भारतकोश
संग्रह पर लौटें

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

खं. १ अ. १२ पान ३२ ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖ तथा ब्रह्मा वसति स्म मुदान्वितः । ऐश्वर्यभोगभोक्तारः परस्परहिते रताः ॥३२॥ सत्यसंकल्पवंतस्त ईश्वरा ब्रह्ममानिनः । बहुकालेन तेषां वै मत्सरः समजायत ॥३३॥ अहं श्रेष्ठतमश्चैव सर्वेषां प्रभुरीश्वरः । हृदये मन्यमानास्ते विवादं चक्रुरंजसा ॥३४॥ आपश्च तत्र संसृष्टा विष्णुना स्वशरीरतः । तासु संसुप्तवान् देवो बहुकालं यथासुखम् ॥३५॥ जले शैवालवल्ली च समुत्पन्ना क्रमेण वै । बहुकालेन तन्मध्ये पृथिवी जाता स्वभावतः ॥३६॥ लीलार्थं विष्णुना सृष्टं नाभ्यां कमलमुज्ज्वलम् । शतयोजनविस्तारं कर्णिकापत्रशोभितम् ॥३७॥ सुवासबहुलं वीक्ष्य तेन रेमे जनार्दनः । एककाले जगाम स्म तत्र ब्रह्मा पितामहः ॥३८॥ कमलं तेन संदृष्टं विस्मितो हृदये भृशम् । केन सृष्टमिदं दिव्यं पद्मं परमशोभनम् ॥३९॥ तत्र नारायणं दृष्ट्वा प्रसुप्तं स महार्णवे । प्रभुमुत्थापयामास ब्रह्मा तं स्नेहभावतः ॥४०॥ ब्रह्मणो वचनेनैव समुत्तस्थौ जनार्दनः । ब्रह्माणं मानयामास स्वागतं भो पितामह ॥४१॥ तत्र ब्रह्मा महाविष्णुं प्रत्युवाच समत्सरः । किं मोहार्थं त्वया सृष्टं पद्मं परमशोभनम् ॥४२॥ अहं ब्रह्मा जगत्स्रष्टा सर्वादिः सर्वभावनः । मया प्रक्रियते सृष्टिः पश्चात्त्वं पालयिष्यसि ॥४३॥ सृजामि यदि नो तां चेत्किं पासि त्वं जनार्दन । मदधीनश्च सर्वेषां भावस्तेनाहमीश्वरः ॥४४॥ ब्रह्मणो वचनं श्रुत्वा विस्मितः स जनार्दनः । उवाच मधुरं वाक्यं ब्रह्माणं सांत्वयन्निव ॥४५॥ विष्णुरुवाच । सृष्टवान् कमलं नाहं मोहितुं त्वां पितामह । लीलार्थं पद्ममेवेदं पश्य त्वं नात्र संशयः ॥४६॥ समत्सर- मिदं वाक्यं त्वयोक्तं यत् पितामह । अहं त्वां पालयामीदं तेन स्रष्टा भवान् किल ॥४७॥ नान्यो पातास्ति मत्तस्ते सर्वेषां पातृभावतः । अहं स्थितो महाविष्णुर्मत्समो नैव विद्यते ॥४८॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुण्डचरिते ब्रह्मविष्णुविवादो नाम द्वादशोऽध्यायः ॥ ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖

[शीर्षक] खं. १ अ. १३ | पान ३३


॥ श्रीगणेशाय नमः ॥ शिव उवाच ॥ शृणु देवि कथां पुण्यां गणेशप्रीतिवर्धिनीम्। यज्जातमादिकाले वै तत्तेऽहं कथयामि च ॥१॥ विष्णोर्वचनमाकर्ण्य गर्वयुक्तं प्रभावतः। भगवांस्तमुवाचेदं वेदकर्ता पितामहः ॥२॥ ब्रह्मोवाच ॥ विष्णो त्वं यदि मां पाता सर्वेशश्च महान् प्रभुः। पश्योदरगतो भूत्वा प्रभावं मे जगद्गुरो ॥३॥ ब्रह्मणो गिरमाकर्ण्य प्रविष्टोऽसौ जनार्दनः। योगमायाबलेनैव योगीशो जठरे विधेः ॥४॥ ब्रह्मांडरचनां तत्र दृष्ट्वा नानाविधां पराम्। नाभिपद्मयुतं विष्णुं ददर्श पुरुषोत्तमः ॥५॥ विस्मितो हृदि मोहेन किमद्भुतमिदं महत्। पश्यन्नांतं जगामाऽसौ निःसृतो देहमध्यतः ॥६॥ निःसृतः प्रणिपत्याऽऽदौ तं विधिं त्ववदत्प्रभुः। ब्रह्मन्नांतं प्रजानामि त्वदीयं वै न संशयः ॥७॥ त्वदीयजठरेऽहं वै स्थितस्तेन भवान् गुरुः। सर्वेशो नात्र संदेहः स्रष्टा त्वं स्वप्रभावतः ॥८॥ त्वमेव भगवन् पश्य मदीये जठरे परम्। प्रभावं पूर्णभावेन मदीयं कीदृशं प्रभो ॥९॥ नारायणवचः श्रुत्वा ब्रह्मा विस्मितमानसः। योगस्यैव प्रभावेण गतस्तत्र यथारुचि ॥१०॥ विष्णोश्च जठरे ब्रह्मा ब्रह्मांडं लोकसंकुलम्। ब्रह्माणमपरं तत्र स्थितं पश्यन् विमोहितः ॥११॥ ब्रह्मा नान्तं जगामाऽसौ पश्यन् पश्यन् महात्मनः। बहिर्गंतुं मनश्चक्रे विष्णुना मार्ग आवृतः ॥१२॥ द्वाराणि योगभावेन पिहितानि स्वमायया। भ्रमन् भ्रमन् स्वयं ब्रह्मा प्राप नो मार्गमुत्तमम् ॥१३॥ तत्र योगबलेनाऽपि ब्रह्मा वै पद्मनालतः। निर्भिद्य सहसा द्वारं ययौ तेन बहिर्विधिः ॥१४॥ बहिरागत्य विष्णुं तं क्रोधेन स जगाद ह। वशमानीय मां किं त्वं स्वच्छंदो भवसि प्रभो ॥१५॥ अहं स्वेन प्रभावेण निःसृतो योगमायया। द्वाराणि पिहितान्येव किमर्थं वद माधव ॥१६॥ वचनं प्राह देवस्य श्रुत्वा विष्णुर्महायशाः। प्रहस्य तमुवाचेत्थं स्नेहयुक्तं समाहितः ॥१७॥ विष्णुरुवाच। वशीकर्तुं विधे त्वाहमिच्छामि न जगद्गुरो। द्वाराणि पिहितान्येव मया क्रीडार्थमादरात् ॥१८॥ परस्परं तु लीलार्थं कृतं यत्प्रपितामह। प्रभावं ज्ञातुकामस्य त्वपराधं क्षमस्व मे ॥१९॥ इति प्रसादितो ब्रह्मा प्रसन्नः प्राह तं पुनः। क्रीडार्थं यत्त्वया विष्णो कृतं ज्ञातं न वै मया ॥२०॥ अहं क्रोधसमायुक्तः संजातोऽज्ञानतः प्रभो। अप्रियं भाषणं विष्णो यत् क्षमस्व कृतं मया ॥२१॥ तवांतं नैव जानामि जठरेऽहं समास्थितः। त्वं श्रेष्ठो मे गुरुः साक्षान्नात्र संशयवान् हरे ॥२२॥ भवानहमतः प्राज्ञौ श्रेष्ठौ सर्वेश्वरौ परौ। शंभुः शक्तिश्च सूर्यश्च गर्वयुक्ता बभूविरे ॥२३॥ तेषां प्रमाणं तज् ज्ञेयमिति सस्मरतुः प्रभू। तयोः स्मरणमात्रेण संययुस्तत्र ते त्रयः ॥२४॥ प्रथमं प्राप्तवांस्तत्र शंकरः शूलधृक् प्रभुः। उक्तवांस्तौ

[हेडर] खं. १ अ. १३ | पान २४


किमर्थं मे स्मरणं वदतं कृतम् ॥२५॥ तत्रोचतुर्हरिर्ब्रह्मा शृणु शंकर मे वचः । तवैश्वर्यं कियन्मात्रं दर्शयस्व सदाशिव ॥२६॥ तयोर्वचनमाकर्ण्य गर्वयुक्तः सदाशिवः । उवाच क्रोधसंयुक्तो वचनं विस्मयन्निव ॥२७॥ शिव उवाच । अहं हर्ता च सर्वेषां युवयोर्नात्र संशयः । मत्तः परं न किंचिद्वै ज्ञातव्यं सर्वभावतः ॥२८॥ इत्युक्त्वा स स्वयं शंभुर्दर्शयामास तौ वपुः । ज्योतीरूपं महालिंगं परं सर्वत्र संस्थितम् ॥२९॥ तत्तौ दृष्ट्वा महाश्चर्यं विस्मितौ विधिमाधवौ । अध ऊर्ध्वं पुरः पश्चाद्वाम- दक्षिणसंततम् ॥३०॥ तत्र ब्रह्मा स्वयं विष्णुमुवाच मधुरं वचः । अधस्त्वं गच्छ देवेश ऊर्ध्वं गच्छामि भावतः ॥३१॥ शिवस्यांतं प्रपश्यावः कीदृशोऽयं महेश्वरः । अतस्त्वं त्वरितो भूत्वा कुरु शीघ्रमिदं वचः ॥३२॥ इत्युक्तो ब्रह्मणा विष्णुस्तं प्रत्यूचे प्रभावतः । ब्रह्मन्मह्यं वरं देहि पश्चादंतं समुत्सहे ॥३३॥ भ्रांतो ब्रह्माऽभवत्तत्र वरं ब्रूहीति सोऽब्रवीत् । दास्यामि नात्र संदेहः प्रीतस्त्वं वरयाशु च ॥३४॥ विष्णुरुवाच । त्वं मे पुत्रो भव ब्रह्मन्नेष एव वरो मतः । तस्य तद्वचनं श्रुत्वा विस्मितो विधिरब्रवीत् ॥३५॥ वंचितोऽहं त्वया नूनं संभ्रमेऽस्मिन् समुत्थिते । दत्तो वरो यतस्तेन तव पुत्रो भवाम्यहम् ॥३६॥ सृष्टिकाले च संप्राप्ते त्वन्नाभिकमलात् स्वयम् । देहं सृजामि योगेन पद्मजोऽहं तवात्मजः ॥३७॥ इत्युक्तः स हरिस्तत्र तं प्रणम्य तथेति च । प्रविष्टोधः शिवस्यापि द्रष्टुं पारं महात्मनः ॥३८॥ ब्रह्माऽपि त्वरितो भूत्वोर्ध्वं ययौ पारलिप्सया । न तत्र पारमीशस्य प्राप्तवान् स पितामहः ॥३९॥ विष्णुश्च शंकरस्याधो न पारं दृष्टवान् ततः । बहुकालेन तौ तत्राऽऽगतौ तौ खिन्नमानसौ ॥४०॥ परस्परविचारेण शंकरं स्तोतुमुद्यतौ । बद्धांजलिपुटावेतौ स्तोत्रं चक्रतुरुत्तमम् ॥४१॥ ब्रह्मविष्णू ऊचतुः । नमस्ते शंकरायैव नमस्ते शूलपाणये । रुद्राय कालरूपाय त्र्यंबकाय नमो नमः ॥४२॥ उमापते नमस्तुभ्यं वृषभेश्वरवाहन । आदिदेवाय देवाय महादेवाय ते नमः ॥४३॥ प्रसीद भगवन् शंभो नांतं पश्यावहे विभो । किंरूपं किंस्वभावं त्वां न जानीवः कथंचन ॥४४॥ दर्शय स्वात्मरूपं भो महेश्वर नमोऽस्तु ते । येन ते भजनं देव जनाः कुर्वंति निर्भयाः ॥४५॥ तयोर्वचनमाकर्ण्य शंभुः प्राकट्यमास्थितः । ततस्तं तौ ददृशतुर्हरिश्च भगवान् विधिः ॥४६॥ वामभागे स्थितं विष्णुं दक्षिणांगे पितामहम् । विश्वं चराचरं सर्वं लिंगे तत्रास्य संस्थितम् ॥४७॥ अपारमहिमानं तं दृष्ट्वा नेमतुरादरात् । उपसंहर रूपं तत्त्वमेव परमेश्वरः ॥४८॥ तयोर्वचनमाकर्ण्य हृष्टः सन् शंकरः प्रभुः । भगवान् पूर्वरूपेण संतस्थौ वृषभध्वजः ॥४९॥ उवाच तौ महादेवो वृणुतं वरमीप्सितम् । दास्यामि भवतोर्भावात् स्तोत्र-

