मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 28, कुल 1023 में से
संदर्भ में पढ़ेंखं. १ अ. ११ | पान २८ ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖ तादृशं खलु । स्वधीस्थं तत्समाचिंत्य तपस्तप्तं सुदारुणम् ॥१४॥ तपसा गणनायस्तु प्रसन्नोऽतरमाश्रितः । तत्र दृष्टिः समु- त्पन्ना तेषां वै भावितात्मनाम् ॥१५॥ हृदये बीजरूपं यत्स्फुरत्तद् दृष्टमद्भुतम् । एकाक्षरं महामंत्रं प्राप्य तं हर्षमाययुः ॥१६॥ तं मंत्रं जपमानैस्तैस्तदारभ्य जगन्मयि । तेन मंत्रप्रभावेण ज्ञानं प्राप्तं सुनिर्मलम् ॥१७॥ दिव्यवर्षसहस्रेण प्रत्यक्षः सम- जायत । गणेशो भक्तिभावेन पुरस्तेषां समुत्थितः ॥१८॥ अनंतकोटिसूर्यौजाः शुंडादंडविराजितः । चतुर्बाहुधरो लंबोदरः साक्षात् विभूषितः ॥१९॥ भूषणैरायुधैश्चैव सिद्धिवुद्धिसमन्वितः । भक्तानंदकरः श्रीमानाखुवाहो महाद्युतिः ॥२०॥ तं दृष्ट्वा भयभीतास्ते देवाः शंभुपुरोगमाः । किमिदं तेज आयाति प्रलयाग्निसमं महत् ॥२१॥ अस्मान् धक्ष्यति किं देवः विघ्नेश करुणानिधे । तव भक्ता वयं स्वामिन् कथं विघ्नेन भाविताः ॥२२॥ इति तेषां वचः श्रुत्वा त्वभवत्सौम्यरूपवान् । तं दृष्ट्वा हर्षिताः सर्वे प्रणेमुर्भावपूर्वकम् ॥२३॥ गणेशदर्शनेनैव स्फूर्तिः प्राप्ता महाद्भुता । तया सर्वे यथातथ्यं ज्ञातं तैः पंचभिः पुरः ॥२४॥ ततस्तं तुष्टुवुः सर्वे भक्तिनम्रात्मकंधराः । हृष्टरोमाण एवं ते स्रवदश्रुजलाविलाः ॥२५॥ पंचदेवा ऊचुः ॥ नमस्ते विघ्नराजाय भक्तानां विघ्नहारिणे । विघ्नकर्त्रे ह्यभक्तानां गणेशाय नमो नमः ॥२६॥ हेरंबाय नमस्तुभ्यं ढुंढिराजाय ते नमः । विनायकाय देवाय ब्राह्मणां नायकाय च ॥२७॥ लंबोदराय सिद्धेश गजाननधराय च । शूर्पकर्णाय गूढाय चतुर्हस्त नमोऽस्तु ते ॥२८॥ लंबोष्ठायैकदंताय सर्वेशाय गणाधिप । अनंतमहिमाधार धरणीधर ते नमः ॥२९॥ नमो मायामयायैव मायाहीनाय ते नमः । मोहदाय नमस्तुभ्यं मोहहंत्रे नमो नमः ॥३०॥ पंचभूतमयायैव पंचभूतधराय च । इंद्रियाणां चाधिपायेंद्रियज्ञानप्रकारिणे ॥३१॥ अध्यात्मनेऽधिभूतायाधिदैवाय च ते नमः । अन्नायान्नपते तुभ्यमन्नान्नाय नमो नमः ॥३२॥ प्राणाय प्राणनाथाय प्राणानां प्राणरूपिणे । चित्ताय चित्तहीनाय चित्तेभ्यश्चित्तदायिने ॥३३॥ विज्ञानाय च विज्ञानपतये द्वंद्वधारिणे । विज्ञानेभ्यः स्वविज्ञानदायिने ते नमो नमः ॥३४॥ आनंदाय नमस्तुभ्यमानंदपतये नमः । आनंदा नंददात्रे च कारणाय नमो नमः ॥३५॥ चैतन्याय च यत्नाय चेतनाधारिणे नमः । चैतन्येभ्यः स्वचैतन्यदायिने नादरूपिणे ॥३६॥ बिंदुमात्राय बिंदूनां पतये प्राकृताय च । भेदाभेदमयायैव ज्योतीरूपाय ते नमः ॥३७॥ सोऽहंमात्राय शून्याय शून्याधाराय देहिने । शून्यानां शून्यरूपाय पुरुषाय नमो नमः ॥३८॥ ज्ञानाय बोधनाथाय बोधानां बोधकारिणे । मनोवाणीविहीनाय सर्वात्मक नमो नमः ॥३९॥ विदेहाय नमस्तुभ्यं विदेहाधारकाय च । विदेहानां विदेहाय सांख्यरूपाय