मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 43, कुल 1023 में से
संदर्भ में पढ़ेंHere is the exact line-by-line transcription of the Sanskrit text from the image:
[Page Header] खं. १ अ. १८ | पान ४३
महामुनिः । उच्छिष्टं लिप्तवान् देहे गतो विकलमानसः ॥२९॥ मानसे मे महानंदः प्राप्तो दक्ष प्रजापते । धन्यं तपो मदीयं वै तृप्तः सर्वान्नभुक् जनः ॥३०॥ उपोषणे समायुक्तोऽहं तत्र तपसि स्थितः । पुनः स द्वादशीघस्रे पारणार्थं समाययौ ॥३१॥ दुर्वाससं पुनर्यांतं तादृशं वेषमास्थितम् । महता हर्षयुक्तेनाऽपूजयं च महामुनिम् ॥३२॥ सर्वान्नं भुक्तवान् सद्य एवं षड्वारमाययौ । मम भावपरीक्षार्थं तपःखंडनकारकः ॥३३॥ पूर्वपुण्यप्रभावेण च्यावितो न मनागपि । त्रिमासोपोषितो भावयुक्तेन तपसाऽभवम् ॥३४॥ तपसा भावशुद्धेन परितुष्टो महामुनिः । स्वरूपं दर्शयामास योगरूपं महाद्भुतम् ॥३५॥ उवाच शुद्धिमापन्नो मुद्गल त्वं न संशयः । गच्छ स्वर्गं महाभाग अक्षयं भोक्तुमर्हसि ॥३६॥ स्वर्गलोका जिताः सर्वे त्वयाऽक्षयप्रकाशकाः । तपसा शुद्धभावेनाधुना तान् गच्छ मुद्गल ॥३७॥ इत्युक्त्वा मां स दुर्वासा गतः स्वाश्रममंडले । तस्मिन्नेव क्षणे स्वर्गाद्विमानं तत्र चागतम् ॥३८॥ विमानात् पुरुषो दिव्यभूषणैर्भूषितः परः । उत्तीर्य मे सुसान्निध्यमागतः पूजितो मया ॥३९॥ उवाच मधुरं वाक्यं चलेति त्वं मयासह । स्वर्गादागतवंतं वै विद्धि मुद्गल मां तथा ॥४०॥ बृहस्पतिपुरोगः स देव इंद्रः प्रतापवान् । त्वदर्थं संस्थितः स्वामिन् तेनाहं प्रेषितो मुने ॥४१॥ इदं विमानमारुह्य नानाभोगसमन्वितम् । मया सार्धं महाभाग चल स्वर्गं सुभोगदम् ॥४२॥ सूत उवाच । देवदूतवचो रम्यं श्रुतवैवं मुद्गलो मुनिः । विनयावनतो भूत्वा तं पप्रच्छ मुदान्वितः ॥४३॥ मुद्गल उवाच । स्वर्गेषु सर्वलोकेषु के गुणाः संति तान् वद । दोषाः के तत्र तिष्ठंति श्रुत्वा यामि त्वरान्वितः ॥४४॥ सूत उवाच । मुद्गलस्य वचः श्रुत्वा देवदूतस्तमब्रवीत् । विनयेन च संतुष्टो यथातथ्यं विभागशः ॥४५॥ देवदूत उवाच । कर्मभूमिरियं ब्रह्मन् भोग- भूमिस्तु सा मता । स्वर्गरूपा नरादीनां कर्मभोगप्रदायिनी ॥४६॥ नानासुखप्रदं तत्र गुणं वक्तुं न शक्यते । ईप्सितं लभते सर्वं सदा यौवनसंस्थितिः ॥४७॥ क्लमः स्वेदादिकं तत्र नैव शीतोष्णता तथा । अप्सरोभिर्विहाराश्च कामरूपा गति- र्भवेत् ॥४८॥ स्वकर्मतुल्यभोगाश्च भोक्तव्याः सर्वभावतः । ये ये भोगा देहिनां च ते ते तत्र समास्थिताः ॥४९॥ भोग- भूमिः समाख्याता स्वर्गरूपा महामुने । वद तत्र च किं न्यूनं यतः पृच्छसि मां प्रभो ॥५०॥ त्वया नानाविधं कर्म तपसा साधितं मुने । स्वर्गलोकाः कृताः सर्वेऽक्षयास्तान् भोक्तुमर्हसि ॥५१॥ तत्र स्वर्गे त्रयो दोषास्तान् शृणुष्व महामुने । इह कर्म कृतं लोकैर्भोक्तव्यं शुभरूपकम् ॥५२॥ तत्र कर्म कृतं लोकैः तदेव फलहीनकम् । तेन लोको हि दुःख्यस्ति तदंते