खं. १ अ. १४ पान ३५ संतुष्टमानसः ॥२०॥ य एतत्पठति स्तोत्रं स कामान् लभतेऽखिलान् । मत्प्रियः सोऽपि भवति मल्लोकेऽन्ते प्रगच्छति ॥२१॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुंडचरिते पंचदेवविवादो नाम त्रयोदशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ शिव उवाच । शृणु देवि प्रवक्ष्यामि यज्जातं चाद्भुतं ततः । गणेशमायामोहेन मोहितानां चरित्रकम् ॥१॥ शिवस्य वचनं श्रुत्वा विष्णुर्ब्रह्माणमब्रवीत् । वरं वृणु विरिंच त्वां शिवात्पुत्रो भवेति मे ॥२॥ तव पुत्रः शिवो जातस्तेन मे पौत्रतां गतः । उभयोः सफलं पूर्णं वांछितं जातमद्भुतम् ॥३॥ विष्णोर्वचनमाकर्ण्य विधिः शंकरमब्रवीत् । मम पुत्रो भव त्वं वै वर एष वृतो मया ॥४॥ विष्णुनाऽपि तदेवोक्तं तथा वै शंकरोऽब्रवीत् । तव भालाद्भविष्यामि रुद्रोऽहं त्वंशतो विधे ॥५॥ शिवस्य वचनं श्रुत्वा संतुष्टौ विधिमाधवौ । ऊचतुः शंकरं तत्र स्नेहात्तं भावपूर्वकम् ॥६॥ विधिवच्छिव पश्य त्वमैश्वर्यं चावयोः पृथक् । तेन तुष्टौ महादेव भविष्यावो न संशयः ॥७॥ तयोर्यदैश्वरं भावं शिवोपि ज्ञान- चक्षुषा । दृष्ट्वा नांतं जगामाऽसौ तौ पुनः प्रत्युवाच ह ॥८॥ भवतोर्महिमानं चापारं पश्यामि शाश्वतम् । वयं त्रयः समा- ख्याता ईश्वराः सर्वतः पराः ॥९॥ एतस्मिन्नंतरे तत्राऽजगाम स दिवाकरः । तेजोराशिः सदात्मा च पृच्छति स्म समाहितः ॥१०॥ किमर्थं स्मरणं देवा मदीयं कृतमादरात् । तन्मे कथयताद्य त्वागतोऽहं स्नेहतः परम् ॥११॥ भानोर्वचनमाकर्ण्य प्रहृष्टास्ते त्रयो भृशम् । ऊचुः प्रसन्नभावेनैश्वर्यं ते दर्शय प्रभो ॥१२॥ तेषां श्रुत्वा गिरं सौम्यां दर्शयामास रूपकम् । तेजोमयमपारं यच्चराचरमयं महत् ॥१३॥ सूर्यस्य तेजसा सर्वे निष्प्रभास्ते त्रयः कृताः । प्रणष्टदृष्टयो जाता न शेकुर्दृष्टुमंजसा ॥१४॥ ज्ञानदृष्ट्या च तं दृष्ट्वा चराचरतनुं प्रभुम् । अपाररूपं भास्वंतं नतास्तं स्नेहभावतः ॥१५॥ दर्शयित्वा तथात्मानं सौम्यरूपोर्यमाऽभवत् । तमूचुस्ते त्रयो देवा नांतं ददृशिम प्रभो ॥१६॥ अस्माकमपि पश्य त्वमैश्वर्यं स्नेहभावतः । तेषां तद्वचनं श्रुत्वा रविर्हृष्टो बभूव ह ॥१७॥ ज्ञानदृष्ट्या रविस्तेषामैश्वर्यं दृष्टवान् परम् । उवाच प्रणतो भूत्वा विस्मितश्चेतसा भृशम् ॥१८॥ भवंतोऽपि महात्मानो नांतं पश्यामि सर्वतः । युष्माकमैश्वरं भावमद्भुतं

खं. १ अ. १४ पान ३६ दृष्टवानहम् ॥१९॥ वयं सर्वेश्वराः सर्वे भगवंतः सनातनाः । न्यूनाधिकं कलामात्रं विद्यते नैव निश्चितम् ॥२०॥ तस्मिन् क्षणे स्वयं शक्तिरागता मोहिनी परा । उवाच तान् प्रसन्ना मे किमर्थं स्मरणं कृतम् ॥२१॥ तामूचुस्ते च चत्वारो देवाः स्नेहेन भाविताः । दर्शयस्व महादेवि ऐश्वर्यं कीदृशं तव ॥२२॥ इत्युक्ता सा स्वरूपं तद्दर्शयामास सुंदरम् । चराचरमयं पूर्णं स्थूलसूक्ष्मादिभिर्युतम् ॥२३॥ दृष्ट्वा रूपं तदीयं वै भ्रांतास्ते शरणं ययुः । नांतं ददृशिमार्ये ते रूपस्य महतः किल ॥२४॥ सौम्यरूपा तदा जाता तामूचुः पश्य भावतः । अस्माकं देवि चैश्वर्यं कीदृशा वयमेव च ॥२५॥ तेषां वचनमाकर्ण्य ज्ञानदृष्ट्या स्म पश्यति । नांतं जगाम तेषां वै नता सा तान्विशेषतः ॥२६॥ उवाच स्नेहभावेन नांतं पश्यामि कुत्रचित् । भवंतोऽपि महात्मान ईश्वराः पूर्णभावतः ॥२७॥ वयं पंच समा नाथा नांतरं दृश्यते क्वचित् । कः समर्थो भवेद्देवो निश्चयो नैव दृश्यते ॥२८॥ गणेशमायया भ्रांता अवदंस्ते परस्परम् । प्रभुरेकश्च सर्वत्र वेदे वै पठ्यते बुधैः ॥२९॥ प्रभवः पंच कुत्रापि नोक्ताः शास्त्रेषु संमताः । अतः कोपि प्रभुर्भाव्यः स च वै कुत्र वर्तते ॥३०॥ एवं विवादे संप्राप्ते विस्मृतं ज्ञानमायकम् । गाणेशं चित्तचांचल्यादूर्ध्वं जग्मुः प्रभावतः ॥३१॥ न किंचिद्ददृशुस्तत्राधो भागे प्रययुस्ततः । एवं दश दिशो भ्रांताः पश्यंतस्ते परस्परम् ॥३२॥ न किंचिद्ददृशुस्तत्र स्थिता एकत्र ते पुनः । योगमार्गेण चित्ते खे ध्यानं चक्रुः क्रमेण च ॥३३॥ ब्रह्माऽभेदस्वरूपं ते रेमिरे योगभावनः । एकीभूता इवात्मानः शांतिं प्राप्ताः स्वभावतः ॥३४॥ ततस्तान् दर्शयामास योगिध्येयमनुत्तमम् । स्वरूपं गणराजस्तु हृदये संस्थितं परम् ॥३५॥ चतुर्भुजं त्रिनेत्रं तच्छुंडादंडविरा- जितम् । एकदंतं शूर्पकर्णं वक्रतुंडं महोदरम् ॥३६॥ रक्तवर्णं महाकायं सिंदूरालिप्तमेव च । नाभिशेषं किरीटादिनानाभूषण- शोभितम् ॥३७॥ सिद्धिवृद्धियुतं पूर्णं विभूतिभिरुपासितम् । चिंतामणिं मणिं चैव दधत्तु हृदये शुभम् ॥३८॥ प्रसन्नवदनं भक्तानुग्रहाणं प्रकारकम् । हृदि दृष्ट्वाऽभवन्नेव विस्मितास्ते सुराः प्रिये ॥३९॥ तमादौ शंकरस्यैव हृदि प्रकटतां गतः । तं पप्रच्छ स्वयं शंभुः को भवान् वद मे प्रभो ॥४०॥ शांतियोगेन संप्राप्तः किं न ब्रह्मपतिः परः । कथयस्व महाभाग त्वां न जानामि तत्त्वतः ॥४१॥ ॥ ओमिति श्रीमदन्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुंडचरिते गणेशप्रादुर्भावो नाम चतुर्दशोऽध्यायः ॥

[Header] खं. १ अ. १५ | पान ३७


॥ श्रीगणेशाय नमः ॥ सूत उवाच । शिवस्य वचनं श्रुत्वा भक्तिभावेन तोषितः । उवाच मधुरं वाक्यं विघ्नेशस्तं प्रहर्षयन् ॥१॥ वक्रतुंड उवाच ॥ शृणु शंभो महाभाग मम मायाविमोहित । गणेशोऽहं पुनर्द्दष्टस्तपसा भावितात्मना ॥२॥ यः पुरा भवतो देव वरदाताऽभवं परः । उग्रेण तपसा तुष्टोऽकरवं ज्ञानसंयुक्तम् ॥३॥ ममैषा सततं माया प्रमोहयति मानवान् । तेन विस्मरणं प्राप्तं तवाऽपि न च संशयः ॥४॥ एवमुक्त्वा शिवं मायामोहजालं निराकरोत् । सर्वं च स्मरणं तेन पुनः प्राप्तं शिवस्य च ॥५॥ सर्वं स्मृत्वा शिवस्तत्र स्तोतुं समुपचक्रमे । तावदंतर्हितं जातं रूपं गणपतेः शुभम् ॥६॥ पुनर्ध्यानेन शंभुः स तमेवाचिंतयन् स्थितः । नापश्यद् हृदि तद्रूपं तेनाकुल इवाऽभवत् ॥७॥ आययौ विष्णुरभ्याशे सर्वं त्वकथयच्छिवम् । अदृष्टं तादृशं रूपं कथयामास सोऽपि तम् ॥८॥ एवं पंचाप्यदृष्ट्वा तत् विस्मिता अभवन् परम् । एकत्र मिलिता जाता- स्तुष्टुवुस्तं गतस्मयाः ॥९॥ पंच देवा ऊचुः । नमस्ते वक्रतुंडाय त्रिनेत्रं दधते नमः । चतुर्भुजाय देवाय पाशांकुशधराय च ॥१०॥ लंबोदर नमस्तुभ्यं नाभिशेषाय ते नमः । महते चैकदंताय शूर्पकर्णाय ते नमः ॥११॥ सिंदूरारुणदेहाय रक्तवर्णधराय च । महाकायाय सूक्ष्माय गणेशाय नमो नमः ॥१२॥ सिद्धिबुद्धियुतायैव विभूतिसहिताय च । चिंतामणिधरायैव तथा चिंतामणे नमः ॥१३॥ अव्यक्ताय परेशाय परेषां च पराय ते । मनोवाणीविहीनाय विघ्नेशाय नमो नमः ॥१४॥ नानामाया- धरायैव मायिनां मोहकारिणे । हेरंबाय नमस्तुभ्यं ब्रह्मणो पतये नमः ॥१५॥ दर्शयस्व निजं रूपं भक्तेभ्यः प्रीतिदायकम् । सनाथा हि वयं तेन सर्वनाथाय ते नमः ॥१६॥ स्तुवतां तु पुरः प्रादुरासीद्देवो गजाननः । तं दृष्ट्वा दंडवत् सर्वे प्रणता भक्ति- भावतः ॥१७॥ तानुत्थाप्य स्वयं ढुंढिर्वचनं चेदमब्रवीत् । स्तोत्रेण भावितो देवाः प्रीतो वो नात्र संशयः ॥१८॥ यः पठेत् स्तोत्रमेतद्वै स मे मान्यो भवेत् सुराः । वांछितं पूरयिष्याम्यंते मे सायुज्यमाप्नुयात् ॥१९॥ शृणुध्वं मे वचो रम्यं मा गर्वं कुरुत प्रियाः । भवंतो मदधीनाश्च कलांशा नात्र संशयः ॥२०॥ क्रीडार्थं निर्मिताः सर्वे स्पर्धमानाः परस्परम् । किमर्थं मनसि भ्रांता जाताः पूर्णात्मका अपि ॥२१॥ श्राव्यं ज्ञानं रहस्यं यन् मदीयं तेन भाविताः । सदा मोहविनिर्मुक्ता भविता- रश्च मत्समाः ॥२२॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुंडचरिते गणेशप्रसन्नभावो नाम पंचदशोऽध्यायः ॥

