोऽनंतोऽपारश्चतुर्थकः ॥४१॥ विराडावरणं कृत्वा स्थिता पृथ्वी सनातना। अद्भिः समावृता पृथ्वी तेजसापः समावृताः ॥४२॥ वायुना चावृतं तेजः खेन वायुः समावृतः। अहंकारेण संवृत्तमाकाशं देवि सर्वतः ॥४३॥ अहंकारश्च महता संवृतो राजसः स्वयम्। मायया च महत्तत्त्वं संवृतं स्वप्नसंज्ञितम् ॥४४॥ मायावरणमान्त्यं च ज्ञातव्यं विबुधैः परम्। अष्टावरणसंयुक्तमण्डं ते कथितं मया ॥४५॥ अण्डान्येतादृशान्येवासंख्यातानि प्रिये बभुः। तिर्यगूर्ध्वमधस्तद्वद् गुणेशेन धृतानि च ॥४६॥ ओमिति श्रीमदान्ते पुराणेपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते अष्टधा प्रकृतिवर्णनं नाम नवमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः॥ पार्वत्युवाच। श्रोतुमिच्छामि सर्वेश विराजश्च स्वरूपकम्। कीदृशोऽयं महाभाग तन्मे कथय शंकर ॥१॥ शिव उवाच। पंचकोटिप्रविस्तारे योजनानां समंततः। तस्य देहे च भूतानि स्थावराणि चराणि च ॥२॥ संस्थितानि च सर्वाणि भुवनानि चतुर्दश। तत्तेऽहं संप्रवक्ष्यामि समाहितमनाः शृणु ॥३॥ पादयोस्तस्य पातालं गुल्फे तस्य रसातलम्। पाष्ण्योर्महातलं तस्य जंघयोश्च तलातलम् ॥४॥ सुतलं जानुभागेऽस्य वितलं तूरुमंडले। अतलं कटिसंधौ च कट्यां भूलोकसंस्थितिः ॥५॥ नाभौ तस्य भुवर्लोकः स्वर्लोकश्च हृदि स्थितः। महर्लोकश्च कंठे वै जनो लोको मुखे स्थितः ॥६॥ तपो लोको ललाटे च सत्यलोकः शिरःस्थितः। एतावद्देहरूपो वै विराट् स पुरुषो महान् ॥७॥ सहस्र- शीर्षशोभाढ्यः सहस्राननपादवान्। सहस्रहस्तकर्णः स सहस्रोदरवान् प्रभुः ॥८॥ सर्वत्र व्याप्यभावेन स्थितोऽसौ परमेश्वरः। मर्त्येष्वमृतभोक्ता च स्वप्रकाशेन वर्तते ॥९॥ तस्यांतरे स्थितं रूपं नाम्ना हैरण्यगर्भकम्। एतादृशं तथा स्वप्नं विश्वरूपं विराजति ॥१०॥ बहिर्वैश्वानरश्चायं जाग्रद्वैराटसंज्ञितः। हिरण्यगर्भकोशस्थः स्वप्नवैराटधारकः ॥११॥ उभयोः समभावेन बाह्यांतरस्वरूपतः। ईश्वरो नाम वैराटः सुषुप्तेर्धारको बभौ ॥१२॥ त्रिविधं यद्विराड् रूपं कथितं ते तु पार्वति।