मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 32, कुल 1023 में से
संदर्भ में पढ़ेंखं. १ अ. १२ पान ३२ ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖ तथा ब्रह्मा वसति स्म मुदान्वितः । ऐश्वर्यभोगभोक्तारः परस्परहिते रताः ॥३२॥ सत्यसंकल्पवंतस्त ईश्वरा ब्रह्ममानिनः । बहुकालेन तेषां वै मत्सरः समजायत ॥३३॥ अहं श्रेष्ठतमश्चैव सर्वेषां प्रभुरीश्वरः । हृदये मन्यमानास्ते विवादं चक्रुरंजसा ॥३४॥ आपश्च तत्र संसृष्टा विष्णुना स्वशरीरतः । तासु संसुप्तवान् देवो बहुकालं यथासुखम् ॥३५॥ जले शैवालवल्ली च समुत्पन्ना क्रमेण वै । बहुकालेन तन्मध्ये पृथिवी जाता स्वभावतः ॥३६॥ लीलार्थं विष्णुना सृष्टं नाभ्यां कमलमुज्ज्वलम् । शतयोजनविस्तारं कर्णिकापत्रशोभितम् ॥३७॥ सुवासबहुलं वीक्ष्य तेन रेमे जनार्दनः । एककाले जगाम स्म तत्र ब्रह्मा पितामहः ॥३८॥ कमलं तेन संदृष्टं विस्मितो हृदये भृशम् । केन सृष्टमिदं दिव्यं पद्मं परमशोभनम् ॥३९॥ तत्र नारायणं दृष्ट्वा प्रसुप्तं स महार्णवे । प्रभुमुत्थापयामास ब्रह्मा तं स्नेहभावतः ॥४०॥ ब्रह्मणो वचनेनैव समुत्तस्थौ जनार्दनः । ब्रह्माणं मानयामास स्वागतं भो पितामह ॥४१॥ तत्र ब्रह्मा महाविष्णुं प्रत्युवाच समत्सरः । किं मोहार्थं त्वया सृष्टं पद्मं परमशोभनम् ॥४२॥ अहं ब्रह्मा जगत्स्रष्टा सर्वादिः सर्वभावनः । मया प्रक्रियते सृष्टिः पश्चात्त्वं पालयिष्यसि ॥४३॥ सृजामि यदि नो तां चेत्किं पासि त्वं जनार्दन । मदधीनश्च सर्वेषां भावस्तेनाहमीश्वरः ॥४४॥ ब्रह्मणो वचनं श्रुत्वा विस्मितः स जनार्दनः । उवाच मधुरं वाक्यं ब्रह्माणं सांत्वयन्निव ॥४५॥ विष्णुरुवाच । सृष्टवान् कमलं नाहं मोहितुं त्वां पितामह । लीलार्थं पद्ममेवेदं पश्य त्वं नात्र संशयः ॥४६॥ समत्सर- मिदं वाक्यं त्वयोक्तं यत् पितामह । अहं त्वां पालयामीदं तेन स्रष्टा भवान् किल ॥४७॥ नान्यो पातास्ति मत्तस्ते सर्वेषां पातृभावतः । अहं स्थितो महाविष्णुर्मत्समो नैव विद्यते ॥४८॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुण्डचरिते ब्रह्मविष्णुविवादो नाम द्वादशोऽध्यायः ॥ ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