मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 27, कुल 1023 में से
संदर्भ में पढ़ेंसं. १ अ. ११ पान २७ भगवंतः सनातनाः ॥३८॥ अनंतानि प्रजानीहि ब्रह्माण्डानि न शक्यते । वक्तुं केनापि हेरंबं विना तानि यथायथम् ॥३९॥ सततं गणनाथोऽपि न संख्यातुं प्रवर्तते । गणना शब्दशास्त्रेषु यावती ह्यधिकं ततः ॥४०॥ अतः केनापि संख्यानं न कृतं वेदवादिना । अनंतानि महाण्डानि ज्ञातव्यानि जगन्मयि ॥४१॥ एवं प्रभावयुक्तोऽसौ हृदये मे प्रवर्तते । गणेशो ध्यानलोभी च भक्तेशो भक्तवत्सलः ॥४२॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते नानाब्रह्माण्डवर्णनं नाम दशमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ पार्वत्युवाच । भगवन् देवदेवेश कृपां कृत्वा वदस्व मे । वैराटेन कथं सृष्टं जगत्स्थावरजंगमम् ॥१॥ अन्यच्च ब्रूहि मे नाथ ध्यानमार्गं पुरातनम् । येन साक्षात्करिष्यामि गणेशं नाऽत्र संशयः ॥२॥ मुद्गल उवाच । इति पृष्टो महादेव्यै महादेवः प्रहृष्टवान् । कथां परमपुण्यां च कथयामास तां शृणु ॥३॥ दक्ष उवाच । गणेशस्य कथां श्रुत्वा हर्षश्चेतसि जायते । कथयस्व महाभाग शिवेन कथितं तु यत् ॥४॥ मुद्गल उवाच । धन्योऽसि दक्ष लोकेषु येन सादरता च ते । गणेशे- ऽमृतधारायां कथायां नाऽत्र संशयः ॥५॥ प्रहृष्टां गिरिजां दृष्ट्वा शिवो वचनमब्रवीत् । धन्या धन्या महाभागे शृणु सादर- मादितः ॥६॥ शिव उवाच । गणेशं मनसा ध्यात्वा वैराटः स्रष्टुमारभत् । तस्य नाभेः समुत्पन्नो ब्रह्मा लोकपितामहः ॥७॥ मुखाद्विष्णुर्जगत्पाता नेत्राच्चाऽहं हरोऽभवम् । सृष्टिस्थितिलयाधारास्त्रिरूपगुणधारकाः ॥८॥ वामांगाच्छक्तिरुत्पन्ना त्वं वै पार्वति मोहिनी । दक्षिणांगाद्रविः साक्षात्कर्माधारः समाभवत् ॥९॥ पंच देवाः समुत्पन्ना भिन्ना जाताः स्वभावतः । न विदुः किंचिदात्मानं वैराटं चापि शोभने ॥१०॥ अंधे तमसि सर्वत्र बभ्रमुर्बहुकालतः । न किंचित्प्रापुरायासात् स्थिताः परमदुःखिताः ॥११॥ किं कर्तव्यं क्व गन्तव्यमज्ञानेनावृता भृशम् । कस्माद्वयं समुत्पन्ना न जानीमो महाप्रभुम् ॥१२॥ अथ चिंतयतां तेषां बुद्धिर्जाता सुनिश्चिता । तपः कर्तुं समारब्धं यस्मै कस्मै नमोऽस्त्विति ॥१३॥ सर्वेषां मूलभूतं यद्यादृशं