खं. १ अ. १६ पान ३८

॥ श्रीगणेशाय नमः ॥ शिव उवाच। गणेशवचनं श्रुत्वा प्रणता भक्तिभावतः। पप्रच्छुस्तं पुनः शांता ज्ञानं ब्रूहि गजानन ॥१॥ गणेश उवाच। देहश्चतुर्विधः प्रोक्तस्त्वं पदं ब्रह्मभेदतः। सोऽहं देही चतुर्धा तत्पदं ब्रह्म सदैक्यतः ॥२॥ संयोग उभयोर्यश्चाऽसि पदं ब्रह्म कथ्यते। स्वत उत्थानकं देवा विकल्पकरणाद् द्विधा ॥३॥ सदा स्वसुखनिष्ठं यद्ब्रह्म सांख्यं प्रकीर्तितम्। परतश्चोत्थानकं तत् क्रीडाहीनतया परम् ॥४॥ स्वतः परत उत्थानहीनं यद्ब्रह्म कथ्यते। स्वानंदः सकलाभेदरूपः संयोगकारकः ॥५॥ तदेव पंचधा जातमीश्वरास्तन्निबोधत। स्वतश्च परतो ब्रह्मोत्थानं यद् द्विविधं स्मृतम् ॥६॥ ब्रह्मणो नाम तद्भेदे कथ्यते भिन्नभावतः। तयोरनुभवो यश्च योगिनां हृदि जायते ॥७॥ रूपं तदेव ज्ञातव्यमसद्भेदेषु कथ्यते। सा शक्तिरियमाख्याता ब्रह्मरूपा ह्यसन्मयी ॥८॥ तत्रामृतमयाधारः सूर्य आत्मा प्रकथ्यते। शक्तिसूर्यमयो विष्णुरानंदो नंदनात्तयोः ॥९॥ त्रिविधेषु तदाकारस्तत् क्रियाहीनरूपकः। शिवो नेति चतुर्थोऽयं त्रिनेति करणात्परः ॥१०॥ त्रिविधं मोहमात्रं यन्निर्मोहस्तु सदाशिवः। तेषामभेदे यद्ब्रह्म स्वानंदः सर्वयोगतः ॥११॥ पंचानां ब्रह्मणां यच्च बिंबं मायामयं स्मृतम्। ब्रह्मा स एव विज्ञेयः सर्वादिः सर्वभावनः ॥१२॥ बिंबेन सकलं सृष्टं तेनायं प्रपितामहः। असत् सत् समनेति स्वानंदरूपा वयं स्मृताः ॥१३॥ स्वानंदायत् परं ब्रह्मायोगाख्यं ब्रह्मणां भवेत्। केषामपि प्रवेशो न तत्र तस्याऽपि कुत्रचित् ॥१४॥ मदीयं दर्शनं तत्रायोगे नो योगिनां भवेत्। स्वानंदे दर्शनं प्राप्तं स्वसंवेद्यात्मकं च मे ॥१५॥ स्वानंदवासिनं तेन वेदेषु प्रवदंति माम्। चतुर्णां ब्रह्मणां भोगास्तं योगाभेदयोगतः ॥१६॥ संयोगश्च ह्ययोगश्च तयोः परतरो मतः। पूर्णशांतिप्रदो योगश्चित्तवृत्तिनिरोधतः ॥१७॥ क्षिप्तं मूढं च विक्षिप्तमेकाग्रं च निरोधकम्। पंचभूमिमयं चित्तं तत्र चिंतामणिः स्थितः ॥१८॥ पंचभूमिनिरोधेन प्राप्यते योगिभिर्हृदि। शांतिरूपात्मयोगेन ततः शांतिर्मदात्मिका ॥१९॥ एतद्योगात्मकं ज्ञानं गाणेशं कथितं मया। नित्यं युक्तं च योगेन नैव मोहं प्रगच्छथ ॥२०॥ चित्तरूपा स्वयं बुद्धिः सिद्धिर्मोहमयी स्मृता। नानाब्रह्मविभेदेन ताभ्यां क्रीडति तत्पतिः ॥२१॥ त्यक्त्वा चिंताभिमानं च गणेशोऽहं समाधिना। भविष्यंति भवंतोऽपि मद्रूपा मोहवर्जिताः ॥२२॥ शिव उवाच। इत्युक्त्वा विररामाऽथ गणेशो भक्तवत्सलः। तेऽपि भेदं परित्यज्य शांतिं प्राप्ताश्च तत्क्षणात् ॥२३॥ एकविंशतिसुश्लोकैर्गणेशेन प्रकीर्तितम्। गीतासारं सुशांतेभ्यः शांतिदं योगसाधनैः ॥२४॥ गणेशगीतासारं च यः पठिष्यति भावतः। श्रोष्यति श्रद्दधानश्चेद्ब्रह्मभूतसमो भवेत् ॥२५॥ इह भुक्त्वाऽखिलान्

खं. १ अ. १७ पान ३९ भोगानंते योगमयो भवेत् । दर्शनात्तस्य लोकानां सर्वपापं लयं व्रजेत् ॥२६॥ ॥ ओमिति श्रीमदान्द्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरिते गणेशगीतासारकथनं नाम षोडशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ शिव उवाच । गणेशगीतासारं ते श्रुत्वा पंच सुरेश्वराः । ऊचुस्तं विस्मिताः सर्वे प्रणम्य गणनायकम् ॥१॥ पंच देवा ऊचुः । भगवन् भवता सर्वं कथितं तथ्यमेव च । तेन तृप्ता वयं स्वामिन् मोहशून्याः कृतास्त्वया ॥२॥ तव दर्शन- मात्रेण स्मरणं पूर्वकं कृतम् । गुणरूपा वयं ढुंढे कथं ब्रह्ममया वद ॥३॥ तेषां वचनमाकर्ण्य तानुवाच गजाननः । भक्तवत्सलभावेन तोषितोऽसौ महाप्रभुः ॥४॥ गणेश उवाच । स्वपदे जगति ब्रह्मरूपा वै जगदीश्वराः । भिन्नभावे गुणा- त्मानो भवंतोऽपि मया कृताः ॥५॥ चतुर्विधेन भावेन क्रीडामि ननु तत्र च । क्रीडया पतितं बिंबं तेन पंचविधोऽभवम् ॥६॥ बह्वेषु विलासेषु तेषु भावेषु देवपाः । भवंतो मदधीनाश्च संस्थिता नात्र संशयः ॥७॥ एषु भिन्नविहारेषु रजःसत्त्व- तमोमयाः । मया ब्रह्मा हरिः शंभुर्भिन्ना जाता हि मायया ॥८॥ अहंकारस्त्रिदेवानां सूर्यो मोहमयी तथा । शक्तिस्त्रिगुण- सिद्ध्यर्थमेते पंच मया कृताः ॥९॥ अहमत्र स्थितोंऽशेन वक्रतुंड इति स्मृतः । बिंदुब्रह्ममयः साक्षाद्भिन्नभावप्रकाशकः ॥१०॥ तुरीयं मे मया रूपं कृतं यद् गुणपं सुराः । ज्ञातव्यं बुद्धिरूपं तद्दक्षिणांगं प्रकथ्यते ॥११॥ पंचदेवविहाराख्यं वामांगं सिद्धिरूपकम् । सिद्धिबुद्धियुतोऽहं वै बिंदुमात्रात्मकोऽभवम् ॥१२॥ भक्तानां विघ्नरूपा ये वक्रास्ते कथिताः सुरैः । तांस्तुंडेन हनिष्यामि वक्रतुंडस्ततः स्मृतः ॥१३॥ मम माया मयाज्जीवाद्दूक्रं ब्रह्ममुखं यतः । तेनाऽहं वक्रतुंडस्तु लभ्य उन्मनसा भवेः ॥१४॥ भवतां कार्यसिद्ध्यर्थं विहारार्थं तु मायया । बिंदुरूपधरो भूत्वा स्थितोऽहं भावपूर्वकम् ॥१५॥ यदि मे स्मरणं यूयं विस्मरिष्यथ वै तदा । मायामोहेन संभ्रांता भविष्यथ महेश्वराः ॥१६॥ भवद्भिः सततं तस्मात् कर्तव्यं स्मरणं हृदि । आदौ पूज्यो भविष्यामि दैवे पित्र्ये च कर्मणि ॥१७॥ तेन सिद्धियुताः सर्वे भविष्यंति न संशयः । इत्युक्त्वांतर्दधे देवो

खं. १ अ. १७ पान ४०

गणेशो गणपालकः ॥१८॥ शिव उवाच । इति ते कथितो देवि ध्यानमार्गः पुरातनः । तं ध्यायामि हृदिस्थं मे गणेशं ब्रह्म- नायकम् ॥१९॥ अखिलं ब्रह्मणा सृष्टं चराचरमयं शिवे । नानावतारवान् विष्णुः स पाति गणपाज्ञया ॥२०॥ अहं संहारकारी च त्वं प्रमोदप्रदा शिवे । कर्मणां चालकः कालैर्भानुर्जातो न संशयः ॥२१॥ हिमाचलसुता त्वं वै जाता तेन सुविस्मृतम् । त्वयाऽखिलं हृदिस्थं च ज्ञानं गणपबोधकम् ॥२२॥ मया सुस्मारितं तुभ्यं स्मर सर्वं शुचिस्मिते । भवती च महामाया पश्य त्वं गणपं हृदि ॥२३॥ अष्टौ तस्याऽवतारांश्च कथयामि समासतः । भजता तेन मार्गेण भवेद्योगो न दुर्लभः ॥२४॥ प्रथमो वक्रतुंडश्च त्वंपदब्रह्म कथ्यते । द्वितीयं एकदंतश्च तत्पदब्रह्मबोधकः ॥२५॥ महोदरस्तृतीयस्तु ब्रह्मासि पदधारकम् । गजाननश्चतुर्थश्च सांख्यरूपो महेश्वरि ॥२६॥ लंबोदर इति ख्यातो ह्येतद्ब्रह्म त्वयि स्थितम् । षष्ठो विकटनामा च सद्ब्रह्मात्मरविः परः ॥२७॥ विघ्नराजः स्वयं विष्णुः सप्तमः समतांगतः । धूम्रवर्णोऽष्टमः शंभुरव्यक्तो नेति कथ्यते ॥२८॥ अष्टब्रह्मसु तत्पालाः कलारूपधराः स्मृताः । गणपा गणराजस्य ह्यवताराः प्रकीर्तिताः ॥२९॥ स्वसंवेद्यमयं ब्रह्म तेन वै प्रधृताः प्रिये । सर्वेषां ब्रह्मणां देवि खेलकस्तेन स स्मृतः ॥३०॥ अयोगस्यावतारश्च खेलनादि न विद्यते । स्वानंदवासिनं विद्धि खेलकं सततं प्रिये ॥३१॥ पूर्णयोगो गणाधीशः स्वानंदायोगवर्जितः । योगिनां तत्र शांतिश्च ह्यभवद्योगसेवया ॥३२॥ इति सर्वं समाख्यातं यत्पृष्टं देवि शोभनम् । अनेन विधिना नित्यं गणेशं भज सर्वदा ॥३३॥ अस्माकं कुलदेवश्च गणेशो नात्र संशयः । पूज्यते स मया नित्यं चिंतामणिविनायकः ॥३४॥ पंचानां चित्तवृत्तीनां प्रकाशकतया स्थितः । तेन चिंतामणिर्नाम कथ्यते स गजाननः ॥३५॥ गजवक्रात्मिकां मूर्तिं पश्य देवि गृहे स्थिताम् । मणि- रत्नमयीं साक्षात् पूजयामि सुभक्तितः ॥३६॥ मुद्गल उवाच । इत्युक्त्वा दर्शयामास ध्यानस्थानं सदाशिवः । एकांते वीक्ष्य वै देवी विस्मिता साऽभवत्परम् ॥३७॥ इत्युक्त्वा विररामाथ शंकरः करुणानिधिः । तं पुनः प्रत्युवाचेदं महादेवी जगन्मयी ॥३८॥ शक्तिरुवाच । सर्वेषां मोहसंदात्री तामसस्य सदाशिव । तव पत्नी कथं जाता ह्येकभागस्थितस्य वै ॥३९॥ अमुं मे संशयं देव छेत्तुमर्हसि सांप्रतम् । त्वदन्यः संशयच्छेत्ता सर्वज्ञो नास्ति कुत्रचित् ॥४०॥ पार्वतीवचनं श्रुत्वा शिवो हर्षसमन्वितः । उवाच मधुरं वाक्यं बोधयंस्तां सहेतुकम् ॥४१॥ शिव उवाच । शृणु देवि पुरा वृत्तं येन त्वं मत्प्रियाऽभवः । तत्तेऽहं कथयिष्यामि कथासारं सुखप्रदम् ॥४२॥ विवादः पंचदेवानां स्पर्धया समभूच्च यः । तत्रैश्वर्यं मया दृष्टं त्वदीयं

