भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 35, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 35

खं. १ अ. १४ पान ३५ संतुष्टमानसः ॥२०॥ य एतत्पठति स्तोत्रं स कामान् लभतेऽखिलान् । मत्प्रियः सोऽपि भवति मल्लोकेऽन्ते प्रगच्छति ॥२१॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुंडचरिते पंचदेवविवादो नाम त्रयोदशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ शिव उवाच । शृणु देवि प्रवक्ष्यामि यज्जातं चाद्भुतं ततः । गणेशमायामोहेन मोहितानां चरित्रकम् ॥१॥ शिवस्य वचनं श्रुत्वा विष्णुर्ब्रह्माणमब्रवीत् । वरं वृणु विरिंच त्वां शिवात्पुत्रो भवेति मे ॥२॥ तव पुत्रः शिवो जातस्तेन मे पौत्रतां गतः । उभयोः सफलं पूर्णं वांछितं जातमद्भुतम् ॥३॥ विष्णोर्वचनमाकर्ण्य विधिः शंकरमब्रवीत् । मम पुत्रो भव त्वं वै वर एष वृतो मया ॥४॥ विष्णुनाऽपि तदेवोक्तं तथा वै शंकरोऽब्रवीत् । तव भालाद्भविष्यामि रुद्रोऽहं त्वंशतो विधे ॥५॥ शिवस्य वचनं श्रुत्वा संतुष्टौ विधिमाधवौ । ऊचतुः शंकरं तत्र स्नेहात्तं भावपूर्वकम् ॥६॥ विधिवच्छिव पश्य त्वमैश्वर्यं चावयोः पृथक् । तेन तुष्टौ महादेव भविष्यावो न संशयः ॥७॥ तयोर्यदैश्वरं भावं शिवोपि ज्ञान- चक्षुषा । दृष्ट्वा नांतं जगामाऽसौ तौ पुनः प्रत्युवाच ह ॥८॥ भवतोर्महिमानं चापारं पश्यामि शाश्वतम् । वयं त्रयः समा- ख्याता ईश्वराः सर्वतः पराः ॥९॥ एतस्मिन्नंतरे तत्राऽजगाम स दिवाकरः । तेजोराशिः सदात्मा च पृच्छति स्म समाहितः ॥१०॥ किमर्थं स्मरणं देवा मदीयं कृतमादरात् । तन्मे कथयताद्य त्वागतोऽहं स्नेहतः परम् ॥११॥ भानोर्वचनमाकर्ण्य प्रहृष्टास्ते त्रयो भृशम् । ऊचुः प्रसन्नभावेनैश्वर्यं ते दर्शय प्रभो ॥१२॥ तेषां श्रुत्वा गिरं सौम्यां दर्शयामास रूपकम् । तेजोमयमपारं यच्चराचरमयं महत् ॥१३॥ सूर्यस्य तेजसा सर्वे निष्प्रभास्ते त्रयः कृताः । प्रणष्टदृष्टयो जाता न शेकुर्दृष्टुमंजसा ॥१४॥ ज्ञानदृष्ट्या च तं दृष्ट्वा चराचरतनुं प्रभुम् । अपाररूपं भास्वंतं नतास्तं स्नेहभावतः ॥१५॥ दर्शयित्वा तथात्मानं सौम्यरूपोर्यमाऽभवत् । तमूचुस्ते त्रयो देवा नांतं ददृशिम प्रभो ॥१६॥ अस्माकमपि पश्य त्वमैश्वर्यं स्नेहभावतः । तेषां तद्वचनं श्रुत्वा रविर्हृष्टो बभूव ह ॥१७॥ ज्ञानदृष्ट्या रविस्तेषामैश्वर्यं दृष्टवान् परम् । उवाच प्रणतो भूत्वा विस्मितश्चेतसा भृशम् ॥१८॥ भवंतोऽपि महात्मानो नांतं पश्यामि सर्वतः । युष्माकमैश्वरं भावमद्भुतं