भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 46, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 46

खं. १ अ. १९ पान ४६ व्याघ्रमृगा नागा गजा गावश्च मूषिकाः । निर्वैराः प्राणिनस्तत्र निवसंति प्रजापते ॥३३॥ एवं दृष्ट्वा महाभाग आश्रमं हर्षसंयुतः । पश्यन् पुनश्च ह्यभवं विस्मितो निजचेतसि ॥३४॥ तं वै कुशासनस्थं च साक्षात् सूर्यमिवापरम् । तेजसा दीप्यमानं त्वपश्यमंगिरसं मुनिम् ॥३५॥ सिद्धैर्नानाविधैश्चैव योगिभिर्मुनिभिर्वृतम् । शिष्येभ्यो ब्रह्मविद्यां तां कथयंतं यथार्थतः ॥३६॥ दंडवत्तं प्रणम्यादौ भक्तिभावयुतोऽभवम् । प्रांजलिः प्रयतो भूत्वा संस्थितो मुनिसन्निधौ ॥३७॥ तव गोत्रभवं स्वामिन् मुद्गलं मुनिसत्तम । दर्शनार्थं समायातं विद्धि मां ब्रह्मदायक ॥३८॥ मदीयं वचनं श्रुत्वा प्रसन्नः प्राह मां मुनिः । वत्स त्वमागतस्तात तिष्ठाऽत्र मम संन्निधौ ॥३९॥ अविघ्नभावयुक्तेन तपस्तप्तं त्वया सुत । तेन मे दर्शनं प्राप्तं सत्पुत्रोऽसि न संशयः ॥४०॥ मुनेर्वचनमाकर्ण्य प्राप्तोऽहं परमां मुदम् । तत्र स्थितोऽभवं दक्ष सन्निधौ तस्य धीमतः ॥४१॥ कस्मिंश्चिद् दिवसे तत्र लब्ध्वाऽवसरमुत्तमम् । पृष्टो मया महायोगी शृण्वत्सु च मुनिष्वपि ॥४२॥ ज्ञातुमिच्छामि भो स्वामिन् वद मां करुणानिधे । अस्माकं त्वं गतिः साक्षात् सर्वेषां चैव भक्तितः ॥४३॥ सूत उवाच वचनं मुद्गलस्याऽपि श्रुत्वा तं पुनरब्रवीत् । अंगिरा भगवान् योगी प्रहसंस्तं प्रहर्षयन् ॥४४॥ अंगिरा उवाच । मह्यं पृच्छसि किं तात तद् ब्रूहि त्वं महाद्युते । भावतो मंत्रकर्ता त्वं पुराणाचार्य एव च ॥४५॥ मुद्गल उवाच । कथितं ब्रह्मवेदेषु नानाभाव- समन्वितम् । किं प्रमाणं वेदितव्यं ब्रह्मभूयेप्सुभिः प्रभो ॥४६॥ अंगिरा उवाच । शृणु पुत्र प्रवक्ष्यामि वेदांतैयत्प्रभाषितम् । क्रमेण ब्रह्मलाभार्थं नानाब्रह्मन्निरूपणम् ॥४७॥ अन्नं ब्रह्मेति यत्प्रोक्तं तत्रोपाधिः समागतः । अन्नरूपो महातेजा अन्नकोश- मयं ततः ॥४८॥ प्राणो ब्रह्मेति यत्प्रोक्तं प्राणकोशप्रकाशकम् । मनो ब्रह्मेति जानीहि मनःकोशमयं तथा ॥४९॥ विज्ञानं ब्रह्म चोक्तं विज्ञानकोशप्रधारकम् । आनंदो ब्रह्म समतानंदकोशप्रभासकम् ॥५०॥ चैतन्यं ब्रह्म यत्प्रोक्तं महाकारणधारकम् । बिंदुब्रह्म यदुक्तं तज्ज्ञानदेहमयं मुने ॥५१॥ चिद्ब्रह्मेति समाख्यातं सोऽहं मात्रात्मकं मतम् । बोधो ब्रह्मेति वेदेषु स्वत उत्थानवेदकम् ॥५२॥ सांख्यं ब्रह्मेति यत्प्रोक्तं विदेहाधारकं सुत । कर्मज्ञाने तु वेदे च कथिते ते तदात्मके ॥५३॥ समं ब्रह्मेति जानीहि कथितं नंदनात्मकम् । अव्यक्तं सहजं ब्रह्म ज्ञातव्यं नेतिरूपकम् ॥५४॥ शक्तिर्ब्रह्मेति वेदेषु ह्यसद्रूप- प्रकाशकम् । सूर्यो ब्रह्मेति यत्प्रोक्तमात्मरूपं प्रकीर्तितम् ॥५५॥ विष्णुर्ब्रह्मेति यत्प्रोक्तमुभयात्मकधारकम् । शिवो ब्रह्मेति शास्त्रेषु निर्मोहस्य प्रकाशकम् ॥५६॥ स्वानंदो ब्रह्मवेदे च संयोगमयमुत्तमम् । निवृत्तिर्ब्रह्मशास्त्रेषु ह्ययोगाधारकं