मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 36, कुल 1023 में से
संदर्भ में पढ़ेंखं. १ अ. १४ पान ३६ दृष्टवानहम् ॥१९॥ वयं सर्वेश्वराः सर्वे भगवंतः सनातनाः । न्यूनाधिकं कलामात्रं विद्यते नैव निश्चितम् ॥२०॥ तस्मिन् क्षणे स्वयं शक्तिरागता मोहिनी परा । उवाच तान् प्रसन्ना मे किमर्थं स्मरणं कृतम् ॥२१॥ तामूचुस्ते च चत्वारो देवाः स्नेहेन भाविताः । दर्शयस्व महादेवि ऐश्वर्यं कीदृशं तव ॥२२॥ इत्युक्ता सा स्वरूपं तद्दर्शयामास सुंदरम् । चराचरमयं पूर्णं स्थूलसूक्ष्मादिभिर्युतम् ॥२३॥ दृष्ट्वा रूपं तदीयं वै भ्रांतास्ते शरणं ययुः । नांतं ददृशिमार्ये ते रूपस्य महतः किल ॥२४॥ सौम्यरूपा तदा जाता तामूचुः पश्य भावतः । अस्माकं देवि चैश्वर्यं कीदृशा वयमेव च ॥२५॥ तेषां वचनमाकर्ण्य ज्ञानदृष्ट्या स्म पश्यति । नांतं जगाम तेषां वै नता सा तान्विशेषतः ॥२६॥ उवाच स्नेहभावेन नांतं पश्यामि कुत्रचित् । भवंतोऽपि महात्मान ईश्वराः पूर्णभावतः ॥२७॥ वयं पंच समा नाथा नांतरं दृश्यते क्वचित् । कः समर्थो भवेद्देवो निश्चयो नैव दृश्यते ॥२८॥ गणेशमायया भ्रांता अवदंस्ते परस्परम् । प्रभुरेकश्च सर्वत्र वेदे वै पठ्यते बुधैः ॥२९॥ प्रभवः पंच कुत्रापि नोक्ताः शास्त्रेषु संमताः । अतः कोपि प्रभुर्भाव्यः स च वै कुत्र वर्तते ॥३०॥ एवं विवादे संप्राप्ते विस्मृतं ज्ञानमायकम् । गाणेशं चित्तचांचल्यादूर्ध्वं जग्मुः प्रभावतः ॥३१॥ न किंचिद्ददृशुस्तत्राधो भागे प्रययुस्ततः । एवं दश दिशो भ्रांताः पश्यंतस्ते परस्परम् ॥३२॥ न किंचिद्ददृशुस्तत्र स्थिता एकत्र ते पुनः । योगमार्गेण चित्ते खे ध्यानं चक्रुः क्रमेण च ॥३३॥ ब्रह्माऽभेदस्वरूपं ते रेमिरे योगभावनः । एकीभूता इवात्मानः शांतिं प्राप्ताः स्वभावतः ॥३४॥ ततस्तान् दर्शयामास योगिध्येयमनुत्तमम् । स्वरूपं गणराजस्तु हृदये संस्थितं परम् ॥३५॥ चतुर्भुजं त्रिनेत्रं तच्छुंडादंडविरा- जितम् । एकदंतं शूर्पकर्णं वक्रतुंडं महोदरम् ॥३६॥ रक्तवर्णं महाकायं सिंदूरालिप्तमेव च । नाभिशेषं किरीटादिनानाभूषण- शोभितम् ॥३७॥ सिद्धिवृद्धियुतं पूर्णं विभूतिभिरुपासितम् । चिंतामणिं मणिं चैव दधत्तु हृदये शुभम् ॥३८॥ प्रसन्नवदनं भक्तानुग्रहाणं प्रकारकम् । हृदि दृष्ट्वाऽभवन्नेव विस्मितास्ते सुराः प्रिये ॥३९॥ तमादौ शंकरस्यैव हृदि प्रकटतां गतः । तं पप्रच्छ स्वयं शंभुः को भवान् वद मे प्रभो ॥४०॥ शांतियोगेन संप्राप्तः किं न ब्रह्मपतिः परः । कथयस्व महाभाग त्वां न जानामि तत्त्वतः ॥४१॥ ॥ ओमिति श्रीमदन्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुंडचरिते गणेशप्रादुर्भावो नाम चतुर्दशोऽध्यायः ॥