भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 29, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 29

खं. १ अ. ११ पान २९ ते नमः ॥४०॥ नानाभेदधरायैव चैकानेकादिमूर्तये। असत्स्वानंदरूपाय शक्तिरूपाय ते नमः ॥४१॥ अमृताय सदाखंड- भेदाभेदविवर्जित। सदात्मरूपिणे सूर्यरूपधाराय ते नमः ॥४२॥ सत्यासत्यविहीनाय समस्वानंदमूर्तये। आनंदानंद- कंदाय विष्णवे ते नमो नमः ॥४३॥ अव्यक्ताय परेशाय नेतिनेतिमयाय च। शिवाय शाश्वतायैव मोहहीनाय ते नमः ॥४४॥ संयोगेन च सर्वत्र समाधौ रूपधारिणे। स्वानंदाय नमस्तुभ्यं मौनभावप्रदायिने ॥४५॥ अयोगाय नमस्तुभ्यं निरालंबस्वरूपिणे। मायाहीनाय देवाय नमस्ते ह्यसमाधये ॥४६॥ शांतिदाय नमस्तुभ्यं पूर्णशांतिप्रदाय ते। योगानां पतये चैव योगरूपाय ते नमः ॥४७॥ गणेशाय परेशाय ह्यपारगुणकीर्तये। योगशांतिप्रदात्रे च महायोगाय ते नमः ॥४८॥ गुणांतं न ययुर्यस्य वेदाद्या वेदकारकाः। स कस्य स्तवनीयः स्याद्यथामति तथा स्तुतः ॥४९॥ तेन वै भगवान् साक्षाच्चिता- मणिगजाननः। प्रसन्नो भवतु त्राताऽस्माकं त्वं परमा गतिः ॥५०॥ इत्येवमुक्त्वा देवेशास्तूष्णीं भूतास्तथा शिवे। गणेशोऽपि प्रसन्नात्मा हृष्टः सन् प्रत्युवाच तान् ॥५१॥ श्रीगणेश उवाच। पंचदेवा महाभागाः प्रसन्नो भवतां स्तवैः। तपसा च तथा भक्त्या वांछितं ब्रूत वै वरम् ॥५२॥ भवत्कृतमिदं स्तोत्रं परमाल्हादवर्धनम्। मम प्रीतिकरं भक्त्या सर्वदं प्रभविष्यति ॥५३॥ यः पठेद्भावपूर्वं स धर्मकामार्थमोक्षभाक्। पुत्रपौत्रयुतः श्रीमानंते स्वानंदमाप्नुयात् ॥५४॥ सप्तवारं पठेन्नित्यमेकविंशतिवासरम्। कारागृहगतो वाऽपि मुच्यते बंधनात् स्वयम् ॥५५॥ एककालं द्विकालं वा त्रिकाल- मपि यः पठेत्। स वै देवादिकैर्वन्द्यो भविष्यति न संशयः ॥५६॥ मारणोच्चाटनादिभ्य एकविंशतिवारतः। तावद्दिनानि पाठेन तस्य नैव भयं भवेत् ॥५७॥ धनधान्यादिकं सर्वमारोग्यं पशुवर्धनम्। यं यं चिंतयते कामं तं तं प्राप्नोति निश्चि- तम् ॥५८॥ शिव उवाच॥ गणेशवचनं श्रुत्वा हृष्टा विष्णुवादयः सुराः। प्रणिपत्य गणाधीशं कृतांजलिपुटा जगुः ॥५९॥ पंचदेवा ऊचुः। सनाथा हि वयं जाताः सर्वे त्वय्यागते प्रभो। वरं देहि गणाधीश तव भक्तिं दृढां तथा ॥६०॥ तेन माया न बाधेत नरान् देवानपि प्रभो। किमस्माभिः प्रकर्तव्यं तदाज्ञापय सर्वदा ॥६१॥ सामर्थ्यं विविधं देहि भजतां कामपूरणम्। स्थानं सदानंदनाम देहि नाथ नमोऽस्तु ते ॥६२॥ गणेश उवाच॥ चतुर्मुख महाबाहो रजोगुणसमुद्भव। सृष्टिकर्ता भव त्वं वै ब्रह्मा नाम्ना महाद्युते ॥६३॥ सत्यलोकनिवासी तु हंसवाहनवान् भव। वेदादिज्ञानयुक्तश्च सर्वेषां त्वं पितामहः ॥६४॥ चतुर्भुजोऽसि देवेश त्वं वै सत्त्वसमुद्भवः। पालकः सर्वलोकानां विष्णुनामा भविष्यसि ॥६५॥ वैकुंठे वसतिस्ते स्यात्