यहाँ दिए गए पृष्ठ का पंक्ति-दर-पंक्ति (Line-by-Line) मूल पाठ, उसका अन्वय और हिन्दी अनुवाद प्रस्तुत है:


मूल पाठ (Transcription with Line Numbers)

खं. १ अ. १७-१८ $\quad\quad\quad\quad\quad\quad\quad\quad\quad\quad\quad\quad\quad\quad\quad\quad\quad\quad\quad\quad\quad\quad$ पान ४१ महदद्भुतम् ॥४३॥ पंचानां बोधको देवो गणेशोऽतर्दधे यदा। बोधयित्वा यथान्यायस्मान् ब्रह्ममयः प्रभुः ॥४४॥ ततो मया तपस्तप्तं तव प्राप्तौ प्रिये महत् । भक्तिभावेन संतुष्टा त्वं जाता शतवर्षतः ॥४५॥ मत्समीपे समागम्य वृणुष्व वरमी- प्सितम् । प्रसन्नाऽहं महादेव दास्येऽहमिति चाब्रवीः ॥४६॥ त्वां नत्वा स्तुतवान्नानाचेष्टितैस्त्वत्स्वरूपकैः । तेन तुष्टिः परा जाता तवापि जगदीश्वरि ॥४७॥ मया प्रयाचितं देवि त्वं मे पत्नी भव प्रिये । एष एव वरो मह्यं दातव्यो जगदीश्वरि ॥४८॥ मदीयं वचनं श्रुत्वा सस्मिता भावपूर्वकम् । जाता त्वं मे वरं दत्त्वाऽन्तर्धानं च कृतं त्वया ॥४९॥ अतस्त्वं मे प्रिया जाता वरदानप्रभावतः । तव वामांगसंभूता लक्ष्मीनारायणप्रिया ॥५०॥ दक्षिणांगात् समुद्भूता सावित्री ब्रह्मणः प्रिया । हृदयात्ते च संभूता संज्ञा पत्नी रवेरपि ॥५१॥ इति सर्वं समाख्यातं स्मर सर्वं शुचिस्मिते । साधय त्वं पुनर्योगं गाणेशं शांतिदं परम् ॥५२॥ मुद्गल उवाच । शिवेन कथितं सर्वं श्रुत्वा देवी नगात्मजा । एकांते साधयामास योगं गणपतेः परम् ॥५३॥ पूर्वसंस्कारभावेन स्वल्पकालेन सा शिवा । शांतिं प्राप्ता महाभागा प्रययौ शिवसन्निधौ ॥५४॥ मुद्गल उवाच । इति ते कथितं दक्ष चेष्टितं गणपस्य च । भज त्वं सर्वभावेन गणेशं ब्रह्मनायकम् ॥५५॥ तेन त्वं विघ्नहीनोऽपि भवितासि न संशयः । सर्वमान्यो महायोगी शोकहीनो जगद्गुरुः ॥५६॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुंडचरिते शिवपार्वतीसंवादसमाप्तिर्नाम सप्तदशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ शौनक उवाच । श्रुतं सूत महाभाग कथितं परमाद्भुतम् । चरितं गणनाथास्य तेन तृप्ता वयं प्रभो ॥१॥ शिवशक्तिमहावादं श्रुत्वा तृष्णा विवर्धते । पुनश्च वद सूत त्वं गणेशस्य विचेष्टितम् ॥२॥ सूत उवाच । शृणु शौनक यत्नेन दक्षेणैवं महामुनिः । सत्कथामृतपानं च कृत्वा पृष्टः पुनश्च यत् ॥३॥ शक्तिशंकरसंवादं ब्रह्मभूयपदप्रदम् । श्रुत्वा


श्लोकवार अन्वय एवं हिन्दी अनुवाद

(अध्याय १७ समाप्त)

श्लोक ४३-४४:

  • मूल: ...महदद्भुतम् ॥४३॥ पंचानां बोधको देवो गणेशोऽन्तर्दधे यदा। बोधयित्वा यथान्यायस्मान् ब्रह्ममयः प्रभुः ॥४४॥
  • अन्वय: यदा पञ्चानां बोधकः ब्रह्ममयः प्रभुः गणेशः देवः अस्मान् यथान्यायं बोधयित्वा अन्तर्दधे...
  • अनुवाद: जब हम पाँचों (देवों) को बोध कराने वाले, ब्रह्मस्वरूप प्रभु भगवान् श्रीगणेश हमें यथोचित उपदेश देकर अंतर्धान हो गए...

श्लोक ४५-४६:

  • मूल: ततो मया तपस्तप्तं तव प्राप्तौ प्रिये महत् । भक्तिभावेन संतुष्टा त्वं जाता शतवर्षतः ॥४५॥ मत्समीपे समागम्य वृणुष्व वरमीप्सितम् । प्रसन्नाऽहं महादेव दास्येऽहमिति चाब्रवीः ॥४६॥
  • अन्वय: प्रिये! ततः तव प्राप्तौ मया महत् तपः तप्तम्। शतवर्षतः त्वं भक्तिभावेन संतुष्टा जाता। मत्समीपे समागम्य 'महादेव! अहम् प्रसन्ना, ईप्सितं वरं वृणुष्व, अहम् दास्ये' इति च अब्रवीः।
  • अनुवाद: हे प्रिये! उसके बाद तुम्हें प्राप्त करने के लिए मैंने भारी तपस्या की। सौ वर्षों के तप के पश्चात् तुम मेरी भक्ति-भावना से संतुष्ट हुईं और मेरे सम्मुख आकर बोलीं— 'हे महादेव! मैं आप पर प्रसन्न हूँ, अपना मनचाहा वरदान माँगिए, मैं वह प्रदान करूँगी।'

श्लोक ४७-४८:

  • मूल: त्वां नत्वा स्तुतवान्नानाचेष्टितैस्त्वत्स्वरूपकैः । तेन तुष्टिः परा जाता तवापि जगदीश्वरि ॥४७॥ मया प्रयाचितं देवि त्वं मे पत्नी भव प्रिये । एष एव वरो मह्यं दातव्यो जगदीश्वरि ॥४८॥
  • अन्वय: त्वां नत्वा त्वत्स्वरूपकैः नानाचेष्टितैः स्तुतवान्। हे जगदीश्वरि! तेन तव अपि परा तुष्टिः जाता। मया प्रयाचितम्— 'हे देवि! हे प्रिये! जगदीश्वरि! त्वं मे पत्नी भव, मह्यम् एषः एव वरः दातव्यः'।
  • अनुवाद: मैंने आपको प्रणाम कर आपके विविध स्वरूपों एवं लीलाओं द्वारा आपकी स्तुति की, जिससे हे जगदीश्वरी! आपको परम संतोष हुआ। तब मैंने प्रार्थना की— 'हे देवि! हे प्रिये! आप मेरी पत्नी बनिए, मुझे बस यही वरदान दीजिए।'

श्लोक ४९-५१:

  • मूल: मदीयं वचनं श्रुत्वा सस्मिता भावपूर्वकम् । जाता त्वं मे वरं दत्त्वाऽन्तर्धानं च कृतं त्वया ॥४९॥ अतस्त्वं मे प्रिया जाता वरदानप्रभावतः । तव वामांगसंभूता लक्ष्मीनारायणप्रिया ॥५०॥ दक्षिणांगात् समुद्भूता सावित्री ब्रह्मणः प्रिया । हृदयात्ते च संभूता संज्ञा पत्नी रवेरपि ॥५१॥
  • अन्वय: मदीयं वचनं श्रुत्वा त्वं भावपूर्वकं सस्मिता जाता, मे वरं दत्त्वा त्वया अन्तर्धानं च कृतम्। अतः वरदानप्रभावतः त्वं मे प्रिया जाता। तव वामाङ्गात् नारायणप्रिया लक्ष्मीः संभूता, दक्षिणाङ्गात् ब्रह्मणः प्रिया सावित्री समुद्भूता, ते हृदयात् च रवेः पत्नी संज्ञा संभूता।
  • अनुवाद: मेरा वचन सुनकर आप भावपूर्वक मुस्कराईं और मुझे वरदान देकर अंतर्धान हो गईं। उसी वरदान के प्रभाव से आप मेरी अर्धांगिनी बनीं। आपके बाएँ अंग से भगवान् नारायण की प्रिया लक्ष्मीजी, दाहिने अंग से ब्रह्माजी की प्रिया सावित्रीजी तथा आपके हृदय से सूर्यदेव की पत्नी संज्ञा उत्पन्न हुईं।

श्लोक ५२:

  • मूल: इति सर्वं समाख्यातं स्मर सर्वं शुचिस्मिते । साधय त्वं पुनर्योगं गाणेशं शांतिदं परम् ॥५२॥
  • अन्वय: हे शुचिस्मिते! इति सर्वं समाख्यातम्, सर्वं स्मर। त्वं पुनः शान्तिदं परं गाणेशं योगं साधय।
  • अनुवाद: हे पवित्र मुस्कान वाली देवी! इस प्रकार मैंने सब कुछ बता दिया, आप इन सबका स्मरण करें और पुनः परम शांति देने वाले गणेश-योग की साधना करें।

श्लोक ५३-५४:

  • मूल: मुद्गल उवाच । शिवेन कथितं सर्वं श्रुत्वा देवी नगात्मजा । एकांते साधयामास योगं गणपतेः परम् ॥५३॥ पूर्वसंस्कारभावेन स्वल्पकालेन सा शिवा । शांतिं प्राप्ता महाभागा प्रययौ शिवसन्निधौ ॥५४॥
  • अन्वय: मुद्गलः उवाच— शिवेन कथितं सर्वं श्रुत्वा नगात्मजा देवी एकान्ते गणपतेः परं योगं साधयामास। पूर्वसंस्कारभावेन सा महाभागा शिवा स्वल्पकालेन शान्तिं प्राप्ता शिवसन्निधौ प्रययौ।
  • अनुवाद: मुद्गल ऋषि बोले— भगवान् शिव द्वारा कहे गए इस सम्पूर्ण वृत्तांत को सुनकर गिरिजा (पार्वती) ने एकांत में बैठकर श्रीगणेश के परम योग की साधना की। पूर्वजन्मों के संस्कारों के कारण उन परम भाग्यवती शिवा ने बहुत ही अल्पकाल में शांति प्राप्त कर ली और वे पुनः भगवान् शिव के समीप पधारीं।

