मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 45, कुल 1023 में से
संदर्भ में पढ़ेंखं. १ अ. १९ पान ४५ 卐卐 मुद्गल उवाच । कुत्र तल्लभ्यते स्वामिन् वद सर्वमशेषतः । उपकारपरोऽसि त्वं तेन पृच्छामि तत्त्वतः ॥८॥ देवदूत उवाच । कर्मभूमिरियं ब्रह्मन्नत्र वै लभ्यते जनैः । धर्मार्थकाममोक्षादि ब्रह्मभूयं न संशयः ॥९॥ श्रुत्वा तस्य वचो रम्यं मुद्गलस्त- मुवाच ह गच्छ दूत नमस्तुभ्यं स्वर्गं प्रति नयाम्यहम् ॥१०॥ हृदि संतापसंयुक्तं पुनः पातभयात्मकम् । स्वर्गं नेच्छामि भो विद्वन् ब्रह्म तत्साधयाम्यहम् ॥११॥ देवदूत उवाचेदं मुद्गलं मुनिसत्तमम् । भाग्यहीनोऽसि नूनं त्वं स्वर्गं नैवाभिनंदसि ॥१२॥ स्वर्गेच्छा कस्य नैवास्ति नरस्य वद मां मुने । उग्रैस्तपोभिर्दानैश्च यज्ञैः स्वर्गश्च लभ्यते ॥१३॥ नानापुण्यादिकं कृत्वा सत्कर्मादिसुसाधनैः । इच्छंति मनुजाः स्वर्गं महासौख्यप्रदं परम् ॥१४॥ स स्वर्गश्च त्वया प्राप्तस्तपसोग्रैः सुसाधनैः । नेच्छसि त्वं महामूढ ज्ञानहीनोऽसि मे मतम् ॥१५॥ देवदूतं वदंतं तं तदा पुनरिदं वचः । मुद्गलः स्नेहसंयुक्तः प्रत्युवाच हसन्निव ॥१६॥ मुद्गल उवाच । किं मां मोहयसि प्राज्ञ देहोऽयं बंधनात्मकः । देहसौख्यकरः स्वर्गो मुक्तिदो न बुधैः स्मृतः ॥१७॥ तत्राऽपि हृदि संतापो वर्तते दूतसत्तम । तापत्रयसमायुक्तं विद्वान्नेच्छति कर्हिचित् ॥१८॥ गच्छ त्वं च महाभाग बृहस्पतिपुरोगमम् । इंद्रं प्रणामं कथय नाऽऽगतो मुनिरित्यपि ॥१९॥ एवमुक्त्वा नमस्कृत्य देवदूतमहं प्रभो । अग्नेश्च गतवान् शालां गतो दूतो यथागतम् ॥२०॥ मयाऽपि स्वाश्रमे तत्र स्थितं मनसि धारितम् । विधिना ब्रह्मवेदेषु नानारूपं प्रकथ्यते ॥२१॥ किं प्रमाणं भवेत्तेषां साधनीयं मया कथम् । पूर्णभावमविज्ञाय भ्रांतोऽहं नात्र संशयः ॥२२॥ अतः संशयनाशार्थं गमिष्यामि महामुनिम् । योगिश्रेष्ठैरंगिरसं वंद्यं वेदज्ञमुत्तमम् ॥२३॥ शब्दब्रह्मणि निष्णातं परे ब्रह्मणि तन्मयम् । अस्माकं मूलपुरुषं साक्षाद् ब्रह्मशरीरकम् ॥२४॥ इति निश्चितवांस्तत्र गतोऽहं मुनिसंनिधौ । आश्रमोऽस्य मया दृष्टः सर्वभूताभयप्रदः ॥२५॥ नातपो न च शीतत्वं न क्रोधः कामसंभवः । न मात्सर्यादिकं तत्र समकालयुतो बभौ ॥२६॥ नाववृष्टिर्नातिवृष्टिश्च व्यकाले मरणं न च । न ग्रहादिकृता पीडा तत्र रक्षो- भयं न च ॥२७॥ सर्वशांतिप्रदः पूर्णस्तापसानां हितावहः । विस्मितेन सुपुण्येन प्रविष्टो भाग्ययोगतः ॥२८॥ तत्र नानामुनीनां च वत्साः परमशोभनाः । मया दृष्टा महाभाग वेदघोषनिनादिताः ॥२९॥ अग्निहोत्रादिभिर्युक्ता नानापक्षि- निनादिताः । वृक्षवल्लीसमायुक्ता नानापुष्पफलाश्रिताः ॥३०॥ नानासरोवराण्येव हंसकारंडवैर्बभुः । नानापक्षिवृतान्येव सुधारूपजलानि वै ॥३१॥ सुनिर्मलपयांस्येव मकरादियुतानि च । कमलैः कुमुदैर्नानाशोभमानानि षट्पदैः ॥३२॥ सिंह- 卐卐