मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 42, कुल 1023 में से
संदर्भ में पढ़ेंखं. १ अ. १८ पान ४२ दक्षो महाभागः पप्रच्छ मुनिसत्तमः ॥४॥ दक्ष उवाच । किंचित्पुरातनं पुण्यं फलितं मे महाद्भुतम् । पीतं मुद्गल ते वक्त्रात् कथामृतमिदं मया ॥५॥ धन्योऽसि कृतकृत्योऽसि गणेशे भक्तिमानसि । गणेशाच्च परं नास्ति ज्ञातं त्वद्वाक्यतो मया ॥६॥ वद मुद्गल माहात्म्यं पुनर्गणपतेः शुभम् । न तृप्तोऽहं महायोगिन् पीत्वा ब्रह्मामृतं महत् ॥७॥ शिवशैलसुतावादो महानंद- प्रदायकः । तत्राष्टौ गणराजस्य ह्यवताराः श्रुता मया ॥८॥ तेषां तच्चरितं चाऽपि माहात्म्यं तेऽपि यन् महत्। श्रोतुमिच्छामि योगीश दयां कृत्वा वदस्व मे ॥९॥ किमर्थं गणराजोऽयमवतारं करोति वै । ब्रह्मभूयमयो देवस्तद्वदस्व महामुने ॥१०॥ परोपकरणार्थाय त्वादृशा मुनिसत्तमाः । भ्रमंति धरणीं ब्रह्मन् पतितेभ्यः सुखप्रदाः ॥११॥ दर्शनस्पर्शनेनैव भाषणेन विशेषतः । पावयंति जनान् सर्वान् साधवः समदर्शिनः ॥१२॥ सूत उवाच। श्रुत्वा दक्षवचो रम्यं प्रत्युवाच स मुद्गलः। प्रहृष्टो भावयुक्तस्य दक्षस्य च महात्मनः ॥१३॥ मुद्गल उवाच। शृणु दक्ष महाभाग धन्योऽसि न च संशयः। येन त्वं गणनांथस्य कथां पृच्छसि मां प्रभो ॥१४॥ पापिनां नास्तिकानां वै दांभिकानां कदाचन । सत्कथाऽमृतपानस्य चेच्छा नोत्पद्यते क्वचित् ॥१५॥ द्वंद्वभावविचारज्ञास्तथा सहनकारकाः । भूतेषु समभावाश्च संसारतरणे रताः ॥१६॥ परोपकारकार्येषु मतिस्तेषां प्रवर्तते । एतादृशा महाभागा गणेशे सादराः प्रभो ॥१७॥ कथां गणपतेर्नित्यं शृण्वंति च पठंति ते । श्रावयंति जनानन्यान् भक्तिभावसमन्विताः ॥ १८ ॥ अतस्त्वं सादरो भूत्वा शृणुषे पापनाशिनीम् । कृत्वा वर्धयसि प्रश्नं कथां गणपतेः शुभाम् ॥ १९ ॥ शृणु यच्च पुरावृत्तं मदीयं भावपूर्वकम् । तवाऽग्रे कथयिष्यामि संशयो येन नश्यति ॥ २०॥ अवतारकथामग्रे ज्ञास्यसि त्वं यथार्थतः । गणराजपदं सर्वं प्राप्स्यसि त्वं च भक्तिमान् ॥ २१॥ अहं तपसि संविष्टः शिलोञ्छाजीवमाश्रितः । दश पंच दिनेष्वेव द्वादश्यां मम पारणम् ॥ २२॥ द्रोणमात्रं चिनोम्यन्न- सुपोषणसमन्वितः । तेनान्नेन यथान्यायं पंचयागानकृष्यहम् ॥ २३॥ एवं बहुगते काले तपसे मयि संस्थिते । देवाः सर्वे भयोद्विग्नाः किमयं साधयिष्यति ॥ २४॥ ऐंद्रं पदं विधातुर्वा वैष्णवं शैवमेव च । किं वांछति महाभागो मुनिस्तपसि संस्थितः ॥ २५॥ इति देवैः प्रेषितस्तु मुनिः सर्वार्थकोविदः । ममाश्रमे परीक्षार्थ दुर्वासाः कोपवान् ययौ ॥ २६॥ नग्न उन्मत्ततुल्यः सन्नागतः पारणे मम । महं भिक्षां मुने देहि यया तृप्तो भवाम्यहम् ॥ २७॥ इत्यूचे तु मया दत्तमन्नं तस्मै महात्मने । न ज्ञातो मुनिमुख्योऽयं दुर्वासा आगतो गृहम् ॥ २८॥ तदन्नं सकलं भुक्त्वा द्रोणमात्रं