श्लोक ५५-५६:

  • मूल: मुद्गल उवाच । इति ते कथितं दक्ष चेष्टितं गणपस्य च । भज त्वं सर्वभावेन गणेशं ब्रह्मनायकम् ॥५५॥ तेन त्वं विघ्नहीनोऽपि भवितासि न संशयः । सर्वमान्यो महायोगी शोकहीनो जगद्गुरुः ॥५६॥
  • अन्वय: मुद्गलः उवाच— हे दक्ष! इति ते गणपस्य चेष्टितं कथितम्। त्वं सर्वभावेन ब्रह्मनायकं गणेशं भज। तेन त्वं विघ्नहीनः, सर्वमान्यः, महायोगी, शोकहीनः, जगद्गुरुः भवितासि, संशयः न।
  • अनुवाद: मुद्गल ऋषि ने कहा— हे दक्ष! इस प्रकार मैंने तुम्हें श्रीगणेश का चरित्र सुनाया। अब तुम सम्पूर्ण भाव से ब्रह्मनायक भगवान् गणेश का भजन करो। इससे तुम निःसंदेह विघ्नरहित, सर्वमान्य, महायोगी, शोकरहित और जगद्गुरु बन जाओगे।

अध्याय समाप्ति पुष्पिका

॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते शिवपार्वतीसंवादसमाप्तिर्नाम सप्तदशोऽध्यायः ॥ (इस प्रकार उपनिषद्-स्वरूप श्रीमद् मुद्गल महापुराण के प्रथम खण्ड में 'वक्रतुण्ड-चरित्र' के अंतर्गत 'शिव-पार्वती संवाद समाप्ति' नामक सत्रहवाँ अध्याय पूर्ण हुआ।)


अध्याय १८ (प्रारंभ)

श्लोक १-२:

  • मूल: ॥ श्रीगणेशाय नमः ॥ शौनक उवाच । श्रुतं सूत महाभाग कथितं परमाद्भुतम् । चरितं गणनाथास्य तेन तृप्ता वयं प्रभो ॥१॥ शिवशक्तिमहावादं श्रुत्वा तृष्णा विवर्धते । पुनश्च वद सूत त्वं गणेशस्य विचेष्टितम् ॥२॥
  • अन्वय: शौनकः उवाच— हे महाभाग सूत! परमाद्भुतं गणनाथस्य चरितं कथितं श्रुतम्, प्रभो! तेन वयं तृप्ताः। शिवशक्तिमहावादं श्रुत्वा तृष्णा विवर्धते। हे सूत! त्वं पुनः गणेशस्य विचेष्टितं वद।
  • अनुवाद: शौनक जी बोले— हे महाभाग सूत जी! आपने जो परम अद्भुत गणेश-चरित्र सुनाया, उसे सुनकर हम तृप्त हो गए। इस शिव-शक्ति के परम संवाद को सुनकर हमारी ज्ञान-पिपासा और अधिक बढ़ रही है। अतः हे सूत जी! आप हमें पुनः श्रीगणेश की लीलाएँ सुनाइए।

श्लोक ३:

  • मूल: सूत उवाच । शृणु शौनक यत्नेन दक्षेणैवं महामुनिः । सत्कथामृतपानं च कृत्वा पृष्टः पुनश्च यत् ॥३॥ शक्तिशंकरसंवादं ब्रह्मभूयपदप्रदम् । श्रुत्वा...
  • अन्वय: सूतः उवाच— हे शौनक! दक्षेण एवं सत्कथामृतपानं कृत्वा महामुनिः यत्नेन पुनः यत् पृष्टः, तत् शृणु... ब्रह्मभूयपदप्रदं शक्तिशंकरसंवादं श्रुत्वा...
  • अनुवाद: सूत जी बोले— हे शौनक! इस प्रकार सत्कारूप अमृत-कथा का पान करके राजा दक्ष ने महामुनि (मुद्गल) से यत्नपूर्वक जो पुनः पूछा, उसे सुनो। ब्रह्मपद को देने वाले शक्ति-शंकर संवाद को सुनकर... (आगे कथा जारी रहती है)

खं. १ अ. १८ पान ४२ दक्षो महाभागः पप्रच्छ मुनिसत्तमः ॥४॥ दक्ष उवाच । किंचित्पुरातनं पुण्यं फलितं मे महाद्भुतम् । पीतं मुद्गल ते वक्त्रात् कथामृतमिदं मया ॥५॥ धन्योऽसि कृतकृत्योऽसि गणेशे भक्तिमानसि । गणेशाच्च परं नास्ति ज्ञातं त्वद्वाक्यतो मया ॥६॥ वद मुद्गल माहात्म्यं पुनर्गणपतेः शुभम् । न तृप्तोऽहं महायोगिन् पीत्वा ब्रह्मामृतं महत् ॥७॥ शिवशैलसुतावादो महानंद- प्रदायकः । तत्राष्टौ गणराजस्य ह्यवताराः श्रुता मया ॥८॥ तेषां तच्चरितं चाऽपि माहात्म्यं तेऽपि यन् महत्। श्रोतुमिच्छामि योगीश दयां कृत्वा वदस्व मे ॥९॥ किमर्थं गणराजोऽयमवतारं करोति वै । ब्रह्मभूयमयो देवस्तद्वदस्व महामुने ॥१०॥ परोपकरणार्थाय त्वादृशा मुनिसत्तमाः । भ्रमंति धरणीं ब्रह्मन् पतितेभ्यः सुखप्रदाः ॥११॥ दर्शनस्पर्शनेनैव भाषणेन विशेषतः । पावयंति जनान् सर्वान् साधवः समदर्शिनः ॥१२॥ सूत उवाच। श्रुत्वा दक्षवचो रम्यं प्रत्युवाच स मुद्गलः। प्रहृष्टो भावयुक्तस्य दक्षस्य च महात्मनः ॥१३॥ मुद्गल उवाच। शृणु दक्ष महाभाग धन्योऽसि न च संशयः। येन त्वं गणनांथस्य कथां पृच्छसि मां प्रभो ॥१४॥ पापिनां नास्तिकानां वै दांभिकानां कदाचन । सत्कथाऽमृतपानस्य चेच्छा नोत्पद्यते क्वचित् ॥१५॥ द्वंद्वभावविचारज्ञास्तथा सहनकारकाः । भूतेषु समभावाश्च संसारतरणे रताः ॥१६॥ परोपकारकार्येषु मतिस्तेषां प्रवर्तते । एतादृशा महाभागा गणेशे सादराः प्रभो ॥१७॥ कथां गणपतेर्नित्यं शृण्वंति च पठंति ते । श्रावयंति जनानन्यान् भक्तिभावसमन्विताः ॥ १८ ॥ अतस्त्वं सादरो भूत्वा शृणुषे पापनाशिनीम् । कृत्वा वर्धयसि प्रश्नं कथां गणपतेः शुभाम् ॥ १९ ॥ शृणु यच्च पुरावृत्तं मदीयं भावपूर्वकम् । तवाऽग्रे कथयिष्यामि संशयो येन नश्यति ॥ २०॥ अवतारकथामग्रे ज्ञास्यसि त्वं यथार्थतः । गणराजपदं सर्वं प्राप्स्यसि त्वं च भक्तिमान् ॥ २१॥ अहं तपसि संविष्टः शिलोञ्छाजीवमाश्रितः । दश पंच दिनेष्वेव द्वादश्यां मम पारणम् ॥ २२॥ द्रोणमात्रं चिनोम्यन्न- सुपोषणसमन्वितः । तेनान्नेन यथान्यायं पंचयागानकृष्यहम् ॥ २३॥ एवं बहुगते काले तपसे मयि संस्थिते । देवाः सर्वे भयोद्विग्नाः किमयं साधयिष्यति ॥ २४॥ ऐंद्रं पदं विधातुर्वा वैष्णवं शैवमेव च । किं वांछति महाभागो मुनिस्तपसि संस्थितः ॥ २५॥ इति देवैः प्रेषितस्तु मुनिः सर्वार्थकोविदः । ममाश्रमे परीक्षार्थ दुर्वासाः कोपवान् ययौ ॥ २६॥ नग्न उन्मत्ततुल्यः सन्नागतः पारणे मम । महं भिक्षां मुने देहि यया तृप्तो भवाम्यहम् ॥ २७॥ इत्यूचे तु मया दत्तमन्नं तस्मै महात्मने । न ज्ञातो मुनिमुख्योऽयं दुर्वासा आगतो गृहम् ॥ २८॥ तदन्नं सकलं भुक्त्वा द्रोणमात्रं

Here is the exact line-by-line transcription of the Sanskrit text from the image:

[Page Header] खं. १ अ. १८ | पान ४३


महामुनिः । उच्छिष्टं लिप्तवान् देहे गतो विकलमानसः ॥२९॥ मानसे मे महानंदः प्राप्तो दक्ष प्रजापते । धन्यं तपो मदीयं वै तृप्तः सर्वान्नभुक् जनः ॥३०॥ उपोषणे समायुक्तोऽहं तत्र तपसि स्थितः । पुनः स द्वादशीघस्रे पारणार्थं समाययौ ॥३१॥ दुर्वाससं पुनर्यांतं तादृशं वेषमास्थितम् । महता हर्षयुक्तेनाऽपूजयं च महामुनिम् ॥३२॥ सर्वान्नं भुक्तवान् सद्य एवं षड्‌वारमाययौ । मम भावपरीक्षार्थं तपःखंडनकारकः ॥३३॥ पूर्वपुण्यप्रभावेण च्यावितो न मनागपि । त्रिमासोपोषितो भावयुक्तेन तपसाऽभवम् ॥३४॥ तपसा भावशुद्धेन परितुष्टो महामुनिः । स्वरूपं दर्शयामास योगरूपं महाद्भुतम् ॥३५॥ उवाच शुद्धिमापन्नो मुद्गल त्वं न संशयः । गच्छ स्वर्गं महाभाग अक्षयं भोक्तुमर्हसि ॥३६॥ स्वर्गलोका जिताः सर्वे त्वयाऽक्षयप्रकाशकाः । तपसा शुद्धभावेनाधुना तान् गच्छ मुद्गल ॥३७॥ इत्युक्त्वा मां स दुर्वासा गतः स्वाश्रममंडले । तस्मिन्नेव क्षणे स्वर्गाद्विमानं तत्र चागतम् ॥३८॥ विमानात् पुरुषो दिव्यभूषणैर्भूषितः परः । उत्तीर्य मे सुसान्निध्यमागतः पूजितो मया ॥३९॥ उवाच मधुरं वाक्यं चलेति त्वं मयासह । स्वर्गादागतवंतं वै विद्धि मुद्गल मां तथा ॥४०॥ बृहस्पतिपुरोगः स देव इंद्रः प्रतापवान् । त्वदर्थं संस्थितः स्वामिन् तेनाहं प्रेषितो मुने ॥४१॥ इदं विमानमारुह्य नानाभोगसमन्वितम् । मया सार्धं महाभाग चल स्वर्गं सुभोगदम् ॥४२॥ सूत उवाच । देवदूतवचो रम्यं श्रुतवैवं मुद्गलो मुनिः । विनयावनतो भूत्वा तं पप्रच्छ मुदान्वितः ॥४३॥ मुद्गल उवाच । स्वर्गेषु सर्वलोकेषु के गुणाः संति तान् वद । दोषाः के तत्र तिष्ठंति श्रुत्वा यामि त्वरान्वितः ॥४४॥ सूत उवाच । मुद्गलस्य वचः श्रुत्वा देवदूतस्तमब्रवीत् । विनयेन च संतुष्टो यथातथ्यं विभागशः ॥४५॥ देवदूत उवाच । कर्मभूमिरियं ब्रह्मन् भोग- भूमिस्तु सा मता । स्वर्गरूपा नरादीनां कर्मभोगप्रदायिनी ॥४६॥ नानासुखप्रदं तत्र गुणं वक्तुं न शक्यते । ईप्सितं लभते सर्वं सदा यौवनसंस्थितिः ॥४७॥ क्लमः स्वेदादिकं तत्र नैव शीतोष्णता तथा । अप्सरोभिर्विहाराश्च कामरूपा गति- र्भवेत् ॥४८॥ स्वकर्मतुल्यभोगाश्च भोक्तव्याः सर्वभावतः । ये ये भोगा देहिनां च ते ते तत्र समास्थिताः ॥४९॥ भोग- भूमिः समाख्याता स्वर्गरूपा महामुने । वद तत्र च किं न्यूनं यतः पृच्छसि मां प्रभो ॥५०॥ त्वया नानाविधं कर्म तपसा साधितं मुने । स्वर्गलोकाः कृताः सर्वेऽक्षयास्तान् भोक्तुमर्हसि ॥५१॥ तत्र स्वर्गे त्रयो दोषास्तान् शृणुष्व महामुने । इह कर्म कृतं लोकैर्भोक्तव्यं शुभरूपकम् ॥५२॥ तत्र कर्म कृतं लोकैः तदेव फलहीनकम् । तेन लोको हि दुःख्यस्ति तदंते

