भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 37, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 37

[Header] खं. १ अ. १५ | पान ३७


॥ श्रीगणेशाय नमः ॥ सूत उवाच । शिवस्य वचनं श्रुत्वा भक्तिभावेन तोषितः । उवाच मधुरं वाक्यं विघ्नेशस्तं प्रहर्षयन् ॥१॥ वक्रतुंड उवाच ॥ शृणु शंभो महाभाग मम मायाविमोहित । गणेशोऽहं पुनर्द्दष्टस्तपसा भावितात्मना ॥२॥ यः पुरा भवतो देव वरदाताऽभवं परः । उग्रेण तपसा तुष्टोऽकरवं ज्ञानसंयुक्तम् ॥३॥ ममैषा सततं माया प्रमोहयति मानवान् । तेन विस्मरणं प्राप्तं तवाऽपि न च संशयः ॥४॥ एवमुक्त्वा शिवं मायामोहजालं निराकरोत् । सर्वं च स्मरणं तेन पुनः प्राप्तं शिवस्य च ॥५॥ सर्वं स्मृत्वा शिवस्तत्र स्तोतुं समुपचक्रमे । तावदंतर्हितं जातं रूपं गणपतेः शुभम् ॥६॥ पुनर्ध्यानेन शंभुः स तमेवाचिंतयन् स्थितः । नापश्यद् हृदि तद्रूपं तेनाकुल इवाऽभवत् ॥७॥ आययौ विष्णुरभ्याशे सर्वं त्वकथयच्छिवम् । अदृष्टं तादृशं रूपं कथयामास सोऽपि तम् ॥८॥ एवं पंचाप्यदृष्ट्वा तत् विस्मिता अभवन् परम् । एकत्र मिलिता जाता- स्तुष्टुवुस्तं गतस्मयाः ॥९॥ पंच देवा ऊचुः । नमस्ते वक्रतुंडाय त्रिनेत्रं दधते नमः । चतुर्भुजाय देवाय पाशांकुशधराय च ॥१०॥ लंबोदर नमस्तुभ्यं नाभिशेषाय ते नमः । महते चैकदंताय शूर्पकर्णाय ते नमः ॥११॥ सिंदूरारुणदेहाय रक्तवर्णधराय च । महाकायाय सूक्ष्माय गणेशाय नमो नमः ॥१२॥ सिद्धिबुद्धियुतायैव विभूतिसहिताय च । चिंतामणिधरायैव तथा चिंतामणे नमः ॥१३॥ अव्यक्ताय परेशाय परेषां च पराय ते । मनोवाणीविहीनाय विघ्नेशाय नमो नमः ॥१४॥ नानामाया- धरायैव मायिनां मोहकारिणे । हेरंबाय नमस्तुभ्यं ब्रह्मणो पतये नमः ॥१५॥ दर्शयस्व निजं रूपं भक्तेभ्यः प्रीतिदायकम् । सनाथा हि वयं तेन सर्वनाथाय ते नमः ॥१६॥ स्तुवतां तु पुरः प्रादुरासीद्देवो गजाननः । तं दृष्ट्वा दंडवत् सर्वे प्रणता भक्ति- भावतः ॥१७॥ तानुत्थाप्य स्वयं ढुंढिर्वचनं चेदमब्रवीत् । स्तोत्रेण भावितो देवाः प्रीतो वो नात्र संशयः ॥१८॥ यः पठेत् स्तोत्रमेतद्वै स मे मान्यो भवेत् सुराः । वांछितं पूरयिष्याम्यंते मे सायुज्यमाप्नुयात् ॥१९॥ शृणुध्वं मे वचो रम्यं मा गर्वं कुरुत प्रियाः । भवंतो मदधीनाश्च कलांशा नात्र संशयः ॥२०॥ क्रीडार्थं निर्मिताः सर्वे स्पर्धमानाः परस्परम् । किमर्थं मनसि भ्रांता जाताः पूर्णात्मका अपि ॥२१॥ श्राव्यं ज्ञानं रहस्यं यन् मदीयं तेन भाविताः । सदा मोहविनिर्मुक्ता भविता- रश्च मत्समाः ॥२२॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुंडचरिते गणेशप्रसन्नभावो नाम पंचदशोऽध्यायः ॥