भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 31, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 31

खं. १ अ. १२ पान ३१ पार्वत्युवाच । भगवन् देवदेवेश तारिताऽहं त्वया प्रभो । सुकथामृतपानेन कृतकृत्याऽस्मि सांप्रतम् ॥७॥ पंच देवाः समर्थाश्च प्राभवन् वरदानतः । किं चक्रुस्ते महात्मानः कथयस्व विधानतः ॥८॥ गणेशभक्तियुक्तं चेच्चरितं कथयस्व मे । अथवा गाणपत्यानां चरितं ब्रह्मदायकम् ॥९॥ व्यर्थसंलपनेनायुर्नाशः कार्यो न शोभनैः । धन्यास्ते साधवो लोका गणराड्भक्ति- भाविताः ॥१०॥ मुद्गल उवाच । प्रियाया वचनं श्रुत्वाऽतिहृष्टः स महेश्वरः । उवाच स्मयमानश्चालिंग्य देवीं महायशाः ॥११॥ शिव उवाच । धन्याऽसि पार्वति त्वं च सार्थकं जन्म ते परम् । भक्त्या धृतो गणेशोऽयं हृदि तेन वरानने ॥१२॥ गणेशभक्ति- युक्ता ये नरास्ते ब्रह्मरूपिणः । दर्शनान्मुक्तिदातारः सर्वेभ्यो नात्र संशयः ॥१३॥ गणेशं यः परित्यज्य सिद्धिमिच्छति शाश्वतीम् । स मूढात्मा तु विज्ञेयो नारकी नात्र संशयः ॥१४॥ अन्यदेवस्य ये भक्ता गणेशं नार्चयंति चेत् । तेषां न भविता सिद्धिर्नरेकेषु पतंति ते ॥१५॥ सुधां संत्यज्य रूक्षान्नं सेवते दुर्मतिर्यथा । गणेशानं तथा त्यक्त्वाऽन्यस्य देवस्य सेवकः ॥१६॥ अस्माकं जनको माता सर्वेषां नात्र संशयः । ज्येष्ठराज इति ख्यातस्तेनादौ पूज्यकोऽभवत् ॥१७॥ त्यक्त्वा गणेशं मूढात्मा देवादीनपि पूजयेत् । गणेशोल्लंघनात्तं वै क्षिपामो नरके वयम् ॥१८॥ गणेशनिंदको जंतुरस्माकं भक्तिकारकः । नारकी भज्जितः सद्योऽस्मद्गुरुद्वेषकारकः ॥१९॥ अतस्त्वं धन्यरूपाऽसि सर्वेषां मूलबीजकम् । भजसि त्वं गणेशानं भक्तिभावसमन्विता ॥२०॥ सत्यं देवि त्वया प्रोक्तं गाणेशानां प्रकीर्तनम् । गणेशस्य च वा कार्ये तेन जन्म कृतार्थकम् ॥२१॥ गणेशं प्रार्थयामीति शृणु चिंतामणे प्रभो । चित्ते निवासकारिन् वै गजानन महोदर ॥२२॥ गाणपत्या महाभागास्तेषां संगः सदास्तु मे । तेषां मध्ये तथा वासं देहि त्वं द्विरदानन ॥२३॥ अग्रे मे गाणपत्यास्ते पृष्ठे वामे च दक्षिणे । सर्वत्र सह तैर्वासो गाणपत्यैर्भवत्विति ॥२४॥ येषां मुखारविन्देषु गणेशचरितं बभौ । भवबंधहरं पूर्णमिहा- ऽमुत्र सुखप्रदम् ॥२५॥ चरितं गाणपत्यानां गणराट्सेवनात्मकम्। अहर्निशं प्रभवति चेष्टदं ढुंढिभक्तिदम् ॥२६॥ तारितोऽहं त्वया देवि कथां पृच्छसि मां पुनः । गणेशभक्तिपूतां वा भक्तानां तस्य भावतः ॥२७॥ प्रष्टुः श्रोतुश्च वक्तुर्या ब्रह्म- भूयपदप्रदा । इह तां तु वदामि त्वां गाणेशीं सुखदायिनीम् ॥२८॥ पंचदेवास्तथा जाता यथा गणपतिः स्वयम् । वरदः कथयामास ईश्वराज्ञानभाविताः ॥२९॥ पंचलोकाः समुद्भूता वरदानप्रभावतः । निराधारा अखंडाश्चावसंस्तेषु विभागशः ॥३०॥ कैलासे शंकरश्चैव वैकुंठे विष्णुरेव च । सौरलोके रविः शक्तिलोके चैव जगन्मयि ॥३१॥ सत्यलोके