खं. १ अ. १८-१९ | पान ४४ किं भवेदिति ॥५३॥ एतादृशं मया कर्म पुण्यरूपं कृतं महत् । एतावंतं च कालं मे स्वर्गवासो भविष्यति ॥५४॥ एकं दोषं महांतं च जानीहि मुनिसत्तम । द्वितीयं शृणु दोषं त्वं कथयामि सविस्तरम् ॥५५॥ नाना स्वर्गेषु मित्राणि नाना प्रीति- विवर्धनाः । देवास्तत्र महाभाग सह तैर्मोदते स्वयम् ॥ ५६॥ सत्कर्म तस्य तेनैव भुक्तं स्वर्गे यथायथम् । पश्चात् पतनकाले तु तमधः पातयंति ते ॥५७॥ क्षणमेकं न तं कोऽपि स्नेहं पश्यति लोकपः । पतनस्य भयं चित्ते दोषोऽयं पातरूपकः ॥५८॥ तृतीयं दोषरूपं यच्छृणु त्वं भावपूर्वकम् । तद्वदिष्यामि ते प्रीत्या येन ज्ञानं भवेत्परम् ॥५९॥ सत्कर्मकारिणस्त्वन्ये महा- भोगकरा मुने । संति स्वर्गेषु चानेके तान् दृष्ट्वा तपति स्वयम् ॥६०॥ धिङ् मां न्यूनविहारेण तिष्ठामि स्वल्पपुण्यतः । महापुण्यकरा अन्ये अधिकं विहरंत्युत ॥६१॥ सदा हृदि तपत्येवं स्वर्गभूमिस स्वभावतः । हृदि तापात्मको दोषस्तृतीयः कथितो मया ॥६२॥ अनंतगुणसंयुक्तं स्वर्गं जानीहि तापस । दोषैस्त्रिभिः समायुक्तं महापुण्यप्रभावतः ॥६३॥ धन्यस्त्वं मुनिशार्दूल तत् स्वर्गे विजिते त्वया । भुंक्ष्व भोगान् मनोज्ञान् वै चल शीघ्रं मया सह ॥६४॥

॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुण्डचरिते मुद्गलदेवदूतसंवादो नामाष्टादशोऽध्यायः ॥

॥ श्रीगणेशाय नमः॥ सूत उवाच । देवदूतवचः श्रुत्वा मुद्गलस्तमथाब्रवीत् । शृणु शौनक माहात्म्यं मुनेस्तस्य सुयोगिनः ॥१॥ मुद्गल उवाच । देवदूत मया सर्वं त्वयोक्तं बुद्धिपूर्वकम् । श्रुतं पुनः प्रपृच्छामि तन् मे वद महामते ॥२॥ दोषैस्त्रिभिर्विहीनं तं कं लोकं वद मे प्रभो । मनस्तापविहीनाश्च मोदंते यत्र मानवाः ॥३॥ सूत उवाच । मुद्गलस्य वचः श्रुत्वा देवदूत उवाच ह । लोकं च तमहं तुभ्यं कथयामि सविस्तरम् ॥४॥ देवदूत उवाच । निष्कामकर्मणा विप्र ब्रह्मलोकः प्रलभ्यते । वैकुंठः शिवलोकश्च सौरः शाक्तो जनेन च ॥५॥ तत्राऽपि दोषयुक्तत्वं वर्तते मुनिसत्तम । ब्रह्मभूयपदं यच्च दोषहीनं प्रचक्षते ॥६॥ देवदूतमुखादित्थं श्रुत्वा वै मुद्गलो मुनिः । तं पप्रच्छ पुनः साधुर्भाक्तनम्रात्मकंधरः ॥७॥

खं. १ अ. १९ पान ४५ 卐卐 मुद्गल उवाच । कुत्र तल्लभ्यते स्वामिन् वद सर्वमशेषतः । उपकारपरोऽसि त्वं तेन पृच्छामि तत्त्वतः ॥८॥ देवदूत उवाच । कर्मभूमिरियं ब्रह्मन्नत्र वै लभ्यते जनैः । धर्मार्थकाममोक्षादि ब्रह्मभूयं न संशयः ॥९॥ श्रुत्वा तस्य वचो रम्यं मुद्गलस्त- मुवाच ह गच्छ दूत नमस्तुभ्यं स्वर्गं प्रति नयाम्यहम् ॥१०॥ हृदि संतापसंयुक्तं पुनः पातभयात्मकम् । स्वर्गं नेच्छामि भो विद्वन् ब्रह्म तत्साधयाम्यहम् ॥११॥ देवदूत उवाचेदं मुद्गलं मुनिसत्तमम् । भाग्यहीनोऽसि नूनं त्वं स्वर्गं नैवाभिनंदसि ॥१२॥ स्वर्गेच्छा कस्य नैवास्ति नरस्य वद मां मुने । उग्रैस्तपोभिर्दानैश्च यज्ञैः स्वर्गश्च लभ्यते ॥१३॥ नानापुण्यादिकं कृत्वा सत्कर्मादिसुसाधनैः । इच्छंति मनुजाः स्वर्गं महासौख्यप्रदं परम् ॥१४॥ स स्वर्गश्च त्वया प्राप्तस्तपसोग्रैः सुसाधनैः । नेच्छसि त्वं महामूढ ज्ञानहीनोऽसि मे मतम् ॥१५॥ देवदूतं वदंतं तं तदा पुनरिदं वचः । मुद्गलः स्नेहसंयुक्तः प्रत्युवाच हसन्निव ॥१६॥ मुद्गल उवाच । किं मां मोहयसि प्राज्ञ देहोऽयं बंधनात्मकः । देहसौख्यकरः स्वर्गो मुक्तिदो न बुधैः स्मृतः ॥१७॥ तत्राऽपि हृदि संतापो वर्तते दूतसत्तम । तापत्रयसमायुक्तं विद्वान्नेच्छति कर्हिचित् ॥१८॥ गच्छ त्वं च महाभाग बृहस्पतिपुरोगमम् । इंद्रं प्रणामं कथय नाऽऽगतो मुनिरित्यपि ॥१९॥ एवमुक्त्वा नमस्कृत्य देवदूतमहं प्रभो । अग्नेश्च गतवान् शालां गतो दूतो यथागतम् ॥२०॥ मयाऽपि स्वाश्रमे तत्र स्थितं मनसि धारितम् । विधिना ब्रह्मवेदेषु नानारूपं प्रकथ्यते ॥२१॥ किं प्रमाणं भवेत्तेषां साधनीयं मया कथम् । पूर्णभावमविज्ञाय भ्रांतोऽहं नात्र संशयः ॥२२॥ अतः संशयनाशार्थं गमिष्यामि महामुनिम् । योगिश्रेष्ठैरंगिरसं वंद्यं वेदज्ञमुत्तमम् ॥२३॥ शब्दब्रह्मणि निष्णातं परे ब्रह्मणि तन्मयम् । अस्माकं मूलपुरुषं साक्षाद् ब्रह्मशरीरकम् ॥२४॥ इति निश्चितवांस्तत्र गतोऽहं मुनिसंनिधौ । आश्रमोऽस्य मया दृष्टः सर्वभूताभयप्रदः ॥२५॥ नातपो न च शीतत्वं न क्रोधः कामसंभवः । न मात्सर्यादिकं तत्र समकालयुतो बभौ ॥२६॥ नाववृष्टिर्नातिवृष्टिश्च व्यकाले मरणं न च । न ग्रहादिकृता पीडा तत्र रक्षो- भयं न च ॥२७॥ सर्वशांतिप्रदः पूर्णस्तापसानां हितावहः । विस्मितेन सुपुण्येन प्रविष्टो भाग्ययोगतः ॥२८॥ तत्र नानामुनीनां च वत्साः परमशोभनाः । मया दृष्टा महाभाग वेदघोषनिनादिताः ॥२९॥ अग्निहोत्रादिभिर्युक्ता नानापक्षि- निनादिताः । वृक्षवल्लीसमायुक्ता नानापुष्पफलाश्रिताः ॥३०॥ नानासरोवराण्येव हंसकारंडवैर्बभुः । नानापक्षिवृतान्येव सुधारूपजलानि वै ॥३१॥ सुनिर्मलपयांस्येव मकरादियुतानि च । कमलैः कुमुदैर्नानाशोभमानानि षट्पदैः ॥३२॥ सिंह- 卐

