भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 26, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 26

खं. १ अ. १० पान २६ तुरीयमात्मरूपं यत् त्रिविधेषु प्रवर्तते ॥१३॥ अथ शृणु विभिन्ननामुत्पत्तिं त्वल्पभावनाम् । नानाभावधरां तां वै चराचर- मयीं पराम् ॥१४॥ विराडज्ञानभावेनावृतस्तेन तपः कृतम् । एकाक्षरविधानेन गणेशं संदधौ हृदि ॥१५॥ सोऽतपत्तप उग्रं च दिव्यवर्षसहस्रकम् । तपसा ध्यानभावेन प्रत्यक्षो गणपोऽभवत् ॥१६॥ बोधयामास तं देवो वरं ब्रूहीति सोऽब्रवीत् । गणेशं सहसा दृष्ट्वा पादयोः प्रणनाम तम् ॥१७॥ धन्यं जन्म तपो मेऽद्य धन्यं ज्ञानं वपुश्च दृक् । धन्या मे संपदो देव त्वदंघ्रियुगदर्शनात् ॥१८॥ इत्युक्त्वा स्तोतुमारेभे गणेशं ब्रह्मनायकम् । वाचा संस्पष्टया हृष्टो भगवान् विश्व- धारकः ॥१९॥ विराडुवाच । नमस्ते गणनाथाय गणानां पतये नमः । विघ्नेशाय परेशाय विघ्नहर्त्रे नमो नमः ॥२०॥ सिद्धि- बुद्धिपते तुभ्यं नानासिद्धिप्रदायिने । नानाज्ञानप्रदात्रे च ब्रह्मणे ब्रह्मरूपिणे ॥२१॥ मनोवागतिभूताय योगिनां हृदि वासिने । नानावतारकर्त्रे च भक्तसंरक्षकाय ते ॥२२॥ नमो नमो महेशाय शिवाय शिवदायिने । सर्वत्र समभावाय विष्णवे प्रभविष्णवे ॥२३॥ तेजोरराशिफ्ते तुभ्यं भानवे ते नमो नमः । नानामायाप्रभेदात्मशक्तये शक्तिरूपिणे ॥२४॥ स्रष्ट्रे पात्रे च संहर्त्रे चराचरमयाय च । सर्वेभ्यो ज्ञानदात्रे च निर्मलाय नमो नमः ॥२५॥ सर्वेभ्यो भिन्नरूपाय माया- हीनाय ते नमः । मायिभ्यो मोहदात्रे च मायाधाराय ते नमः ॥२६॥ गुणान्तं न ययुर्यस्य नानाब्रह्माणि ते नमः । अतो मयि गणेशान कृपयाऽनुग्रहं कुरु ॥२७॥ इति स्तुत्वा गणेशानं मौनवानभवत्स्वयम् । वैराटः पुरुषस्तत्र कृतांजलिपुटः स्थितः ॥२८॥ भगवांस्तं गणेशान ऊचिवान् भक्तिभावितः । वरं वरय दास्यामि शंकां मा कुरु विश्वप ॥२९॥ इदं त्वया कृतं स्तोत्रं मम प्रीतिकरं भवेत् । यः पठेद्भावपूर्वं तु सिद्धिस्तस्य भविष्यति ॥३०॥ यं यं चिन्तयते कामं तं तं दास्यामि वांछितम् । भुक्तिमुक्तिप्रदं भावि पठनाच्छ्रवणादपि ॥३१॥ इत्युक्तवन्तं गणनाथमाद्यं वैराटदेवः प्रणनाम तं वै । भावेन युक्तो वचनं जगाद हृष्टः स्वयं विघ्नहरं प्रभुं च ॥३२॥ वैराट उवाच । यदि तुष्टोऽसि देवेश यदि देयो वरो महान् । तव भक्तिं दृढां देहि यया मोहो विनश्यति ॥३३॥ अतुलं सर्जनं सृष्टेः पालनं हरणं तथा । करोमि त्वत्प्रसादेन भक्तेभ्यो भुक्तिमुक्तिद ॥३४॥ ऐश्वर्यमतुलं देहि गजानन महाप्रभो । यं यमिच्छामि तत्सर्वं सिध्यतु त्वत्प्रसादतः ॥३५॥ शिव उवाच । तथेति वचनं चोक्त्वा गणेशोऽन्तरधीयत । विराट् हर्षेण संयुक्तो गणेशं हृद्यभावयत् ॥३६॥ एवं देवि च सर्वत्र नानाण्डेषु स्थितैः परैः । वैराटैस्तैः कृतं पूर्णं गणेशतप उत्तमम् ॥३७॥ तेन सर्वे महात्मानः स्वस्वकर्मणि संस्थिताः । निर्विघ्ना वरदानेन