मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 44, कुल 1023 में से
संदर्भ में पढ़ेंखं. १ अ. १८-१९ | पान ४४ किं भवेदिति ॥५३॥ एतादृशं मया कर्म पुण्यरूपं कृतं महत् । एतावंतं च कालं मे स्वर्गवासो भविष्यति ॥५४॥ एकं दोषं महांतं च जानीहि मुनिसत्तम । द्वितीयं शृणु दोषं त्वं कथयामि सविस्तरम् ॥५५॥ नाना स्वर्गेषु मित्राणि नाना प्रीति- विवर्धनाः । देवास्तत्र महाभाग सह तैर्मोदते स्वयम् ॥ ५६॥ सत्कर्म तस्य तेनैव भुक्तं स्वर्गे यथायथम् । पश्चात् पतनकाले तु तमधः पातयंति ते ॥५७॥ क्षणमेकं न तं कोऽपि स्नेहं पश्यति लोकपः । पतनस्य भयं चित्ते दोषोऽयं पातरूपकः ॥५८॥ तृतीयं दोषरूपं यच्छृणु त्वं भावपूर्वकम् । तद्वदिष्यामि ते प्रीत्या येन ज्ञानं भवेत्परम् ॥५९॥ सत्कर्मकारिणस्त्वन्ये महा- भोगकरा मुने । संति स्वर्गेषु चानेके तान् दृष्ट्वा तपति स्वयम् ॥६०॥ धिङ् मां न्यूनविहारेण तिष्ठामि स्वल्पपुण्यतः । महापुण्यकरा अन्ये अधिकं विहरंत्युत ॥६१॥ सदा हृदि तपत्येवं स्वर्गभूमिस स्वभावतः । हृदि तापात्मको दोषस्तृतीयः कथितो मया ॥६२॥ अनंतगुणसंयुक्तं स्वर्गं जानीहि तापस । दोषैस्त्रिभिः समायुक्तं महापुण्यप्रभावतः ॥६३॥ धन्यस्त्वं मुनिशार्दूल तत् स्वर्गे विजिते त्वया । भुंक्ष्व भोगान् मनोज्ञान् वै चल शीघ्रं मया सह ॥६४॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुण्डचरिते मुद्गलदेवदूतसंवादो नामाष्टादशोऽध्यायः ॥
॥ श्रीगणेशाय नमः॥ सूत उवाच । देवदूतवचः श्रुत्वा मुद्गलस्तमथाब्रवीत् । शृणु शौनक माहात्म्यं मुनेस्तस्य सुयोगिनः ॥१॥ मुद्गल उवाच । देवदूत मया सर्वं त्वयोक्तं बुद्धिपूर्वकम् । श्रुतं पुनः प्रपृच्छामि तन् मे वद महामते ॥२॥ दोषैस्त्रिभिर्विहीनं तं कं लोकं वद मे प्रभो । मनस्तापविहीनाश्च मोदंते यत्र मानवाः ॥३॥ सूत उवाच । मुद्गलस्य वचः श्रुत्वा देवदूत उवाच ह । लोकं च तमहं तुभ्यं कथयामि सविस्तरम् ॥४॥ देवदूत उवाच । निष्कामकर्मणा विप्र ब्रह्मलोकः प्रलभ्यते । वैकुंठः शिवलोकश्च सौरः शाक्तो जनेन च ॥५॥ तत्राऽपि दोषयुक्तत्वं वर्तते मुनिसत्तम । ब्रह्मभूयपदं यच्च दोषहीनं प्रचक्षते ॥६॥ देवदूतमुखादित्थं श्रुत्वा वै मुद्गलो मुनिः । तं पप्रच्छ पुनः साधुर्भाक्तनम्रात्मकंधरः ॥७॥