खं. १ अ. १९ पान ४६ व्याघ्रमृगा नागा गजा गावश्च मूषिकाः । निर्वैराः प्राणिनस्तत्र निवसंति प्रजापते ॥३३॥ एवं दृष्ट्वा महाभाग आश्रमं हर्षसंयुतः । पश्यन् पुनश्च ह्यभवं विस्मितो निजचेतसि ॥३४॥ तं वै कुशासनस्थं च साक्षात् सूर्यमिवापरम् । तेजसा दीप्यमानं त्वपश्यमंगिरसं मुनिम् ॥३५॥ सिद्धैर्नानाविधैश्चैव योगिभिर्मुनिभिर्वृतम् । शिष्येभ्यो ब्रह्मविद्यां तां कथयंतं यथार्थतः ॥३६॥ दंडवत्तं प्रणम्यादौ भक्तिभावयुतोऽभवम् । प्रांजलिः प्रयतो भूत्वा संस्थितो मुनिसन्निधौ ॥३७॥ तव गोत्रभवं स्वामिन् मुद्गलं मुनिसत्तम । दर्शनार्थं समायातं विद्धि मां ब्रह्मदायक ॥३८॥ मदीयं वचनं श्रुत्वा प्रसन्नः प्राह मां मुनिः । वत्स त्वमागतस्तात तिष्ठाऽत्र मम संन्निधौ ॥३९॥ अविघ्नभावयुक्तेन तपस्तप्तं त्वया सुत । तेन मे दर्शनं प्राप्तं सत्पुत्रोऽसि न संशयः ॥४०॥ मुनेर्वचनमाकर्ण्य प्राप्तोऽहं परमां मुदम् । तत्र स्थितोऽभवं दक्ष सन्निधौ तस्य धीमतः ॥४१॥ कस्मिंश्चिद् दिवसे तत्र लब्ध्वाऽवसरमुत्तमम् । पृष्टो मया महायोगी शृण्वत्सु च मुनिष्वपि ॥४२॥ ज्ञातुमिच्छामि भो स्वामिन् वद मां करुणानिधे । अस्माकं त्वं गतिः साक्षात् सर्वेषां चैव भक्तितः ॥४३॥ सूत उवाच वचनं मुद्गलस्याऽपि श्रुत्वा तं पुनरब्रवीत् । अंगिरा भगवान् योगी प्रहसंस्तं प्रहर्षयन् ॥४४॥ अंगिरा उवाच । मह्यं पृच्छसि किं तात तद् ब्रूहि त्वं महाद्युते । भावतो मंत्रकर्ता त्वं पुराणाचार्य एव च ॥४५॥ मुद्गल उवाच । कथितं ब्रह्मवेदेषु नानाभाव- समन्वितम् । किं प्रमाणं वेदितव्यं ब्रह्मभूयेप्सुभिः प्रभो ॥४६॥ अंगिरा उवाच । शृणु पुत्र प्रवक्ष्यामि वेदांतैयत्प्रभाषितम् । क्रमेण ब्रह्मलाभार्थं नानाब्रह्मन्निरूपणम् ॥४७॥ अन्नं ब्रह्मेति यत्प्रोक्तं तत्रोपाधिः समागतः । अन्नरूपो महातेजा अन्नकोश- मयं ततः ॥४८॥ प्राणो ब्रह्मेति यत्प्रोक्तं प्राणकोशप्रकाशकम् । मनो ब्रह्मेति जानीहि मनःकोशमयं तथा ॥४९॥ विज्ञानं ब्रह्म चोक्तं विज्ञानकोशप्रधारकम् । आनंदो ब्रह्म समतानंदकोशप्रभासकम् ॥५०॥ चैतन्यं ब्रह्म यत्प्रोक्तं महाकारणधारकम् । बिंदुब्रह्म यदुक्तं तज्ज्ञानदेहमयं मुने ॥५१॥ चिद्ब्रह्मेति समाख्यातं सोऽहं मात्रात्मकं मतम् । बोधो ब्रह्मेति वेदेषु स्वत उत्थानवेदकम् ॥५२॥ सांख्यं ब्रह्मेति यत्प्रोक्तं विदेहाधारकं सुत । कर्मज्ञाने तु वेदे च कथिते ते तदात्मके ॥५३॥ समं ब्रह्मेति जानीहि कथितं नंदनात्मकम् । अव्यक्तं सहजं ब्रह्म ज्ञातव्यं नेतिरूपकम् ॥५४॥ शक्तिर्ब्रह्मेति वेदेषु ह्यसद्रूप- प्रकाशकम् । सूर्यो ब्रह्मेति यत्प्रोक्तमात्मरूपं प्रकीर्तितम् ॥५५॥ विष्णुर्ब्रह्मेति यत्प्रोक्तमुभयात्मकधारकम् । शिवो ब्रह्मेति शास्त्रेषु निर्मोहस्य प्रकाशकम् ॥५६॥ स्वानंदो ब्रह्मवेदे च संयोगमयमुत्तमम् । निवृत्तिर्ब्रह्मशास्त्रेषु ह्ययोगाधारकं

खं. १ अ. २० | पान ४७


परम् ॥५७॥ एवं नानाप्रकारैश्च वेदादौ च प्रकथ्यते । मुनिभिर्ब्रह्मवादज्ञैः सर्वं तथ्यं प्रमाणतः ॥५८॥ बृंहत्यथो बृंहयति यद्ब्रह्म श्रुतिवाक्यतः । तदेव ब्रह्मभूतत्वं ज्ञातव्यं मुनिभिः सदा ॥५९॥ अनाद्यात्मचिदाद्यैर्युक्तं ब्रह्म प्रकथ्यते । तदेवोपाधियुक्तं वै योगिभिः सुविचारितम् ॥६०॥ ब्रह्मेति ब्रह्म विज्ञेयं तच्च योगेन लभ्यते । तदर्थं मथनं सर्वं कर्मज्ञाना- दिकस्य च ॥६१॥ तदेव ब्रह्म प्रत्यक्षं ब्रह्मणस्पतिवाचकम् । ब्रह्मणां ब्रह्म विख्यातं वेदस्मृतिसुभाषितम् ॥६२॥ बृंहत्यथो बृंहयति गणशब्दः प्रकीर्तितः । समूहे गणधातुश्च कविभिः कथितो भवेत् ॥६३॥ बाह्यांतरादिकानां च समूहो गण उच्यते । तत्राऽभेदेन योगेन प्राप्यते योगिभिः परः ॥६४॥ अन्नानां बहवो भेदा बाह्यांतरविभावतः । तदेव गणवाच्यं च ज्ञातव्यं विबुधैः सदा ॥६५॥ इत्यादयो गणास्तस्यानंता ब्रह्मप्रवाचकाः । तेषां स्वामी गणेशानः स एव ब्रह्मणस्पतिः ॥६६॥ तं भजस्व महाभाग ब्रह्मभूयं यदीच्छसि । तस्यावतारदेहा यं ज्ञानादिब्रह्मसंज्ञिताः ॥६७॥

॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुंडचरिते अंगिरामुद्गलसंवादो नामैकोनविंशतितमोऽध्यायः ॥

❦❧

॥ श्रीगणेशाय नमः ॥ सूत उवाच । वचः श्रुत्वा चांगिरसो हृष्टरोमा स मुद्गलः । विनयावनतो भूत्वोवाच तं विस्मयन्निव ॥१॥ मुद्गल उवाच । तस्यावतारमाहात्म्यं कथयस्व महामुने । तत्क्रमेण भजिष्यामि ब्रह्मभूयस्य सिद्धये ॥२॥ अंगिरा उवाच । अनंता ह्यवताराश्च गणेशस्य महात्मनः । न शक्यंते च ते वक्तुं मया वर्षशतैरपि ॥३॥ संक्षेपेण प्रवक्ष्यामि मुख्यानां मुख्यतां गतान् । अवतारांश्च तस्याष्टौ विख्यातान् ब्रह्मधारकान् ॥४॥ वक्रतुंडावतारश्च देहानां ब्रह्मधारकः । मत्सरासुरहंता स सिंहवाहनगः स्मृतः ॥५॥ एकदंतावतारो वै देहिनां ब्रह्मधारकः । मदासुरस्य हंता स आखुवाहनगः स्मृतः ॥६॥ महोदर इति ख्यातो ज्ञानब्रह्मप्रकाशकः । मोहासुरस्य शत्रुर्वै आखुवाहनगः स्मृतः ॥७॥ गजाननः स विज्ञेयः सांख्येभ्यः सिद्धि-

खं. १ अ. २० पान ४८

दायकः । लोभासुरप्रहर्ता वै आखुगश्च प्रकीर्तितः ॥८॥ लंबोदरावतारो वै क्रोधासुरनिबर्हणः । शक्तिब्रह्माखुगः सचत्तस्य धारक उच्यते ॥९॥ विकटो नाम विख्यातः कामासुरविदाहकः । मयूरवाहनश्चाऽयं सौरब्रह्मधरः स्मृतः ॥१०॥ विघ्नराजावतारश्च शेषवाहन उच्यते । ममतासुरहंता स विष्णुब्रह्मेति वाचकः ॥११॥ धूम्रवर्णावतारश्चाभिमानासुरनाशकः । आखुवाहन एवाऽसौ शिवात्मा तु स उच्यते ॥१२॥ एतेऽष्टौ ते मया प्रोक्ता गणेशांशा विनायकाः । एते भजनमात्रेण स्वस्व- ब्रह्मप्रदायकाः ॥१३॥ स्वानंदवासकारी यो गणेशानः प्रकथ्यते । स्वानंदे योगिभिर्दृष्टो ब्रह्मण्येव न संशयः ॥१४॥ तस्यावतारभूताश्चाऽष्टौ विघ्नहरणाः स्मृताः । स्वानंदभजनेनैव लीनास्तत्र भवंति ते ॥१५॥ माया तत्र स्वयं लीना भविष्यति सुपुत्रक । संयोगे मौनभावश्च समाधिः प्राप्यते जनैः ॥१६॥ अयोगिगणराजस्य भजनेन विनश्यति । मायाभेदमयं ब्रह्म निवृत्तिः प्राप्यते परा ॥१७॥ योगात्मकगणेशानो ब्रह्मणस्पतिवाचकः । तत्र शांतिः समाख्याता योगरूपा जनैः कृता ॥१८॥ नानाशांतिप्रभेदश्च स्थाने स्थाने प्रकथ्यते । शांतीनां शांतिरूपा सा योगशांतिः प्रकीर्तिता ॥१९॥ योगस्य योग्यता दृष्टा सर्वब्रह्मसुपुत्रक । न योगात् परं ब्रह्म ब्रह्मभूतेन लभ्यते ॥२०॥ एतदेव परं गुह्यं कथितं वत्स तेऽखिलम् । भज त्वं सर्वभावेन गणेशं ब्रह्मनायकम् ॥२१॥ मया पूर्णं तपश्चीर्णं गणेशस्य महात्मनः । मह्यं दत्तो वरस्तेन वांछितो भक्तितोषतः ॥२२॥ तव वंशे च गाणेशा भविष्यंति विशेषतः । तत्राऽपि मुद्गलोऽत्यंतं गाणपत्यो भविष्यति ॥२३॥ न मुद्गलसमो भक्तो गणेशस्य प्रदृश्यते । न भूतो न भविष्यन् वा भक्तराजः स एकराट् ॥२४॥ मुद्गलस्य प्रणामेन स्पर्श- भाषणदर्शनैः । वायुस्पर्शादिभिर्भावैरुद्धरिष्यंति जंतवः ॥२५॥ मह्यमेवं वरं दत्वा गणेशोऽतर्दधे सुत । स त्वं मुद्गल- नामासि मम वंशस्य भूषणम् ॥२६॥ धन्यो वंशो मदीयोद्य गाणपत्यश्च यत्र वै । समुत्पन्ना महाभागा जंतूनां नारकाः स्मृताः ॥२७॥ त्वं साक्षात् मूर्तिमांस्तेषु गाणपत्यः प्रतापवान् । समुत्पन्नो महायोगी भविष्यसि न संशयः ॥२८॥ मुद्गलं चैवमुक्त्वातमंगिरा उपदिष्टवान् । एकाक्षरमहामंत्रं गणेशस्य यथाविधि ॥२९॥ गच्छ पुत्र त्वमद्यैव तपसे वनमुत्तमम् । आराधय गणेशं स दर्शनं ते प्रदास्यति ॥३०॥ प्रणम्याऽसौ चांगिरसं मुद्गलः प्रययौ वनम् । एकनिष्ठतया तेपे तपः पूर्णं महाद्भुतम् ॥३१॥ एकाक्षरविधानेन सांगेन परितुष्टवान् । गणेशोऽब्दसहस्रेण दिव्येन च समागतः ॥३२॥ आखुवाहश्चतु- र्बाहुः सिद्धिवुद्धिसमन्वितः । प्रमोदा मोदकाद्यैश्च संवृतो भक्तवत्सलः ॥३३॥ नानाभूषणशोभाढ्यो गजवक्रो महोदरः ।

