भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 30, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 30

खं. १ अ. १२

वाहनं गरुडस्तव। नानावतारांश्चापि भविष्यसि महाबलः ॥६६॥ पंचवक्त्र महातेजस्तमोगुणसमुद्भव। संहारकारको नित्यं हरनामा भविष्यसि ॥६७॥ कैलासे वसतिस्तेऽस्तु वाहनं वृषभस्तथा। तृतीयेन स्वनेत्रेण सर्वं भस्मीकरिष्यसि ॥६८॥ सहस्रकिरण त्वं वै सूर्यनामा भविष्यसि। कर्मणां चालकत्वात् षड्‌ऋतुधर्मप्रकाशकः ॥६९॥ त्रिगुणानामहंभावात्त्वं जातोऽसि प्रकाशकः। रथोऽश्वालंकृतश्चापि वाहनं ते भविष्यति ॥७०॥ सौरलोके निवासश्च ग्रहराजो भविष्यसि। वृष्टिमूलं त्वमेवाऽसि तेजोराशिः प्रतापवान् ॥७१॥ चतुर्भुजे महाशक्ते त्वं जाताऽसि त्रिदेहतः। नानाविषयभोगार्थं सदेहा मोहकारिणी ॥७२॥ शक्तिनाम्नी महामाया भविष्यसि न संशयः। द्विधा मोहप्रदात्री त्वं भुक्तिमुक्तिभ्रमात्मिका ॥७३॥ सिंहवाहनगा नित्यं शक्तिलोकनिवासिनी। नानाभोगविमोहेन जगत्सर्वं मोहयिष्यसि ॥७४॥ महाकार्ये समुत्पन्ने प्रत्यक्षोऽहं भवामि वै। मत्तुल्याः सर्वभावेन कृता देवा न संशयः ॥७५॥ आयुधं भूषणं श्रेष्ठं नानासामर्थ्यमद्भुतम्। संकल्पसिद्धतां चैव ददौ तेभ्यो गणाधिपः ॥७६॥ शिव उवाच। इति दत्त्वा वरान् देवो गणेशोऽन्तर्दधे स्वयम्। तेऽपि हृष्टा निजात्मानं कृतकृत्यं च मेनिरे ॥७७॥ भजतां भक्तिभावेन कामपूराः कृता वयम्। परमेश्वरतां प्राप्ताः प्रसादाद्गणपस्य च ॥७८॥

ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरिते पंचदेववरप्रदानं नामैकादशोऽध्यायः ॥

॥ श्रीगणेशाय नमः॥ शौनक उवाच। सूत सूत महाप्राज्ञ परमानंददायक। कथाममृतरूपां च कथयस्व महाद्युते ॥१॥ वयं प्रसन्नतां याताः कृतकृत्या यथा तथा। सुकथामृतपानेन स्वानंदेन परिप्लुताः ॥२॥ कथयस्व कथां दिव्यां पंचदेवैश्च किं कृतम्। विस्तारेण यथाख्यायं येन मुक्ता भवाम च ॥३॥ श्रुत्वा तेषां मुनीनां च वचनं भक्तिभावितम्। हृष्टः सूतः पुनः प्राह कथां पापप्रणाशिनीम् ॥४॥ सूत उवाच। एवमेव स दक्षेण पृष्टो योगीश्वरो महान्। मुद्गलस्तं यथोवाच तथा वच्मि महामुने ॥५॥ मुद्गल उवाच। शृणु दक्ष महाभाग पार्वत्या शिवसन्निधौ। यत्पृष्टं यच्छ्रुतं सर्वं कथयामि सविस्तरम् ॥६॥