खं. १ अ. २१ पान ४९ एकदंतस्त्रिनेत्रश्च चतुरायुधभूषितः ॥३४॥ चिंतामणिमणिं बिभ्रद् हृदये द्युतिजालकम् । महाभक्तमुवाचेत्थं हर्षयन् सर्व- भावतः ॥३५॥ श्रीगणेश उवाच । वरं वृणु महाभाग मुद्गल स्वेप्सितं हृदि । दास्यामि परमप्रीत एकाक्षरविधानतः ॥३६॥ सूत उवाच । गणेशवचनं श्रुत्वा मुद्गलः प्रणनाम तम् । बद्धांजलिपुटो भूत्वा पूजयामास भक्तितः ॥३७॥ पूजयित्वा यथान्यायं प्रहृष्टहृदयो मुनिः । पुलकांकितसर्वांगः साश्रुनेत्रो बभूव ह ॥३८॥ सगद्गदमुवाचाऽथ तं प्रणम्य पुनः पुनः । महता भक्तिभावेन तथा चांगिरसो मुनिः ॥३९॥ मुद्गल उवाच । धन्यो वंशो मदीयोऽद्य धन्यं जन्म वयोऽपि च । विद्या ज्ञानं तपस्तीर्थं धन्यं त्वद्दर्शनात् प्रभो ॥४०॥ इयं धन्याऽद्य पृथिवी च वृक्षाः पुष्पफलान्विताः । पशुपक्षिलताद्या ये आगतोऽत्र महाप्रभुः ॥४१॥ इत्युक्त्वा तं प्रतुष्टाव गणेशं सर्वसिद्धिदम् । स्तोत्रेण स्वात्मनिष्ठः सन् भक्त्या परमया युतः ॥४२॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते गणेशमुद्गलसमागमो नाम विंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ शौनक उवाच । कथं स्तुतिः कृता तेन गणेशस्य महात्मनः । तां मे वद महाभाग सर्वज्ञोऽसि मतो बुधैः ॥१॥ सूत उवाच । भवते कथयिष्यामि भावयुक्तेन चेतसा । स्तुतिं कृतां गणेशस्य मुद्गलेन च तां मुने ॥२॥ मुद्गल उवाच । किं स्तौमि त्वां गणाध्यक्ष वेदैः स्तोतुं न शक्यते । ब्रह्मादिभिश्च योगींद्रैर्यथामति च वच्मि भोः ॥३॥ त्वद्दर्शनप्रभावेण शक्तोऽस्मि न च संशयः । त्वदनुग्रहतः सर्वे स्तोतुं शक्ता भवंति वै ॥४॥ नमस्ते गणेशाय सर्वादिभूम्ने परेषां परेशाय वेदातिगाय । परं मायिने मायिनां मोहदात्रे ह्यगण्याय गण्याय ते वै नमस्ते ॥५॥ पुराणादिशास्त्रैः सदा संस्तुताय शिवाद्यैः सुरेन्द्रैर्नमस्ते स्तुताय । अनाद्यंतमध्यादिभेदैर्विहीनाय नानामायायास्तु सर्वेश्वराय ॥६॥ नमो लक्षवेदाष्टयोनिप्रचारतदा- काररूपाय योगेन योगिन् । नमो ह्यन्नभूताय सर्वांकराय कलानन्तरूपाय पुष्टिप्रदाय ॥७॥ नमो भूमिरूपाय नानाप्रभेद- धरायाथ धाराय नित्याय तेऽस्तु । जलाधिश्वरूपाय तृप्तिप्रदाय तदाकारहीनाय साराय धाम्ने ॥८॥ नमस्तेजसां द्योतरूपाय ढुंढे प्रकाशाय भोक्त्रे च सर्वस्थिताय । नमो वायुरूपाय ते चालकाय प्रचारस्वरूपाय भिन्नाय तस्मात् ॥९॥ नमः

खं. १ अ. २१ पान ५० स्वस्वरूपाय दीप्ताय पूर्णप्रकाशाय भूतादिकब्रह्मदात्रे । नमः स्थूलभोगस्वरूपाय जाग्रन्मयाय प्रभो राजसायाथ तेऽस्तु ॥१०॥ नमः स्वप्नमायामयायापि सूक्ष्मस्वरूपाय सर्वांतरे संस्थिताय । नमः कारणायोभयब्रह्मदाय समायापि सौषुप्त- भोगिन्नमस्ते ॥११॥ नमश्चेतनाधाररूपाय तेऽस्तु प्रयत्नप्रदाय त्रिभोगप्रदाय । गुणेशाय चैतन्यधाराय तेऽस्तु नमो नादरूपाय कालाय चात्मन् ॥१२॥ नमो बिंदुरूपाय वक्राननाय नमो देहमायाविहाराय तुभ्यम् । नमश्चित्स्वरूपाय सोऽहं- प्रदाय निराकारदेहिस্বরূপाय तेऽस्तु ॥१३॥ सदा ह्येकदंताय जन्मातिगाय परायाथ शून्याय दैत्यांतकाय । मदादेश्च शत्रो महाखुध्वजाय नमोऽनादिसिद्धाय मायाधराय ॥१४॥ नमो ज्ञानरूपाय नानाविहारप्रदायाथ पूर्णाय सर्वत्रगाय । नमो मायिमायादिभेदकराय सदा बोधरूपाय ते वै महात्मन् ॥१५॥ नमः सांख्यरूपाय वै देहिनां वै पराय स्वसंभोगहीनाय देव । सदा केवलब्रह्मभूताय तेऽस्तु नमो ज्ञानहीनाय मेधामयाय ॥१६॥ नमः स्वस्वरूपाय चानंददाय समाधिस्वरूपाय मौनात्मकाय । स्वसंवेद्ययोगेन लभ्याय तेऽस्तु विनात्मप्रबोधाय सर्वाधिपाय ॥१७॥ नमः पंचपंचादिमायाकराय चतुर्था चतुर्था विभिन्नाय धर्मिन् । असद्रूपकायाऽथ शक्त्यात्मकाय नमोऽभेदभेदादिनानात्मकाय ॥१८॥ नमः सत्स्वरूपाय सूर्यात्मकाय सदात्मप्रबोधाय मायाधराय । अखंडामृतायाद्वितीयाय तेऽस्तु सदा कालकालाय मोक्षप्रदाय ॥१९॥ नमो विष्णुरूपाय चानंददाय समाय स्वमायोभयस्रष्ट्र एव । अनंताय भेदादिहीनाय भूम्ने सदा भेदरूपाय सर्वात्मकाय ॥२०॥ नमः शंभुरूपाय नेतिप्रदाय सदा मोहहीनाय च त्र्यंबकाय । त्रिधा मायया भासितुर्यस्वरूपपरब्रह्मरूपाय ते धूम्रवर्ण ॥२१॥ चतुर्णांमभेदाय संयोगकारिन् स्वसंवेद्यभावेन विघ्नाधिपाय । स्वभक्तस्य पक्षे सदा संस्थिताय गणाधीश हंत्रे महादैत्यकानाम् ॥२२॥ नमः कर्मरूपाय कर्मादिकर्त्रे जनानां स्वकर्मादिना भोगदात्रे । नमो ज्ञानरूपाय निःसंगदाय सदा कर्महीनाय ते केवलाय ॥२३॥ नमस्ते समानप्रदायो- भयाय समायाऽथ योगेन चानंददाय । नमः साहजब्रह्मभूयप्रदाय त्रिधाम्ने त्रिहीनाय संतोषदाय ॥२४॥ चतुर्था स्थितीनां सदा पालकाय निजात्मस्वरूपाय संयोगकारिन् । अपाराय नाना चतुर्णां समूहेष्वधीशाय हेरंब तुभ्यं नमस्ते ॥२५॥ अयोगाय मायाविहीनाय तुभ्यं नमस्ते निरानंदस्वरूपाय नित्यम् । निवृत्तिस्वरूपाय भिन्नाय तेऽस्तु नमो योगरूपासमाधि- स्थिताय ॥२६॥ नमो योगशांतिस्वरूपाय शांतिप्रदात्रे गणेशाय योगाय तुभ्यम् । सदा ब्रह्मणां ब्रह्मदात्रेऽखिलेश गणानां

खं. १ अ. २१ पान ५१

पते ज्येष्ठराजाय तेऽस्तु ॥२७॥ नमो ब्रह्मणे सृष्टिकर्त्रे सदा वै रजोधारिणे वेदशास्त्रादिकर्त्रे । सदा सृष्टिहीनाय साम्याय धात्रे नमो मायिने मध्यवृत्तिस्थिताय ॥२८॥ नमः सत्वरूपाय विष्णुप्रेभेदाज्जगत्पालकायाथ मायाधराय । नमः सत्त्वहीनाय सर्वातिगाय कवीनां पते विघ्नहंत्रे नमस्ते ॥२९॥ नमस्तामसायाऽथ संहारकर्त्रे त्रिनेत्रप्रदीपाय शक्तेर्धराय । सदा कालरूपाय कैलासदाय तमोहीनरूपाय लंबोदराय ॥३०॥ नमः कर्मणां मूलबीजाय तेऽस्तु नमो भानुरूपाय तेजोमयाय । त्रिकालादिबोधाय सूर्याय भूम्ने प्रकाशैर्विहीनाय हेरंब तेऽस्तु ॥३१॥ नमः शक्तिरूपाय मोहप्रदाय क्रिया- धारभूताय नानाभ्रमाय । अनंतस्वरूपाधिलीलाधराय नमः शक्तिहीनाय सिद्धीश तुभ्यम् ॥३२॥ नमश्चंद्ररूपाय पुष्टिप्रदाय कलाभिस्त्रिलोकस्थभूतादिकेभ्यः । सुधाधारकायाऽथ नक्षत्रकादिप्रकाशाय ते ह्यन्नहीनाय ढुंढे ॥३३॥ नमः कामरूपाय कामारये ते नमस्ते गजाकारतुंडाय तुभ्यम् । हरींद्रादिदेवैः सदा संस्तुताय शुकाद्यैर्महद्भिश्च वंद्याय तेऽस्तु ॥३४॥ अनित्याय नित्याय देवेश देव सकामाय निष्कामभावप्रदाय । सदा सर्वपूज्याय सर्वाधिपाय जलेशेंद्रशेषादिभिः संस्तुताय ॥३५॥ नमः काश्यपायाऽथ वै कापिलाय वरेण्यस्य पुत्राय पाराशराय । नमः शंभुपुत्राय पार्श्वात्मजाय नमो भक्तिभोक्त्रे गणाधीश तेऽस्तु ॥३६॥ नमो माधवस्त्रीसुतायाऽथ तुभ्यं नमः सर्वमात्रे नमः सर्वपित्रे । नमः सर्वपुत्राय सर्वात्मकाय नमः सर्वसर्वाय नानामयाय ॥३७॥ नमः पाशधारिन् नमो दंतधारिन् सृणिं बिभ्रते वै सदानंददायिन् । नमः पुत्रपौत्रादि राज्यप्रदात्रे नमो भुक्तिमुक्तिप्रदायाऽथ तुभ्यम् ॥३८॥ नमोऽनंतशक्ते गुणानामधीश मयूरेश योगेश मायेश तुभ्यम् । नमोऽव्यक्तसुव्यक्तरूपाय दंतिन् गजाकारसाकारमोहाय तेऽस्तु ॥३९॥ नमो ह्येकरूपाय नानाप्रभेददाये विघ्नपालाय शुंडाधराय । अनाथाय नाथाय देवादिकानां निवासाय सर्वात्मनां ते नमो वै ॥४०॥ नमस्त्वंपदाकारदेहाय तुभ्यं नमस्तत्पदाकारतुंडाय तेऽस्तु । तयोरेकभावाऽसिरूपप्रयुक्तशरीराय साक्षात् सुधाग्ने नमस्ते ॥४१॥ नमो वामभागेन सिद्धि- स्वरूपाधुनामोहमायाजनानां जनित्री । सदा बुद्धिरूपा धृता दक्षिणांगे न पुंस्त्रीस्वरूपाऽसिरूपाय तेऽस्तु ॥४२॥ नमो आमरी त्वंपदाधारशक्तिः सदा तत्पदा कामदात्री ह्यभेदा । तयोरेकभावे स्वसंवेद्यनाम्नि पुरे मस्तके वासकारिंश्च तासाम् ॥४३॥ अखंडामृतं यत्र तोयं सुताम्रं समुद्रे स्थितं चेक्षुसंज्ञे नमस्ते । निराधाररूपे च पानेन तस्य न पुंस्त्री- प्रदायाऽत्र खेलंश्च तेऽस्तु ॥४४॥ जनानां सदा त्र्यक्षरं शृण्वतां च गणेशेति चानंददायिन्नमस्ते । सकृज्जल्पतां जन्ममृत्यू न